तृतीयः पादः

वियदधिकरणम्वियदधिकरणम्

1

न वियदश्रुतेः ॥ १ ॥
na viyadaśruteḥ || 1 ||

2

अस्ति तु ॥ २ ॥
asti tu || 2 ||

3

गौण्यसम्भवात् ॥ ३ ॥
gauṇyasambhavāt || 3 ||

4

शब्दाच्च ॥ ४ ॥
śabdācca || 4 ||

5

स्याच्चैकस्य ब्रह्मशब्दवत् ॥ ५ ॥
syāccaikasya brahmaśabdavat || 5 ||

6

प्रतिज्ञाऽहानिरव्यतिरेकाच्छब्देभ्यः ॥ ६ ॥
pratijñā'hāniravyatirekācchabdebhyaḥ || 6 ||

7

यावद्विकारं तु विभागो लोकवत् ॥ ७ ॥
yāvadvikāraṃ tu vibhāgo lokavat || 7 ||

मातरिश्वाधिकरणम्मातरिश्वाधिकरणम्

8

एतेन मातरिश्वा व्याख्यातः ॥ ८ ॥
etena mātariśvā vyākhyātaḥ || 8 ||

असम्भवाधिकरणम्असम्भवाधिकरणम्

9

असम्भवस्तु सतोऽनुपपत्तेः ॥ ९ ॥
asambhavastu sato'nupapatteḥ || 9 ||

तेजोऽधिकरणम्तेजोऽधिकरणम्

१०10

तेजोऽतस्तथाह्याह ॥ १० ॥
tejo'tastathāhyāha || 10 ||

अबधिकरणम्अबधिकरणम्

११11

आपः ॥ ११ ॥
āpaḥ || 11 ||

पृथिव्यधिकाराधिकरणम्पृथिव्यधिकाराधिकरणम्

१२12

पृथिव्यधिकाररूपशब्दान्तरेभ्यः ॥ १२ ॥
pṛthivyadhikārarūpaśabdāntarebhyaḥ || 12 ||

तदभिध्यानाधिकरणम्तदभिध्यानाधिकरणम्

१३13

तदभिध्यानादेव तु तल्लिङ्गात्सः ॥ १३ ॥
tadabhidhyānādeva tu talliṅgātsaḥ || 13 ||

विपर्ययाधिकरणम्विपर्ययाधिकरणम्

१४14

विपर्ययेण तु क्रमोऽत उपपद्यते च ॥ १४ ॥
viparyayeṇa tu kramo'ta upapadyate ca || 14 ||

अन्तराविज्ञानाधिकरणम्अन्तराविज्ञानाधिकरणम्

१५15

अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गादिति चेन्नाविशेषात् ॥ १५ ॥
antarā vijñānamanasī krameṇa talliṅgāditi cennāviśeṣāt || 15 ||

चराचरव्यपाश्रयाधिकरणम्चराचरव्यपाश्रयाधिकरणम्

१६16

चराचरव्यपाश्रयस्तु स्यात्तद्व्यपदेशो भाक्तस्तद्भावभावित्वात् ॥ १६ ॥
carācaravyapāśrayastu syāttadvyapadeśo bhāktastadbhāvabhāvitvāt || 16 ||

आत्माधिकरणम्आत्माधिकरणम्

१७17

नात्माऽश्रुतेर्नित्यत्वाच्च ताभ्यः ॥ १७ ॥
nātmā'śruternityatvācca tābhyaḥ || 17 ||

ज्ञाधिकरणम्ज्ञाधिकरणम्

१८18

ज्ञोऽत एव ॥ १८ ॥
jño'ta eva || 18 ||

उत्क्रान्तिगत्यधिकरणम्उत्क्रान्तिगत्यधिकरणम्

१९19

उत्क्रान्तिगत्यागतीनाम् ॥ १९ ॥
utkrāntigatyāgatīnām || 19 ||

२०20

स्वात्मना चोत्तरयोः ॥ २० ॥
svātmanā cottarayoḥ || 20 ||

२१21

नाणुरतच्छ्रुतेरिति चेन्नेतराधिकारात् ॥ २१ ॥
nāṇuratacchruteriti cennetarādhikārāt || 21 ||

२२22

स्वशब्दोन्मानाभ्यां च ॥ २२ ॥
svaśabdonmānābhyāṃ ca || 22 ||

२३23

अविरोधश्चन्दनवत् ॥ २३ ॥
avirodhaścandanavat || 23 ||

२४24

अवस्थितिवैशेष्यादिति चेन्नाभ्युपगमाद्धृदि हि ॥ २४ ॥
avasthitivaiśeṣyāditi cennābhyupagamāddhṛdi hi || 24 ||

