प्रथमः खण्डः

परा विद्योक्ता यया तदक्षरं पुरुषाख्यं सत्यमधिगम्यते । यदधिगमे हृदयग्रन्थ्यादिसंसारकारणस्यात्यन्तिको विनाशः स्यात् , तद्दर्शनोपायश्च योगो धनुराद्युपादानकल्पनयोक्तः । अथेदानीं तत्सहकारीणि सत्यादिसाधनानि वक्तव्यानीति तदर्थ उत्तरग्रन्थारम्भः । प्राधान्येन तत्त्वनिर्धारणं च प्रकारान्तरेण क्रियते । अत्यन्तदुरवगाहत्वात्कृतमपि तत्र सूत्रभूतो मन्त्रः परमार्थवस्त्ववधारणार्थमुपन्यस्यते —

1

द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते ।  
तयोरन्यः पिप्पलं स्वाद्वत्ति अनश्नन्नन्योऽभिचाकशीति ॥ १ ॥
dvā suparṇā sayujā sakhāyā samānaṃ vṛkṣaṃ pariṣasvajāte |  
tayoranyaḥ pippalaṃ svādvatti anaśnannanyo'bhicākaśīti || 1 ||

द्वा द्वौ, सुपर्णा सुपर्णौ शोभनपतनौ सुपर्णौ, पक्षिसामान्याद्वा सुपर्णौ, सयुजा सयुजौ सहैव सर्वदा युक्तौ, सखाया सखायौ समानाख्यानौ समानाभिव्यक्तिकारणौ, एवम्भूतौ सन्तौ समानम् अविशेषमुपलब्ध्यधिष्ठानतया, एकं वृक्षं वृक्षमिवोच्छेदसामान्याच्छरीरं वृक्षं परिषस्वजाते परिष्वक्तवन्तौ । सुपर्णाविवैकं वृक्षं फलोपभोगार्थम् । अयं हि वृक्ष ऊर्ध्वमूलोऽवाक्शाखोऽश्वत्थोऽव्यक्तमूलप्रभवः क्षेत्रसञ्ज्ञकः सर्वप्राणिकर्मफलाश्रयः, तं परिष्वक्तवन्तौ सुपर्णाविव अविद्याकामकर्मवासनाश्रयलिङ्गोपाध्यात्मेश्वरौ । तयोः परिष्वक्तयोः अन्यः एकः क्षेत्रज्ञो लिङ्गोपाधिवृक्षमाश्रितः पिप्पलं कर्मनिष्पन्नं सुखदुःखलक्षणं फलं स्वादु अनेकविचित्रवेदनास्वादरूपं स्वादु अत्ति भक्षयत्युपभुङ्क्ते अविवेकतः । अनश्नन् अन्यः इतरः ईश्वरो नित्यशुद्धबुद्धमुक्तस्वभावः सर्वज्ञः सत्त्वोपाधिरीश्वरो नाश्नाति । प्रेरयिता ह्यसावुभयोर्भोज्यभोक्त्रोर्नित्यसाक्षित्वसत्तामात्रेण । स तु अनश्नन् अन्यः अभिचाकशीति पश्यत्येव केवलम् । दर्शनमात्रं हि तस्य प्रेरयितृत्वं राजवत् ॥

2

समाने वृक्षे पुरुषो निमग्नोऽनीशया शोचति मुह्यमानः ।  
जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः ॥ २ ॥
samāne vṛkṣe puruṣo nimagno'nīśayā śocati muhyamānaḥ |  
juṣṭaṃ yadā paśyatyanyamīśamasya mahimānamiti vītaśokaḥ || 2 ||

तत्रैवं सति समाने वृक्षे यथोक्ते शरीरे पुरुषः भोक्ता जीवोऽविद्याकामकर्मफलरागादिगुरुभाराक्रान्तोऽलाबुरिव सामुद्रे जले निमग्नः निश्चयेन देहात्मभावमापन्नोऽयमेवाहममुष्य पुत्रोऽस्य नप्ता कृशः स्थूलो गुणवान्निर्गुणः सुखी दुःखीत्येवम्प्रत्ययो नास्त्यन्योऽस्मादिति जायते म्रियते संयुज्यते वियुज्यते च सम्बन्धिबान्धवैः, अतः अनीशया, न कस्यचित्समर्थोऽहं पुत्रो मम विनष्टो मृता मे भार्या किं मे जीवितेनेत्येवं दीनभावोऽनीशा, तया शोचति सन्तप्यते मुह्यमानः अनेकैरनर्थप्रकारैरविवेकितया अन्तश्चिन्तामापद्यमानः स एवं प्रेततिर्यङ्मनुष्यादियोनिष्वाजवञ्जवीभावमापन्नः कदाचिदनेकजन्मसु शुद्धधर्मसञ्चितनिमित्ततः केनचित्परमकारुणिकेन दर्शितयोगमार्गः अहिंसासत्यब्रह्मचर्यसर्वत्यागशमदमादिसम्पन्नः समाहितात्मा सन् जुष्टं सेवितमनेकैर्योगमार्गैः कर्मिभिश्च यदा यस्मिन्काले पश्यति ध्यायमानः अन्यं वृक्षोपाधिलक्षणाद्विलक्षणम् ईशम् असंसारिणमशनायापिपासाशोकमोहजरामृत्य्वतीतमीशं सर्वस्य जगतोऽयमहमस्म्यात्मा सर्वस्य समः सर्वभूतस्थो नेतरोऽविद्याजनितोपाधिपरिच्छिन्नो मायात्मेति महिमानं विभूतिं च जगद्रूपमस्यैव मम परमेश्वरस्य इति यदैवं द्रष्टा, तदा वीतशोकः भवति सर्वस्माच्छोकसागराद्विप्रमुच्यते, कृतकृत्यो भवतीत्यर्थः ॥

3

यदा पश्यः पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम् ।  
तदा विद्वान्पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति ॥ ३ ॥
yadā paśyaḥ paśyate rukmavarṇaṃ kartāramīśaṃ puruṣaṃ brahmayonim |  
tadā vidvānpuṇyapāpe vidhūya nirañjanaḥ paramaṃ sāmyamupaiti || 3 ||

अन्योऽपि मन्त्र इममेवार्थमाह सविस्तरम् — यदा यस्मिन्काले पश्यः पश्यतीति विद्वान् साधक इत्यर्थः । पश्यते पश्यति पूर्ववत् , रुक्मवर्णं स्वयञ्ज्योतिःस्वभावं रुक्मस्येव वा ज्योतिरस्याविनाशि ; कर्तारं सर्वस्य जगतः ईशं पुरुषं ब्रह्मयोनिं ब्रह्म च तद्योनिश्चासौ ब्रह्मयोनिस्तं ब्रह्मयोनिं ब्रह्मणो वा अपरस्य योनिं स यदा चैवं पश्यति, तदा स विद्वान्पश्यः पुण्यपापे बन्धनभूते कर्मणी समूले विधूय निरस्य दग्ध्वा निरञ्जनः निर्लेपो विगतक्लेशः परमं प्रकृष्टं निरतिशयं साम्यं समतामद्वयलक्षणाम् ; द्वैतविषयाणि साम्यान्यतः अर्वाञ्च्येव, अतोऽद्वयलक्षणमेतत् परमं साम्यमुपैति प्रतिपद्यते ॥

4

प्राणो ह्येष यः सर्वभूतैर्विभाति विजानन्विद्वान्भवते नातिवादी ।  
आत्मक्रीड आत्मरतिः क्रियावानेष ब्रह्मविदां वरिष्ठः ॥ ४ ॥
prāṇo hyeṣa yaḥ sarvabhūtairvibhāti vijānanvidvānbhavate nātivādī |  
ātmakrīḍa ātmaratiḥ kriyāvāneṣa brahmavidāṃ variṣṭhaḥ || 4 ||

किञ्च, योऽयं प्राणस्य प्राणः पर ईश्वरः हि एषः प्रकृतः सर्वभूतैः सर्वैर्भूतैः ब्रह्मादिस्तम्बपर्यन्तैः ; इत्थम्भूतलक्षणा तृतीया । सर्वभूतस्थः सर्वात्मा सन्नित्यर्थः । विभाति विविधं दीप्यते । एवं सर्वभूतस्थं यः साक्षादात्मभावेनायमहमस्मीति विजानन् विद्वान् वाक्यार्थज्ञानमात्रेण न भवते न भवतीत्येतत् । किम् ? अतिवादी अतीत्य सर्वानन्यान्वदितुं शीलमस्येत्यतिवादी । यस्त्वेवं साक्षादात्मानं प्राणस्य प्राणं विद्वान् , सोऽतिवादी न भवतीत्यर्थः । सर्वं यदा आत्मैव नान्यदस्तीति दृष्टम् , तदा किं ह्यसावतीत्य वदेत् । यस्य त्वपरमन्यद्दृष्टमस्ति, स तदतीत्य वदति । अयं तु विद्वान्नात्मनोऽन्यत्पश्यति ; नान्यच्छृणोति ; नान्यद्विजानाति । अतो नातिवदति । किञ्च, आत्मक्रीडः आत्मन्येव क्रीडा क्रीडनं यस्य नान्यत्र पुत्रदारादिषु, स आत्मक्रीडः । तथा आत्मरतिः आत्मन्येव रती रमणं प्रीतिर्यस्य, स आत्मरतिः । क्रीडा बाह्यसाधनसापेक्षा ; रतिस्तु साधननिरपेक्षा बाह्यविषयप्रीतिमात्रमिति विशेषः । तथा क्रियावान् ज्ञानध्यानवैराग्यादिक्रिया यस्य सोऽयं क्रियावान् । समासपाठे आत्मरतिरेव क्रियास्य विद्यत इति बहुव्रीहिमतुबर्थयोरन्यतरोऽतिरिच्यते । केचित्त्वग्निहोत्रादिकर्मब्रह्मविद्ययोः समुच्चयार्थमिच्छन्ति । तच्चैष ब्रह्मविदां वरिष्ठ इत्यनेन मुख्यार्थवचनेन विरुध्यते । न हि बाह्यक्रियावानात्मक्रीड आत्मरतिश्च भवितुं शक्तः । क्वचिद्बाह्यक्रियाविनिवृत्तो ह्यात्मक्रीडो भवति बाह्यक्रियात्मक्रीडयोर्विरोधात् । न हि तमःप्रकाशयोर्युगपदेकत्र स्थितिः सम्भवति । तस्मादसत्प्रलपितमेवैतदनेन ज्ञानकर्मसमुच्चयप्रतिपादनम् । ‘अन्या वाचो विमुञ्चथ’ (मु. उ. २ । २ । ५) ‘सन्न्यासयोगात्’ (मु. उ. ३ । २ । ६) इत्यादिश्रुतिभ्यश्च । तस्मादयमेवेह क्रियावान्यो ज्ञानध्यानादिक्रियावानसम्भिन्नार्यमर्यादः सन्न्यासी । य एवंलक्षणो नातिवाद्यात्मक्रीड आत्मरतिः क्रियावान्ब्रह्मनिष्ठः, स ब्रह्मविदां सर्वेषां वरिष्ठः प्रधानः ॥

5

सत्येन लभ्यस्तपसा ह्येष आत्मा सम्यग्ज्ञानेन ब्रह्मचर्येण नित्यम् ।  
अन्तःशरीरे ज्योतिर्मयो हि शुभ्रो यं पश्यन्ति यतयः क्षीणदोषाः ॥ ५ ॥
satyena labhyastapasā hyeṣa ātmā samyagjñānena brahmacaryeṇa nityam |  
antaḥśarīre jyotirmayo hi śubhro yaṃ paśyanti yatayaḥ kṣīṇadoṣāḥ || 5 ||

अधुना सत्यादीनि भिक्षोः सम्यग्ज्ञानसहकारीणि साधनानि विधीयन्ते निवृत्तिप्रधानानि — सत्येन अनृतत्यागेन मृषावदनत्यागेन लभ्यः प्राप्तव्यः । किञ्च, तपसा हीन्द्रियमनएकाग्रतया । ‘मनसश्चेन्द्रियाणां च ह्यैकाग्र्यं परमं तपः’ (मो. ध. २५० । ४) इति स्मरणात् । तद्ध्यनुकूलमात्मदर्शनाभिमुखीभावात्परमं साधनं तपो नेतरच्चान्द्रायणादि । एष आत्मा लभ्य इत्यनुषङ्गः सर्वत्र । सम्यग्ज्ञानेन यथाभूतात्मदर्शनेन ब्रह्मचर्येण मैथुनासमाचारेण । नित्यं सर्वदा ; नित्यं सत्येन नित्यं तपसा नित्यं सम्यग्ज्ञानेनेति सर्वत्र नित्यशब्दोऽन्तर्दीपिकान्यायेनानुषक्तव्यः । वक्ष्यति च ‘न येषु जिह्ममनृतं न माया च’ (प्र. उ. १ । १६) इति । क्वासावात्मा य एतैः साधनैर्लभ्य इत्युच्यते — अन्तःशरीरेऽन्तर्मध्ये शरीरस्य पुण्डरीकाकाशे ज्योतिर्मयो हि रुक्मवर्णः शुभ्रः शुद्धो यमात्मानं पश्यन्ति उपलभन्ते यतयः यतनशीलाः सन्न्यासिनः क्षीणदोषाः क्षीणक्रोधादिचित्तमलाः, स आत्मा नित्यं सत्यादिसाधनैः सन्न्यासिभिर्लभ्यत इत्यर्थः । न कादाचित्कैः सत्यादिभिर्लभ्यते । सत्यादिसाधनस्तुत्यर्थोऽयमर्थवादः ॥

6

सत्यमेव जयते नानृतं सत्येन पन्था विततो देवयानः ।  
येनाक्रमन्त्यृषयो ह्याप्तकामा यत्र तत्सत्यस्य परमं निधानम् ॥ ६ ॥
satyameva jayate nānṛtaṃ satyena panthā vitato devayānaḥ |  
yenākramantyṛṣayo hyāptakāmā yatra tatsatyasya paramaṃ nidhānam || 6 ||

सत्यमेव सत्यवानेव जयते जयति, नानृतं नानृतवादीत्यर्थः । न हि सत्यानृतयोः केवलयोः पुरुषानाश्रितयोः जयः पराजयो वा सम्भवति । प्रसिद्धं लोके सत्यवादिनानृतवाद्यभिभूयते न विपर्ययः ; अतः सिद्धं सत्यस्य बलवत्साधनत्वम् । किञ्च, शास्त्रतोऽप्यवगम्यते सत्यस्य साधनातिशयत्वम् । कथम् ? सत्येन यथाभूतवादव्यवस्थया पन्थाः देवयानाख्यः विततो विस्तीर्णः सातत्येन प्रवृत्तः । येन पथा हि अक्रमन्ति आक्रमन्ते ऋषयः दर्शनवन्तः कुहकमायाशाठ्याहङ्कारदम्भानृतवर्जिता ह्याप्तकामाः विगततृष्णाः सर्वतो यत्र यस्मिन् , तत्परमार्थतत्त्वं सत्यस्य उत्तमसाधनस्य सम्बन्धि साध्यं परमं प्रकृष्टं निधानं पुरुषार्थरूपेण निधीयत इति निधानं वर्तते । तत्र च येन पथा आक्रमन्ति, स सत्येन वितत इति पूर्वेण सम्बन्धः ॥

7

बृहच्च तद्दिव्यमचिन्त्यरूपं सूक्ष्माच्च तत्सूक्ष्मतरं विभाति ।  
दूरात्सुदूरे तदिहान्तिके च पश्यत्स्विहैव निहितं गुहायाम् ॥ ७ ॥
bṛhacca taddivyamacintyarūpaṃ sūkṣmācca tatsūkṣmataraṃ vibhāti |  
dūrātsudūre tadihāntike ca paśyatsvihaiva nihitaṃ guhāyām || 7 ||

किं तत्किन्धर्मकं च तदित्युच्यते — बृहत् महच्च तत् प्रकृतं ब्रह्म सत्यादिसाधनेन सर्वतो व्याप्तत्वात् । दिव्यं स्वयम्प्रभमनिन्द्रियगोचरम् अत एव न चिन्तयितुं शक्यतेऽस्य रूपमिति अचिन्त्यरूपम् । सूक्ष्मादाकाशादेरपि तत्सूक्ष्मतरम् , निरतिशयं हि सौक्ष्म्यमस्य सर्वकारणत्वात् ; विभाति विविधमादित्यचन्द्राद्याकारेण भाति दीप्यते । किञ्च, दूरात् विप्रकृष्टाद्देशात्सुदूरे विप्रकृष्टतरे देशे वर्ततेऽविदुषामत्यन्तागम्यत्वात्तद्ब्रह्म । इह देहे अन्तिके समीपे च, विदुषामात्मत्वात् । सर्वान्तरत्वाच्चाकाशस्याप्यन्तरश्रुतेः । इह पश्यत्सु चेतनावत्स्वित्येतत् , निहितं स्थितं दर्शनादिक्रियावत्त्वेन योगिभिर्लक्ष्यमाणम् । क्व ? गुहायां बुद्धिलक्षणायाम् । तत्र हि निगूढं लक्ष्यते विद्वद्भिः । तथाप्यविद्यया संवृतं सन्न लक्ष्यते तत्रस्थमेवाविद्वद्भिः ॥

8

न चक्षुषा गृह्यते नापि वाचा नान्यैर्देवैस्तपसा कर्मणा वा ।  
ज्ञानप्रसादेन विशुद्धसत्त्वस्ततस्तु तं पश्यते निष्कलं ध्यायमानः ॥ ८ ॥
na cakṣuṣā gṛhyate nāpi vācā nānyairdevaistapasā karmaṇā vā |  
jñānaprasādena viśuddhasattvastatastu taṃ paśyate niṣkalaṃ dhyāyamānaḥ || 8 ||

पुनरप्यसाधारणं तदुपलब्धिसाधनमुच्यते — यस्मात् न चक्षुषा गृह्यते केनचिदप्यरूपत्वात् नापि गृह्यते वाचा अनभिधेयत्वात् न चान्यैर्देवैः इतरेन्द्रियैः । तपसः सर्वप्राप्तिसाधनत्वेऽपि न तपसा गृह्यते । तथा वैदिकेनाग्निहोत्रादिकर्मणा प्रसिद्धमहत्त्वेनापि न गृह्यते । किं पुनस्तस्य ग्रहणे साधनमित्याह — ज्ञानप्रसादेन आत्मावबोधनसमर्थमपि स्वभावेन सर्वप्राणिनां ज्ञानं बाह्यविषयरागादिदोषकलुषितमप्रसन्नमशुद्धं सन्नावबोधयति नित्यसन्निहितमप्यात्मतत्त्वं मलावनद्धमिवादर्शम् , विलुलितमिव सलिलम् । तद्यदेन्द्रियविषयसंसर्गजनितरागादिमलकालुष्यापनयनादादर्शसलिलादिवत्प्रसादितं स्वच्छं शान्तमवतिष्ठते, तदा ज्ञानस्य प्रसादः स्यात् । तेन ज्ञानप्रसादेन विशुद्धसत्त्वः विशुद्धान्तःकरणः योग्यो ब्रह्म द्रष्टुं यस्मात् , ततः तस्मात्तु तमात्मानं पश्यते पश्यति उपलभते निष्कलं सर्वावयवभेदवर्जितं ध्यायमानः सत्यादिसाधनवानुपसंहृतकरण एकाग्रेण मनसा ध्यायमानः चिन्तयन् ॥

9

एषोऽणुरात्मा चेतसा वेदितव्यो यस्मिन्प्राणः पञ्चधा संविवेश ।  
प्राणैश्चित्तं सर्वमोतं प्रजानां यस्मिन्विशुद्धे विभवत्येष आत्मा ॥ ९ ॥
eṣo'ṇurātmā cetasā veditavyo yasminprāṇaḥ pañcadhā saṃviveśa |  
prāṇaiścittaṃ sarvamotaṃ prajānāṃ yasminviśuddhe vibhavatyeṣa ātmā || 9 ||

यमात्मानमेवं पश्यति, एषः अणुः सूक्ष्मः आत्मा चेतसा विशुद्धज्ञानेन केवलेन वेदितव्यः । क्वासौ ? यस्मिन् शरीरे प्राणः वायुः पञ्चधा प्राणापानादिभेदेन संविवेश सम्यक् प्रविष्टः, तस्मिन्नेव शरीरे हृदये चेतसा ज्ञेय इत्यर्थः । कीदृशेन चेतसा वेदितव्य इत्याह — प्राणैः सहेन्द्रियैः चित्तं सर्वमन्तःकरणं प्रजानाम् ओतं व्याप्तं येन क्षीरमिव स्नेहेन, काष्ठमिव चाग्निना । सर्वं हि प्रजानामन्तःकरणं चेतनावत्प्रसिद्धं लोके । यस्मिंश्च चित्ते क्लेशादिमलवियुक्ते शुद्धे विभवति, एषः उक्त आत्मा विशेषेण स्वेनात्मना विभवति आत्मानं प्रकाशयतीत्यर्थः ॥

१०10

यं यं लोकं मनसा संविभाति विशुद्धसत्त्वः कामयते यांश्च कामान् ।  
तं तं लोकं जयते तांश्च कामांस्तस्मादात्मज्ञं ह्यर्चयेद्भूतिकामः ॥ १० ॥
yaṃ yaṃ lokaṃ manasā saṃvibhāti viśuddhasattvaḥ kāmayate yāṃśca kāmān |  
taṃ taṃ lokaṃ jayate tāṃśca kāmāṃstasmādātmajñaṃ hyarcayedbhūtikāmaḥ || 10 ||

य एवमुक्तलक्षणं सर्वात्मानमात्मत्वेन प्रतिपन्नस्तस्य सर्वात्मत्वादेव सर्वावाप्तिलक्षणं फलमाह — यं यं लोकं पित्रादिलक्षणं मनसा संविभाति सङ्कल्पयति मह्यमन्यस्मै वा भवेदिति, विशुद्धसत्त्वः क्षीणक्लेशः आत्मविन्निर्मलान्तःकरणः कामयते यांश्च कामान् प्रार्थयते भोगान् , तं तं लोकं जयते प्राप्नोति तांश्च कामान्सङ्कल्पितान्भोगान् । तस्माद्विदुषः सत्यसङ्कल्पत्वादात्मज्ञमात्मज्ञानेन विशुद्धान्तःकरणं ह्यर्चयेत्पूजयेत्पादप्रक्षालनशुश्रूषानमस्कारादिभिः भूतिकामः विभूतिमिच्छुः । ततः पूजार्ह एवासौ ॥


इति तृतीयमुण्डके प्रथमखण्डभाष्यम् ॥
iti tṛtīyamuṇḍake prathamakhaṇḍabhāṣyam ||