द्वितीयः खण्डः

1

तदेतत्सत्यं मन्त्रेषु कर्माणि कवयो यान्यपश्यंस्तानि त्रेतायां बहुधा सन्ततानि ।  
तान्याचरथ नियतं सत्यकामा एष वः पन्थाः सुकृतस्य लोके ॥ १ ॥
tadetatsatyaṃ mantreṣu karmāṇi kavayo yānyapaśyaṃstāni tretāyāṃ bahudhā santatāni |  
tānyācaratha niyataṃ satyakāmā eṣa vaḥ panthāḥ sukṛtasya loke || 1 ||

साङ्गा वेदा अपरा विद्योक्ता ‘ऋग्वेदो यजुर्वेदः’ (मु. उ. १ । १ । ५) इत्यादिना । ‘यत्तदद्रेश्यम्’ (मु. उ. १ । १ । ६) इत्यादिना ‘नामरूपमन्नं च जायते’ (मु. उ. १ । १ । ९) इत्यन्तेन ग्रन्थेनोक्तलक्षणमक्षरं यया विद्ययाधिगम्यत इति सा परा विद्या सविशेषणोक्ता । अतः परमनयोर्विद्ययोर्विषयौ विवेक्तव्यौ संसारमोक्षावित्युत्तरो ग्रन्थ आरभ्यते । तत्रापरविद्याविषयः कर्त्रादिसाधनक्रियाफलभेदरूपः संसारोऽनादिरनन्तो दुःखस्वरूपत्वाद्धातव्यः प्रत्येकं शरीरिभिः सामस्त्येन नदीस्रोतोवदविच्छेदरूपसम्बन्धः तदुपशमलक्षणो मोक्षः परविद्याविषयोऽनाद्यनन्तोऽजरोऽमरोऽमृतोऽभयः शुद्धः प्रसन्नः स्वात्मप्रतिष्ठालक्षणः परमानन्दोऽद्वय इति । पूर्वं तावदपरविद्याया विषयप्रदर्शनार्थमारम्भः । तद्दर्शने हि तन्निर्वेदोपपत्तिः । तथा च वक्ष्यति — ‘परीक्ष्य लोकान्कर्मचितान्’ (मु. उ. १ । २ । १२) इत्यादिना । न ह्यप्रदर्शिते परीक्षोपपद्यत इति तत्प्रदर्शयन्नाह — तदेतत् सत्यम् अवितथम् । किं तत् ? मन्त्रेषु ऋग्वेदाद्याख्येषु कर्माणि अग्निहोत्रादीनि मन्त्रैरेव प्रकाशितानि कवयः मेधाविनो वसिष्ठादयः यानि अपश्यन् दृष्टवन्तः । यत्तदेतत्सत्यमेकान्तपुरुषार्थसाधनत्वात् , तानि च वेदविहितानि ऋषिदृष्टानि कर्माणि त्रेतायां त्रयीसंयोगलक्षणायां हौत्राध्वर्यवौद्गात्रप्रकारायामधिकरणभूतायां बहुधा बहुप्रकारं सन्ततानि सम्प्रवृत्तानि कर्मिभिः क्रियमाणानि त्रेतायां वा युगे प्रायशः प्रवृत्तानि ; अतो यूयं तानि आचरथ निर्वर्तयत नियतं नित्यं सत्यकामा यथाभूतकर्मफलकामाः सन्तः । एषः वः युष्माकं पन्थाः मार्गः सुकृतस्य स्वयं निर्वर्तितस्य कर्मणः लोके फलनिमित्तं लोक्यते दृश्यते भुज्यत इति कर्मफलं लोक उच्यते । तदर्थं तत्प्राप्तये एष मार्ग इत्यर्थः । यान्येतान्यग्निहोत्रादीनि त्रय्यां विहितानि कर्माणि, तान्येष पन्था अवश्यफलप्राप्तिसाधनमित्यर्थः ॥

2

यदा लेलायते ह्यर्चिः समिद्धे हव्यवाहने ।  
तदाज्यभागावन्तरेणाहुतीः प्रतिपादयेत् ॥ २ ॥
yadā lelāyate hyarciḥ samiddhe havyavāhane |  
tadājyabhāgāvantareṇāhutīḥ pratipādayet || 2 ||

तत्राग्निहोत्रमेव तावत्प्रथमं प्रदर्शनार्थमुच्यते, सर्वकर्मणां प्राथम्यात् । तत्कथम् ? यदैव इन्धनैरभ्याहितैः सम्यगिद्धे समिद्धे दीप्ते हव्यवाहने लेलायते चलति अर्चिः ; तदा तस्मिन्काले लेलायमाने चलत्यर्चिषि आज्यभागौ आज्यभागयोः अन्तरेण मध्ये आवापस्थाने आहुतीः प्रतिपादयेत् प्रक्षिपेत् देवतामुद्दिश्य । अनेकाहःप्रयोगापेक्षया आहुतीरिति बहुवचनम् । एष सम्यगाहुतिप्रक्षेपादिलक्षणः कर्ममार्गो लोकप्राप्तये पन्थाः । तस्य च सम्यक्करणं दुष्करम् ; विपत्तयस्त्वनेका भवन्ति ॥

3

यस्याग्निहोत्रमदर्शमपौर्णमासमचातुर्मास्यमनाग्रयणमतिथिवर्जितं च ।  
अहुतमवैश्वदेवमविधिना हुतमासप्तमांस्तस्य लोकान्हिनस्ति ॥ ३ ॥
yasyāgnihotramadarśamapaurṇamāsamacāturmāsyamanāgrayaṇamatithivarjitaṃ ca |  
ahutamavaiśvadevamavidhinā hutamāsaptamāṃstasya lokānhinasti || 3 ||

कथम् ? यस्य अग्निहोत्रिणः अग्निहोत्रम् अदर्शं दर्शाख्येन कर्मणा वर्जितम् । अग्निहोत्रिभिरवश्यकर्तव्यत्वाद्दर्शस्य । अग्निहोत्रिसम्बन्ध्यग्निहोत्रविशेषणमिव भवति । तदक्रियमाणमित्येतत् । तथा अपौर्णमासम् इत्यादिष्वप्यग्निहोत्रविशेषणत्वं द्रष्टव्यम् । अग्निहोत्राङ्गत्वस्याविशिष्टत्वात् । अपौर्णमासं पौर्णमासकर्मवर्जितम् । अचातुर्मास्यं चातुर्मास्यकर्मवर्जितम् । अनाग्रयणम् आग्रयणं शरदादिषु कर्तव्यम् , तच्च न क्रियते यस्य तत्तथा । अतिथिवर्जितं च अतिथिपूजनं चाहन्यहन्यक्रियमाणं यस्य । स्वयं सम्यगग्निहोत्रकाले अहुतम् । अदर्शादिवत् अवैश्वदेवं वैश्वदेवकर्मवर्जितम् । हूयमानमप्यविधिना हुतम् अयथाहुतमित्येतत् । एवं दुःसम्पादितमसम्पादितमग्निहोत्राद्युपलक्षितं कर्म किं करोतीत्युच्यते — आसप्तमान् सप्तमसहितान् तस्य कर्तुर्लोकान् हिनस्ति हिनस्तीव आयासमात्रफलत्वात् । सम्यक् क्रियमाणेषु हि कर्मसु कर्मपरिणामानुरूप्येण भूरादयः सत्यान्ताः सप्त लोकाः फलं प्राप्तव्यम् । ते लोकाः एवम्भूतेनाग्निहोत्रादिकर्मणा त्वप्राप्यत्वाद्धिंस्यन्त इव, आयासमात्रं त्वव्यभिचारीत्यतो हिनस्तीत्युच्यते । पिण्डदानाद्यनुग्रहेण वा सम्बध्यमानाः पितृपितामहप्रपितामहाः पुत्रपौत्रप्रपौत्राः स्वात्मोपकाराः सप्त लोका उक्तप्रकारेणाग्निहोत्रादिना न भवन्तीति हिंस्यन्त इत्युच्यते ॥

4

काली कराली च मनोजवा च सुलोहिता या च सुधूम्रवर्णा ।  
स्फुलिङ्गिनी विश्वरुची च देवी लेलायमाना इति सप्त जिह्वाः ॥ ४ ॥
kālī karālī ca manojavā ca sulohitā yā ca sudhūmravarṇā |  
sphuliṅginī viśvarucī ca devī lelāyamānā iti sapta jihvāḥ || 4 ||

काली कराली च मनोजवा च सुलोहिता या च सुधूम्रवर्णा । स्फुलिङ्गिनी विश्वरुची च देवी लेलायमाना दहनस्य जिह्वाः । काल्याद्या विश्वरुच्यन्ता लेलायमानाः अग्नेर्हविराहुतिग्रसनार्था एताः किल सप्त जिह्वाः ॥

5

एतेषु यश्चरते भ्राजमानेषु यथाकालं चाहुतयो ह्याददायन् ।  
तं नयन्त्येताः सूर्यस्य रश्मयो यत्र देवानां पतिरेकोऽधिवासः ॥ ५ ॥
eteṣu yaścarate bhrājamāneṣu yathākālaṃ cāhutayo hyādadāyan |  
taṃ nayantyetāḥ sūryasya raśmayo yatra devānāṃ patireko'dhivāsaḥ || 5 ||

एतेषु अग्निजिह्वाभेदेषु यः अग्निहोत्री चरते कर्माचरत्यग्निहोत्रादिकं भ्राजमानेषु दीप्यमानेषु । यथाकालं च यस्य कर्मणो यः कालस्तं कालमनतिक्रम्य यथाकालं यजमानम् आददायन् आददाना आहुतयः तं नयन्ति प्रापयन्ति । एताः आहुतयो या इमा अनेन निर्वर्तिताः सूर्यस्य रश्मयः भूत्वा, रश्मिद्वारैरित्यर्थः । यत्र यस्मिन्स्वर्गे देवानां पतिः इन्द्रः एकः सर्वानुपरि अधि वसतीति अधिवासः ॥

6

एह्येहीति तमाहुतयः सुवर्चसः सूर्यस्य रश्मिभिर्यजमानं वहन्ति ।  
प्रियां वाचमभिवदन्त्योऽर्चयन्त्य एष वः पुण्यः सुकृतो ब्रह्मलोकः ॥ ६ ॥
ehyehīti tamāhutayaḥ suvarcasaḥ sūryasya raśmibhiryajamānaṃ vahanti |  
priyāṃ vācamabhivadantyo'rcayantya eṣa vaḥ puṇyaḥ sukṛto brahmalokaḥ || 6 ||

कथं सूर्यस्य रश्मिभिर्यजमानं वहन्तीत्युच्यते — एहि एहि इति आह्वयन्त्यः तं यजमानम् आहुतयः सुवर्चसः दीप्तिमत्यः ; किञ्च, प्रियाम् इष्टां वाचं स्तुत्यादिलक्षणाम् अभिवदन्त्यः उच्चारयन्त्यः अर्चयन्त्यः पूजयन्त्यश्च एषः वः युष्माकं पुण्यः सुकृतः ब्रह्मलोकः फलरूपः, इत्थं प्रियां वाचम् अभिवदन्त्यो वहन्तीत्यर्थः । ब्रह्मलोकः स्वर्गः प्रकरणात् ॥

7

प्लवा ह्येते अदृढा यज्ञरूपा अष्टादशोक्तमवरं येषु कर्म ।  
एतच्छ्रेयो येऽभिनन्दन्ति मूढा जरामृत्युं ते पुनरेवापि यन्ति ॥ ७ ॥
plavā hyete adṛḍhā yajñarūpā aṣṭādaśoktamavaraṃ yeṣu karma |  
etacchreyo ye'bhinandanti mūḍhā jarāmṛtyuṃ te punarevāpi yanti || 7 ||

एतच्च ज्ञानरहितं कर्मैतावत्फलमविद्याकामकर्मकार्यम् अतोऽसारं दुःखमूलमिति निन्द्यते — प्लवाः विनाशिन इत्यर्थः । हि यस्मात् एते अदृढाः अस्थिराः यज्ञरूपाः यज्ञस्य रूपाणि यज्ञरूपाः यज्ञनिर्वर्तकाः अष्टादश अष्टादशसङ्ख्याकाः षोडशर्त्विजः पत्नी यजमानश्चेत्यष्टादश । एतदाश्रयं कर्म उक्तं कथितं शास्त्रेण येषु अष्टादशसु अवरं केवलं ज्ञानवर्जितं कर्म । अतस्तेषामवरकर्माश्रयाणामष्टादशानामदृढतया प्लवत्वात्प्लवते सह फलेन तत्साध्यं कर्म ; कुण्डविनाशादिव क्षीरदध्यादीनां तत्स्थानां नाशः ; यत एवम् एतत् कर्म श्रेयः श्रेयःसाधनमिति ये अभिनन्दन्ति अभिहृष्यन्ति अविवेकिनः मूढाः, अतः ते जरां च मृत्युं च जरामृत्युं कञ्चित्कालं स्वर्गे स्थित्वा पुनरेव अपि यन्ति भूयोऽपि गच्छन्ति ॥

8

अविद्यायामन्तरे वर्तमानाः स्वयं धीराः पण्डितम्मन्यमानाः ।  
जङ्घन्यमानाः परियन्ति मूढा अन्धेनैव नीयमाना यथान्धाः ॥ ८ ॥
avidyāyāmantare vartamānāḥ svayaṃ dhīrāḥ paṇḍitammanyamānāḥ |  
jaṅghanyamānāḥ pariyanti mūḍhā andhenaiva nīyamānā yathāndhāḥ || 8 ||

किञ्च, अविद्यायाम् अन्तरे मध्ये वर्तमानाः अविवेकप्रायाः स्वयं वयमेव धीराः धीमन्तः पण्डिता विदितवेदितव्याश्चेति मन्यमाना आत्मानं सम्भावयन्तः, ते च जङ्घन्यमानाः जरारोगाद्यनेकानर्थव्रातैर्हन्यमाना भृशं पीड्यमानाः परियन्ति विभ्रमन्ति मूढाः । दर्शनवर्जितत्वात् अन्धेनैव अचक्षुष्केणैव नीयमानाः प्रदर्श्यमानमार्गाः ; यथा लोके अन्धाः चक्षूरहिता गर्तकण्टकादौ पतन्ति, तद्वत् ॥

9

अविद्यायां बहुधा वर्तमाना वयं कृतार्था इत्यभिमन्यन्ति बालाः ।  
यत्कर्मिणो न प्रवेदयन्ति रागात्तेनातुराः क्षीणलोकाश्च्यवन्ते ॥ ९ ॥
avidyāyāṃ bahudhā vartamānā vayaṃ kṛtārthā ityabhimanyanti bālāḥ |  
yatkarmiṇo na pravedayanti rāgāttenāturāḥ kṣīṇalokāścyavante || 9 ||

किञ्च, अविद्यायां बहुधा बहुप्रकारं वर्तमानाः वयमेव कृतार्थाः कृतप्रयोजनाः इति एवम् अभिमन्यन्ति अभिमन्यन्ते अभिमानं कुर्वन्ति बालाः अज्ञानिनः । यत् यस्मादेवं कर्मिणः न प्रवेदयन्ति तत्त्वं न जानन्ति रागात् कर्मफलरागाभिभवनिमित्तम् , तेन कारणेन आतुराः दुःखार्ताः सन्तः क्षीणलोकाः क्षीणकर्मफलाः स्वर्गलोकात् च्यवन्ते ॥

१०10

इष्टापूर्तं मन्यमाना वरिष्ठं नान्यच्छ्रेयो वेदयन्ते प्रमूढाः ।  
नाकस्य पृष्ठे ते सुकृतेऽनुभूत्वेमं लोकं हीनतरं वा विशन्ति ॥ १० ॥
iṣṭāpūrtaṃ manyamānā variṣṭhaṃ nānyacchreyo vedayante pramūḍhāḥ |  
nākasya pṛṣṭhe te sukṛte'nubhūtvemaṃ lokaṃ hīnataraṃ vā viśanti || 10 ||

इष्टापूर्तम् इष्टं यागादि श्रौतं कर्म पूर्तं स्मार्तं वापीकूपतडागादिकर्म मन्यमानाः एतदेवातिशयेन पुरुषार्थसाधनं वरिष्ठं प्रधानमिति चिन्तयन्तः, अन्यत् आत्मज्ञानाख्यं श्रेयःसाधनं न वेदयन्ते न जानन्ति प्रमूढाः पुत्रपशुबान्धवादिषु प्रमत्ततया मूढाः ; ते च नाकस्य स्वर्गस्य पृष्ठे उपरिस्थाने सुकृते भोगायतने अनुभूत्वा अनुभूय कर्मफलं पुनः इमं लोकं मानुषम् अस्मात् हीनतरं वा तिर्यङ्नरकादिलक्षणं यथाकर्मशेषं विशन्ति ॥

११11

तपःश्रद्धे ये ह्युपवसन्त्यरण्ये शान्ता विद्वांसो भैक्षचर्यां चरन्तः ।  
सूर्यद्वारेण ते विरजाः प्रयान्ति यत्रामृतः स पुरुषो ह्यव्ययात्मा ॥ ११ ॥
tapaḥśraddhe ye hyupavasantyaraṇye śāntā vidvāṃso bhaikṣacaryāṃ carantaḥ |  
sūryadvāreṇa te virajāḥ prayānti yatrāmṛtaḥ sa puruṣo hyavyayātmā || 11 ||

ये पुनस्तद्विपरीतज्ञानयुक्ता वानप्रस्थाः सन्न्यासिनश्च, तपःश्रद्धे हि तपः स्वाश्रमविहितं कर्म, श्रद्धा हिरण्यगर्भादिविषया विद्या, ते तपःश्रद्धे उपवसन्ति सेवन्तेऽरण्ये वर्तमानाः सन्तः । शान्ताः उपरतकरणग्रामाः । विद्वांसः गृहस्थाश्च ज्ञानप्रधाना इत्यर्थः । भैक्षचर्यां चरन्तः परिग्रहाभावादुपवसन्त्यरण्ये इति सम्बन्धः । सूर्यद्वारेण सूर्योपलक्षितेनोत्तरेण पथा ते विरजाः विरजसः, क्षीणपुण्यपापकर्माणः सन्त इत्यर्थः । प्रयान्ति प्रकर्षेण यान्ति यत्र यस्मिन्सत्यलोकादौ अमृतः स पुरुषः प्रथमजो हिरण्यगर्भः हि अव्ययात्मा अव्ययस्वभावो यावत्संसारस्थायी । एतदन्तास्तु संसारगतयोऽपरविद्यागम्याः । नन्वेतं मोक्षमिच्छन्ति केचित् । न, ‘इहैव सर्वे प्रविलीयन्ति कामाः’ (मु. उ. ३ । २ । २) ‘ते सर्वगं सर्वतः प्राप्य धीरा युक्तात्मानः सर्वमेवाविशन्ति’ (मु. उ. ३ । २ । ५) इत्यादिश्रुतिभ्यः ; अप्रकरणाच्च । अपरविद्याप्रकरणे हि प्रवृत्ते न ह्यकस्मान्मोक्षप्रसङ्गोऽस्ति । विरजस्त्वं त्वापेक्षिकम् । समस्तमपरविद्याकार्यं साध्यसाधनलक्षणं क्रियाकारकफलभेदभिन्नं द्वैतम् एतावदेव यद्धिरण्यगर्भप्राप्त्यवसानम् । तथा च मनुनोक्तं स्थावराद्यां संसारगतिमनुक्रामता — ‘ब्रह्मा विश्वसृजो धर्मो महानव्यक्तमेव च । उत्तमां सात्त्विकीमेतां गतिमाहुर्मनीषिणः’ (मनु. १२ । ५०) इति ॥

१२12

परीक्ष्य लोकान्कर्मचितान्ब्राह्मणो निर्वेदमायान्नास्त्यकृतः कृतेन ।  
तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम् ॥ १२ ॥
parīkṣya lokānkarmacitānbrāhmaṇo nirvedamāyānnāstyakṛtaḥ kṛtena |  
tadvijñānārthaṃ sa gurumevābhigacchetsamitpāṇiḥ śrotriyaṃ brahmaniṣṭham || 12 ||