२५25

गुणाद्वा लोकवत् ॥ २५ ॥
guṇādvā lokavat || 25 ||

२६26

व्यतिरेको गन्धवत् ॥ २६ ॥
vyatireko gandhavat || 26 ||

२७27

तथा च दर्शयति ॥ २७ ॥
tathā ca darśayati || 27 ||

२८28

पृथगुपदेशात् ॥ २८ ॥
pṛthagupadeśāt || 28 ||

२९29

तद्गुणसारत्वात्तु तद्व्यपदेशः प्राज्ञवत् ॥ २९ ॥
tadguṇasāratvāttu tadvyapadeśaḥ prājñavat || 29 ||

३०30

यावदात्मभावित्वाच्च न दोषस्तद्दर्शनात् ॥ ३० ॥
yāvadātmabhāvitvācca na doṣastaddarśanāt || 30 ||

३१31

पुंस्त्वादिवत्त्वस्य सतोऽभिव्यक्तियोगात् ॥ ३१ ॥
puṃstvādivattvasya sato'bhivyaktiyogāt || 31 ||

३२32

नित्योपलब्ध्यनुपलब्धिप्रसङ्गोऽन्यतरनियमो वान्यथा ॥ ३२ ॥
nityopalabdhyanupalabdhiprasaṅgo'nyataraniyamo vānyathā || 32 ||

कर्त्रधिकरणम्कर्त्रधिकरणम्

३३33

कर्ता शास्त्रार्थवत्त्वात् ॥ ३३ ॥
kartā śāstrārthavattvāt || 33 ||

३४34

विहारोपदेशात् ॥ ३४ ॥
vihāropadeśāt || 34 ||

३५35

उपादानात् ॥ ३५ ॥
upādānāt || 35 ||

३६36

व्यपदेशाच्च क्रियायां न चेन्निर्देशविपर्ययः ॥ ३६ ॥
vyapadeśācca kriyāyāṃ na cennirdeśaviparyayaḥ || 36 ||

३७37

उपलब्धिवदनियमः ॥ ३७ ॥
upalabdhivadaniyamaḥ || 37 ||

३८38

शक्तिविपर्ययात् ॥ ३८ ॥
śaktiviparyayāt || 38 ||

३९39

समाध्यभावाच्च ॥ ३९ ॥
samādhyabhāvācca || 39 ||

तक्षाधिकरणम्तक्षाधिकरणम्

४०40

यथा च तक्षोभयथा ॥ ४० ॥
yathā ca takṣobhayathā || 40 ||

परायत्ताधिकरणम्परायत्ताधिकरणम्

४१41

परात्तु तच्छ्रुतेः ॥ ४१ ॥
parāttu tacchruteḥ || 41 ||

४२42

कृतप्रयत्नापेक्षस्तु विहितप्रतिषिद्धावैयर्थ्यादिभ्यः ॥ ४२ ॥
kṛtaprayatnāpekṣastu vihitapratiṣiddhāvaiyarthyādibhyaḥ || 42 ||

अंशाधिकरणम्अंशाधिकरणम्

४३43

अंशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके ॥ ४३ ॥
aṃśo nānāvyapadeśādanyathā cāpi dāśakitavāditvamadhīyata eke || 43 ||

४४44

मन्त्रवर्णाच्च ॥ ४४ ॥
mantravarṇācca || 44 ||

४५45

अपि च स्मर्यते ॥ ४५ ॥
api ca smaryate || 45 ||

४६46

प्रकाशादिवन्नैवं परः ॥ ४६ ॥
prakāśādivannaivaṃ paraḥ || 46 ||

४७47

स्मरन्ति च ॥ ४७ ॥
smaranti ca || 47 ||

४८48

अनुज्ञापरिहारौ देहसम्बन्धाज्ज्योतिरादिवत् ॥ ४८ ॥
anujñāparihārau dehasambandhājjyotirādivat || 48 ||

४९49

असन्ततेश्चाव्यतिकरः ॥ ४९ ॥
asantateścāvyatikaraḥ || 49 ||

५०50

आभास एव च ॥ ५० ॥
ābhāsa eva ca || 50 ||

५१51

अदृष्टानियमात् ॥ ५१ ॥
adṛṣṭāniyamāt || 51 ||

५२52

अभिसन्ध्यादिष्वपि चैवम् ॥ ५२ ॥
abhisandhyādiṣvapi caivam || 52 ||

५३53

प्रदेशादिति चेन्नान्तर्भावात् ॥ ५३ ॥
pradeśāditi cennāntarbhāvāt || 53 ||

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
iti śrīmatparamahaṃsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya