षष्ठोऽनुवाकः

1

असन्नेव स भवति । असद्ब्रह्मेति वेद चेत् । अस्ति ब्रह्मेति चेद्वेद ।
सन्तमेन न्ततो विदुरिति । तस्यैष एव शारीर आत्मा । यः पूर्वस्य ।
अथातोऽनुप्रश्नाः । उताविद्वानमुं लोकं प्रेत्य । कश्चन गच्छती ३ । आहो
विद्वानमुं लोकं प्रेत्य । कश्चित्समश्नुता ३ उ । सोऽकामयत । बहु
स्यां प्रजायेयेति । स तपोऽतप्यत । स तपस्तप्त्वा । इदं सर्वमसृजत ।
यदिदं किञ्च । तत्सृष्ट्वा । तदेवानुप्राविशत् । तदनुप्रविश्य । सच्च
त्यच्चाभवत् । निरुक्तं चानिरुक्तं च । निलयनं चानिलयनं च । विज्ञानं
चाविज्ञानं च । सत्यं चानृतं च सत्यमभवत् । यदिदं किञ्च ।
तत्सत्यमित्याचक्षते । तदप्येष श्लोको भवति ॥ १ ॥
asanneva sa bhavati | asadbrahmeti veda cet | asti brahmeti cedveda |
santamena ntato viduriti | tasyaiṣa eva śārīra ātmā | yaḥ pūrvasya |
athāto'nupraśnāḥ | utāvidvānamuṃ lokaṃ pretya | kaścana gacchatī 3 | āho
vidvānamuṃ lokaṃ pretya | kaścitsamaśnutā 3 u | so'kāmayata | bahu
syāṃ prajāyeyeti | sa tapo'tapyata | sa tapastaptvā | idaṃ sarvamasṛjata |
yadidaṃ kiñca | tatsṛṣṭvā | tadevānuprāviśat | tadanupraviśya | sacca
tyaccābhavat | niruktaṃ cāniruktaṃ ca | nilayanaṃ cānilayanaṃ ca | vijñānaṃ
cāvijñānaṃ ca | satyaṃ cānṛtaṃ ca satyamabhavat | yadidaṃ kiñca |
tatsatyamityācakṣate | tadapyeṣa śloko bhavati || 1 ||

इति षष्ठानुवाकभाष्यम् ॥
iti ṣaṣṭhānuvākabhāṣyam ||