अथेदानीमस्मात्साध्यसाधनरूपात्सर्वस्मात्संसाराद्विरक्तस्य परस्यां विद्यायामधिकारप्रदर्शनार्थमिदमुच्यते — परीक्ष्य यदेतदृग्वेदाद्यपरविद्याविषयं स्वाभाविकाविद्याकामकर्मदोषवत्पुरुषानुष्ठेयमविद्यादिदोषवन्तमेव पुरुषं प्रति विहितत्वात्तदनुष्ठानकार्यभूताश्च लोका ये दक्षिणोत्तरमार्गलक्षणाः फलभूताः, ये च विहिताकरणप्रतिषेधातिक्रमदोषसाध्या नरकतिर्यक्प्रेतलक्षणाः, तानेतान्परीक्ष्य प्रत्यक्षानुमानोपमानागमैः सर्वतो याथात्म्येनावधार्य लोकान् संसारगतिभूतानव्यक्तादिस्थावरान्तान्व्याकृताव्याकृतलक्षणान्बीजाङ्कुरवदितरेतरोत्पत्तिनिमित्ताननेकानर्थशतसहस्रसङ्कुलान्कदलीगर्भवदसारान्मायामरीच्युदकगन्धर्वनगराकारस्वप्नजलबुद्बुदफेनसमान्प्रतिक्षणप्रध्वंसान्पृष्ठतः कृत्वा विद्याकामदोषप्रवर्तितकर्मचितान्धर्माधर्मनिर्वर्तितानित्येतत् । ब्राह्मणः, ब्राह्मणस्यैव विशेषतोऽधिकारः सर्वत्यागेन ब्रह्मविद्यायामिति ब्राह्मणग्रहणम् । परीक्ष्य लोकान्किं कुर्यादित्युच्यते — निर्वेदम् , निष्पूर्वो विदिरत्र वैराग्यार्थे, वैराग्यम् आयात् कुर्यादित्येतत् । स वैराग्यप्रकारः प्रदर्श्यते — इह संसारे नास्ति कश्चिदपि अकृतः पदार्थः । सर्व एव हि लोकाः कर्मचिताः कर्मकृतत्वाच्चानित्याः । न नित्यं किञ्चिदस्तीत्यभिप्रायः । सर्वं तु कर्मानित्यस्यैव साधनम् । यस्माच्चतुर्विधमेव हि सर्वं कर्म कार्यम् — उत्पाद्यमाप्यं विकार्यं संस्कार्यं वा । नातः परं कर्मणो विषयोऽस्ति । अहं च नित्येनामृतेनाभयेन कूटस्थेनाचलेन ध्रुवेणार्थेनार्थी, न तद्विपरीतेन । अतः किं कृतेन कर्मणा आयासबहुलेनानर्थसाधनेन इत्येवं निर्विण्णोऽभयं शिवमकृतं नित्यं पदं यत् , तद्विज्ञानार्थं विशेषेणाधिगमार्थं स निर्विण्णो ब्राह्मणः गुरुमेव आचार्यं शमदमादिसम्पन्नम् अभिगच्छेत् । शास्त्रज्ञोऽपि स्वातन्त्र्येण ब्रह्मज्ञानान्वेषणं न कुर्यादित्येतद्गुरुमेवेत्यवधारणफलम् । समित्पाणिः समिद्भारगृहीतहस्तः श्रोत्रियम् अध्ययनश्रुतार्थसम्पन्नं ब्रह्मनिष्ठं हित्वा सर्वकर्माणि केवलेऽद्वये ब्रह्मणि निष्ठा यस्य सोऽयं ब्रह्मनिष्ठः ; जपनिष्ठस्तपोनिष्ठ इति यद्वत् । न हि कर्मिणो ब्रह्मनिष्ठता सम्भवति, कर्मात्मज्ञानयोर्विरोधात् । स तं गुरुं विधिवदुपसन्नः प्रसाद्य पृच्छेदक्षरं पुरुषं सत्यम् ॥

१३13

तस्मै स विद्वानुपसन्नाय सम्यक्प्रशान्तचित्ताय शमान्विताय ।  
येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्रह्मविद्याम् ॥ १३ ॥
tasmai sa vidvānupasannāya samyakpraśāntacittāya śamānvitāya |  
yenākṣaraṃ puruṣaṃ veda satyaṃ provāca tāṃ tattvato brahmavidyām || 13 ||

तस्मै सः विद्वान् गुरुर्ब्रह्मवित् , उपसन्नाय उपगताय । सम्यक् यथाशास्त्रमित्येतत् । प्रशान्तचित्ताय उपरतदर्पादिदोषाय । शमान्विताय बाह्येन्द्रियोपरमेण च युक्ताय,

सर्वतो विरक्तायेत्येतत् । येन विज्ञानेन यया विद्यया च परया अक्षरम् अद्रेश्यादिविशेषणं तदेवाक्षरं पुरुषशब्दवाच्यं पूर्णत्वात्पुरि शयनाच्च, सत्यं तदेव परमार्थस्वाभाव्यादव्ययम् , अक्षरं चाक्षरणादक्षतत्वादक्षयत्वाच्च, वेद विजानाति तां ब्रह्मविद्यां तत्त्वतः यथावत् प्रोवाच प्रब्रूयादित्यर्थः । आचार्यस्याप्ययमेव नियमो यन्न्यायप्राप्तसच्छिष्यनिस्तारणमविद्यामहोदधेः ॥


इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छङ्करभगवतः कृतौ मुण्डकोपनिषद्भाष्ये प्रथमं मुण्डकं
समाप्तम् ॥
iti śrīmatparamahaṃsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya
śrīmacchaṅkarabhagavataḥ kṛtau muṇḍakopaniṣadbhāṣye prathamaṃ muṇḍakaṃ
samāptam ||