विज्ञानं ब्रह्मेति व्यजानात् । विज्ञानाद्ध्येव खल्विमानि भूतानि जायन्ते
। विज्ञानेन जातानि जीवन्ति । विज्ञानं प्रयन्त्यभिसंविशन्तीति ।
तद्विज्ञाय । पुनरेव वरुणं पितरमुपससार । अधीहि भगवो
ब्रह्मेति । तं होवाच । तपसा ब्रह्म विजिज्ञासस्व । तपो
ब्रह्मेति । स तपोऽतप्यत । स तपस्तप्त्वा ॥ १ ॥
vijñānaṃ brahmeti vyajānāt | vijñānāddhyeva khalvimāni bhūtāni jāyante
| vijñānena jātāni jīvanti | vijñānaṃ prayantyabhisaṃviśantīti |
tadvijñāya | punareva varuṇaṃ pitaramupasasāra | adhīhi bhagavo
brahmeti | taṃ hovāca | tapasā brahma vijijñāsasva | tapo
brahmeti | sa tapo'tapyata | sa tapastaptvā || 1 ||