प्रथमः पादः
स्मृत्यधिकरणम्स्मृत्यधिकरणम्
१1
स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यनवकाशदोषप्रसङ्गात् ॥ १ ॥
smṛtyanavakāśadoṣaprasaṅga iti cennānyasmṛtyanavakāśadoṣaprasaṅgāt || 1 ||
२2
इतरेषां चानुपलब्धेः ॥ २ ॥
itareṣāṃ cānupalabdheḥ || 2 ||
योगप्रत्युक्त्यधिकरणम्योगप्रत्युक्त्यधिकरणम्
३3
एतेन योगः प्रत्युक्तः ॥ ३ ॥
etena yogaḥ pratyuktaḥ || 3 ||
नविलक्षणत्वाधिकरणम्नविलक्षणत्वाधिकरणम्
४4
न विलक्षणत्वादस्य तथात्वं च शब्दात् ॥ ४ ॥
na vilakṣaṇatvādasya tathātvaṃ ca śabdāt || 4 ||
५5
अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम् ॥ ५ ॥
abhimānivyapadeśastu viśeṣānugatibhyām || 5 ||
६6
दृश्यते तु ॥ ६ ॥
dṛśyate tu || 6 ||
७7
असदिति चेन्न प्रतिषेधमात्रत्वात् ॥ ७ ॥
asaditi cenna pratiṣedhamātratvāt || 7 ||
८8
अपीतौ तद्वत्प्रसङ्गादसमञ्जसम् ॥ ८ ॥
apītau tadvatprasaṅgādasamañjasam || 8 ||
९9
न तु दृष्टान्तभावात् ॥ ९ ॥
na tu dṛṣṭāntabhāvāt || 9 ||
१०10
स्वपक्षदोषाच्च ॥ १० ॥
svapakṣadoṣācca || 10 ||
११11
तर्काप्रतिष्ठानादप्यन्यथानुमेयमिति चेदेवमप्यविमोक्षप्रसङ्गः ॥ ११ ॥
tarkāpratiṣṭhānādapyanyathānumeyamiti cedevamapyavimokṣaprasaṅgaḥ || 11 ||
शिष्टापरिग्रहाधिकरणम्शिष्टापरिग्रहाधिकरणम्
१२12
एतेन शिष्टापरिग्रहा अपि व्याख्याताः ॥ १२ ॥
etena śiṣṭāparigrahā api vyākhyātāḥ || 12 ||
भोक्त्रापत्त्यधिकरणम्भोक्त्रापत्त्यधिकरणम्
१३13
भोक्त्रापत्तेरविभागश्चेत्स्याल्लोकवत् ॥ १३ ॥
bhoktrāpatteravibhāgaścetsyāllokavat || 13 ||
आरम्भणाधिकरणम्आरम्भणाधिकरणम्
१४14
तदनन्यत्वमारम्भणशब्दादिभ्यः ॥ १४ ॥
tadananyatvamārambhaṇaśabdādibhyaḥ || 14 ||
१५15
भावे चोपलब्धेः ॥ १५ ॥
bhāve copalabdheḥ || 15 ||
१६16
सत्त्वाच्चावरस्य ॥ १६ ॥
sattvāccāvarasya || 16 ||
१७17
असद्व्यपदेशान्नेति चेन्न धर्मान्तरेण वाक्यशेषात् ॥ १७ ॥
asadvyapadeśānneti cenna dharmāntareṇa vākyaśeṣāt || 17 ||
१८18
युक्तेः शब्दान्तराच्च ॥ १८ ॥
yukteḥ śabdāntarācca || 18 ||
१९19
पटवच्च ॥ १९ ॥
paṭavacca || 19 ||
२०20
यथा च प्राणादि ॥ २० ॥
yathā ca prāṇādi || 20 ||
इतरव्यपदेशाधिकरणम्इतरव्यपदेशाधिकरणम्
२१21
इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिः ॥ २१ ॥
itaravyapadeśāddhitākaraṇādidoṣaprasaktiḥ || 21 ||
२२22
अधिकं तु भेदनिर्देशात् ॥ २२ ॥
adhikaṃ tu bhedanirdeśāt || 22 ||
२३23
अश्मादिवच्च तदनुपपत्तिः ॥ २३ ॥
aśmādivacca tadanupapattiḥ || 23 ||
उपसंहारदर्शनाधिकरणम्उपसंहारदर्शनाधिकरणम्
२४24
उपसंहारदर्शनान्नेति चेन्न क्षीरवद्धि ॥ २४ ॥
upasaṃhāradarśanānneti cenna kṣīravaddhi || 24 ||
२५25
देवादिवदपि लोके ॥ २५ ॥
devādivadapi loke || 25 ||
कृत्स्नप्रसक्त्यधिकरणम्कृत्स्नप्रसक्त्यधिकरणम्
२६26
कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपो वा ॥ २६ ॥
kṛtsnaprasaktirniravayavatvaśabdakopo vā || 26 ||
२७27
श्रुतेस्तु शब्दमूलत्वात् ॥ २७ ॥
śrutestu śabdamūlatvāt || 27 ||
२८28
आत्मनि चैवं विचित्राश्च हि ॥ २८ ॥
ātmani caivaṃ vicitrāśca hi || 28 ||
२९29
स्वपक्षदोषाच्च ॥ २९ ॥
svapakṣadoṣācca || 29 ||
सर्वोपेताधिकरणम्सर्वोपेताधिकरणम्
३०30
सर्वोपेता च तद्दर्शनात् ॥ ३० ॥
sarvopetā ca taddarśanāt || 30 ||
३१31
विकरणत्वान्नेति चेत्तदुक्तम् ॥ ३१ ॥
vikaraṇatvānneti cettaduktam || 31 ||
प्रयोजनवत्त्वाधिकरणम्प्रयोजनवत्त्वाधिकरणम्
३२32
न प्रयोजनवत्त्वात् ॥ ३२ ॥
na prayojanavattvāt || 32 ||
३३33
लोकवत्तु लीलाकैवल्यम् ॥ ३३ ॥
lokavattu līlākaivalyam || 33 ||
वैषम्यनैर्घृण्याधिकरणम्वैषम्यनैर्घृण्याधिकरणम्
३४34
वैषम्यनैर्घृण्ये न सापेक्षत्वात्तथाहि दर्शयति ॥ ३४ ॥
vaiṣamyanairghṛṇye na sāpekṣatvāttathāhi darśayati || 34 ||
३५35
न कर्माविभागादिति चेन्नानादित्वात् ॥ ३५ ॥
na karmāvibhāgāditi cennānāditvāt || 35 ||
३६36
उपपद्यते चाप्युपलभ्यते च ॥ ३६ ॥
upapadyate cāpyupalabhyate ca || 36 ||
सर्वधर्मोपपत्त्यधिकरणम्सर्वधर्मोपपत्त्यधिकरणम्
३७37
सर्वधर्मोपपत्तेश्च ॥ ३७ ॥
sarvadharmopapatteśca || 37 ||
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
iti śrīmatparamahaṃsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya