चतुर्थः पादः

प्राणोत्पत्त्यधिकरणम्प्राणोत्पत्त्यधिकरणम्

1

तथा प्राणाः ॥ १ ॥
tathā prāṇāḥ || 1 ||

2

गौण्यसम्भवात् ॥ २ ॥
gauṇyasambhavāt || 2 ||

3

तत्प्राक्श्रुतेश्च ॥ ३ ॥
tatprākśruteśca || 3 ||

4

तत्पूर्वकत्वाद्वाचः ॥ ४ ॥
tatpūrvakatvādvācaḥ || 4 ||

सप्तगत्यधिकरणम्सप्तगत्यधिकरणम्

5

सप्त गतेर्विशेषितत्वाच्च ॥ ५ ॥
sapta gaterviśeṣitatvācca || 5 ||

6

हस्तादयस्तु स्थितेऽतो नैवम् ॥ ६ ॥
hastādayastu sthite'to naivam || 6 ||

प्राणाणुत्वाधिकरणम्प्राणाणुत्वाधिकरणम्

7

अणवश्च ॥ ७ ॥
aṇavaśca || 7 ||

प्राणश्रैष्ठ्याधिकरणम्प्राणश्रैष्ठ्याधिकरणम्

8

श्रेष्ठश्च ॥ ८ ॥
śreṣṭhaśca || 8 ||

वायुक्रियाधिकरणम्वायुक्रियाधिकरणम्

9

न वायुक्रिये पृथगुपदेशात् ॥ ९ ॥
na vāyukriye pṛthagupadeśāt || 9 ||

१०10

चक्षुरादिवत्तु तत्सहशिष्ट्यादिभ्यः ॥ १० ॥
cakṣurādivattu tatsahaśiṣṭyādibhyaḥ || 10 ||

११11

अकरणत्वाच्च न दोषस्तथाहि दर्शयति ॥ ११ ॥
akaraṇatvācca na doṣastathāhi darśayati || 11 ||

१२12

पञ्चवृत्तिर्मनोवद्व्यपदिश्यते ॥ १२ ॥
pañcavṛttirmanovadvyapadiśyate || 12 ||

श्रेष्ठाणुत्वाधिकरणम्श्रेष्ठाणुत्वाधिकरणम्

१३13

अणुश्च ॥ १३ ॥
aṇuśca || 13 ||

ज्योतिराद्यधिकरणम्ज्योतिराद्यधिकरणम्

१४14

ज्योतिराद्यधिष्ठानं तु तदामननात् ॥ १४ ॥
jyotirādyadhiṣṭhānaṃ tu tadāmananāt || 14 ||

१५15

प्राणवता शब्दात् ॥ १५ ॥
prāṇavatā śabdāt || 15 ||

१६16

तस्य च नित्यत्वात् ॥ १६ ॥
tasya ca nityatvāt || 16 ||

इन्द्रियाधिकरणम्इन्द्रियाधिकरणम्

१७17

त इन्द्रियाणि तद्व्यपदेशादन्यत्र श्रेष्ठात् ॥ १७ ॥
ta indriyāṇi tadvyapadeśādanyatra śreṣṭhāt || 17 ||

१८18

भेदश्रुतेः ॥ १८ ॥
bhedaśruteḥ || 18 ||

१९19

वैलक्षण्याच्च ॥ १९ ॥
vailakṣaṇyācca || 19 ||

सञ्ज्ञामूर्तिकॢप्त्यधिकरणम्सञ्ज्ञामूर्तिकॢप्त्यधिकरणम्

२०20

सञ्ज्ञामूर्तिकॢप्तिस्तु त्रिवृत्कुर्वत उपदेशात् ॥ २० ॥
sañjñāmūrtikḷptistu trivṛtkurvata upadeśāt || 20 ||

२१21

मांसादि भौमं यथाशब्दमितरयोश्च ॥ २१ ॥
māṃsādi bhaumaṃ yathāśabdamitarayośca || 21 ||

२२22

वैशेष्यात्तु तद्वादस्तद्वादः ॥ २२ ॥
vaiśeṣyāttu tadvādastadvādaḥ || 22 ||

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
iti śrīmatparamahaṃsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya