एकादशोऽध्यायः

भगवतो विभूतय उक्ताः । तत्र च ‘विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत्’ (भ. गी. १० । ४२) इति भगवता अभिहितं श्रुत्वा, यत् जगदात्मरूपम् आद्यमैश्वरं तत् साक्षात्कर्तुमिच्छन् , अर्जुन उवाच —

1

अर्जुन उवाच —

मदनुग्रहाय परमं गुह्यमध्यात्मसञ्ज्ञितम् ।  
यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम ॥ १ ॥
arjuna uvāca —

madanugrahāya paramaṃ guhyamadhyātmasañjñitam |  
yattvayoktaṃ vacastena moho'yaṃ vigato mama || 1 ||

मदनुग्रहाय ममानुग्रहार्थं परमं निरतिशयं गुह्यं गोप्यम् अध्यात्मसञ्ज्ञितम् आत्मानात्मविवेकविषयं यत् त्वया उक्तं वचः वाक्यं तेन ते वचसा मोहः अयं विगतः मम, अविवेकबुद्धिः अपगता इत्यर्थः ॥ १ ॥

2

भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया ।  
त्वत्तः कमलपत्राक्ष माहात्म्यमपि चाव्ययम् ॥ २ ॥
bhavāpyayau hi bhūtānāṃ śrutau vistaraśo mayā |  
tvattaḥ kamalapatrākṣa māhātmyamapi cāvyayam || 2 ||

भवः उत्पत्तिः अप्ययः प्रलयः तौ भवाप्ययौ हि भूतानां श्रुतौ विस्तरशः मया, न सङ्क्षेपतः, त्वत्तः त्वत्सकाशात् , कमलपत्राक्ष कमलस्य पत्रं कमलपत्रं तद्वत् अक्षिणी यस्य तव स त्वं कमलपत्राक्षः हे कमलपत्राक्ष, महात्मनः भावः माहात्म्यमपि च अव्ययम् अक्षयम् ‘श्रुतम्’ इति अनुवर्तते ॥ २ ॥

3

एवमेतद्यथात्थ त्वमात्मानं परमेश्वर ।  
द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम ॥ ३ ॥
evametadyathāttha tvamātmānaṃ parameśvara |  
draṣṭumicchāmi te rūpamaiśvaraṃ puruṣottama || 3 ||

एवमेतत् नान्यथा यथा येन प्रकारेण आत्थ कथयसि त्वम् आत्मानं परमेश्वर । तथापि द्रष्टुमिच्छामि ते तव ज्ञानैश्वर्यशक्तिबलवीर्यतेजोभिः सम्पन्नम् ऐश्वरं वैष्णवं रूपं पुरुषोत्तम ॥ ३ ॥

4

मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो ।  
योगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम् ॥ ४ ॥
manyase yadi tacchakyaṃ mayā draṣṭumiti prabho |  
yogeśvara tato me tvaṃ darśayātmānamavyayam || 4 ||

मन्यसे चिन्तयसि यदि मया अर्जुनेन तत् शक्यं द्रष्टुम् इति प्रभो, स्वामिन् , योगेश्वर योगिनो योगाः, तेषां ईश्वरः योगेश्वरः, हे योगेश्वर । यस्मात् अहम् अतीव अर्थी द्रष्टुम् , ततः तस्मात् मे मदर्थं दर्शय त्वम् आत्मानम् अव्ययम् ॥ ४ ॥

5

श्रीभगवानुवाच —

पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः ।  
नानाविधानि दिव्यानि नानावर्णाकृतीनि च ॥ ५ ॥
śrībhagavānuvāca —

paśya me pārtha rūpāṇi śataśo'tha sahasraśaḥ |  
nānāvidhāni divyāni nānāvarṇākṛtīni ca || 5 ||

पश्य मे पार्थ, रूपाणि शतशः अथ सहस्रशः, अनेकशः इत्यर्थः । तानि च नानाविधानि अनेकप्रकाराणि दिवि भवानि दिव्यानि अप्राकृतानि नानावर्णाकृतीनि च नाना विलक्षणाः नीलपीतादिप्रकाराः वर्णाः तथा आकृतयश्च अवयवसंस्थानविशेषाः येषां रूपाणां तानि नानावर्णाकृतीनि च ॥ ५ ॥

6

पश्यादित्यान्वसून्रुद्रानश्विनौ मरुतस्तथा ।  
बहून्यदृष्टपूर्वाणि पश्याश्चर्याणि भारत ॥ ६ ॥
paśyādityānvasūnrudrānaśvinau marutastathā |  
bahūnyadṛṣṭapūrvāṇi paśyāścaryāṇi bhārata || 6 ||

पश्य आदित्यान् द्वादश, वसून् अष्टौ, रुद्रान् एकादश, अश्विनौ द्वौ, मरुतः सप्त सप्त गणाः ये तान् । तथा च बहूनि अन्यान्यपि अदृष्टपूर्वाणि मनुष्यलोके त्वया, त्वत्तः अन्येन वा केनचित् , पश्य आश्चर्याणि अद्भुतानि भारत ॥ ६ ॥

7

इहैकस्थं जगत्कृत्स्नं पश्याद्य सचराचरम् ।  
मम देहे गुडाकेश यच्चान्यद्द्रष्टुमिच्छसि ॥ ७ ॥
ihaikasthaṃ jagatkṛtsnaṃ paśyādya sacarācaram |  
mama dehe guḍākeśa yaccānyaddraṣṭumicchasi || 7 ||

इह एकस्थम् एकस्मिन्नेव स्थितं जगत् कृत्स्नं समस्तं पश्य अद्य इदानीं सचराचरं सह चरेण अचरेण च वर्तते मम देहे गुडाकेश । यच्च अन्यत् जयपराजयादि, यत् शङ्कसे, ‘यद्वा जयेम यदि वा नो जयेयुः’ (भ. गी. २ । ६) इति यत् अवोचः, तदपि द्रष्टुं यदि इच्छसि ॥ ७ ॥

8

न तु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा ।  
दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम् ॥ ८ ॥
na tu māṃ śakyase draṣṭumanenaiva svacakṣuṣā |  
divyaṃ dadāmi te cakṣuḥ paśya me yogamaiśvaram || 8 ||

न तु मां विश्वरूपधरं शक्यसे द्रष्टुम् अनेनैव प्राकृतेन स्वचक्षुषा स्वकीयेन चक्षुषा । येन तु शक्यसे द्रष्टुं दिव्येन, तत् दिव्यं ददामि ते तुभ्यं चक्षुः । तेन पश्य मे योगम् ऐश्वरम् ईश्वरस्य मम ऐश्वरं योगं योगशक्त्यतिशयम् इत्यर्थः ॥ ८ ॥

9

सञ्जय उवाच —

एवमुक्त्वा ततो राजन्महायोगेश्वरो हरिः ।  
दर्शयामास पार्थाय परमं रूपमैश्वरम् ॥ ९ ॥
sañjaya uvāca —

evamuktvā tato rājanmahāyogeśvaro hariḥ |  
darśayāmāsa pārthāya paramaṃ rūpamaiśvaram || 9 ||

एवं यथोक्तप्रकारेण उक्त्वा ततः अनन्तरं राजन् धृतराष्ट्र, महायोगेश्वरः महांश्च असौ योगेश्वरश्च हरिः नारायणः दर्शयामास दर्शितवान् पार्थाय पृथासुताय परमं रूपं विश्वरूपम् ऐश्वरम् ॥ ९ ॥

१०10

अनेकवक्त्रनयनमनेकाद्भुतदर्शनम् ।  
अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम् ॥ १० ॥
anekavaktranayanamanekādbhutadarśanam |  
anekadivyābharaṇaṃ divyānekodyatāyudham || 10 ||

अनेकवक्त्रनयनम् अनेकानि वक्त्राणि नयनानि च यस्मिन् रूपे तत् अनेकवक्त्रनयनम् , अनेकाद्भुतदर्शनम् अनेकानि अद्भुतानि विस्मापकानि दर्शनानि यस्मिन् रूपे तत् अनेकाद्भुतदर्शनं रूपम् , तथा अनेकदिव्याभरणम् अनेकानि दिव्यानि आभरणानि यस्मिन् तत् अनेकदिव्याभरणम् , तथा दिव्यानेकोद्यतायुधं दिव्यानि अनेकानि अस्यादीनि उद्यतानि आयुधानि यस्मिन् तत् दिव्यानेकोद्यतायुधम् , ‘दर्शयामास’ इति पूर्वेण सम्बन्धः ॥ १० ॥

११11

दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् ।  
सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम् ॥ ११ ॥
divyamālyāmbaradharaṃ divyagandhānulepanam |  
sarvāścaryamayaṃ devamanantaṃ viśvatomukham || 11 ||

दिव्यमाल्याम्बरधरं दिव्यानि माल्यानि पुष्पाणि अम्बराणि वस्त्राणि च ध्रियन्ते येन ईश्वरेण तं दिव्यमाल्याम्बरधरम् , दिव्यगन्धानुलेपनं दिव्यं गन्धानुलेपनं यस्य तं दिव्यगन्धानुलेपनम् , सर्वाश्चर्यमयं सर्वाश्चर्यप्रायं देवम् अनन्तं न अस्य अन्तः अस्ति इति अनन्तः तम् , विश्वतोमुखं सर्वतोमुखं सर्वभूतात्मभूतत्वात् , तं दर्शयामास । ‘अर्जुनः ददर्श’ इति वा अध्याह्रियते ॥ ११ ॥

१२12

दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता ।  
यदि भाः सदृशी सा स्याद्भासस्तस्य महात्मनः ॥ १२ ॥
divi sūryasahasrasya bhavedyugapadutthitā |  
yadi bhāḥ sadṛśī sā syādbhāsastasya mahātmanaḥ || 12 ||

दिवि अन्तरिक्षे तृतीयस्यां वा दिवि सूर्याणां सहस्रं सूर्यसहस्रं तस्य युगपदुत्थितस्य सूर्यसहस्रस्य या युगपदुत्थिता भाः, सा यदि, सदृशी स्यात् तस्य महात्मनः विश्वरूपस्यैव भासः । यदि वा न स्यात् , ततः विश्वरूपस्यैव भाः अतिरिच्यते इत्यभिप्रायः ॥ १२ ॥

१३13

तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा ।  
अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा ॥ १३ ॥
tatraikasthaṃ jagatkṛtsnaṃ pravibhaktamanekadhā |  
apaśyaddevadevasya śarīre pāṇḍavastadā || 13 ||

तत्र तस्मिन् विश्वरूपे एकस्मिन् स्थितम् एकस्थं जगत् कृत्स्नं प्रविभक्तम् अनेकधा देवपितृमनुष्यादिभेदैः अपश्यत् दृष्टवान् देवदेवस्य हरेः शरीरे पाण्डवः अर्जुनः तदा ॥ १३ ॥

१४14

ततः स विस्मयाविष्टो हृष्टरोमा धनञ्जयः ।  
प्रणम्य शिरसा देवं कृताञ्जलिरभाषत ॥ १४ ॥
tataḥ sa vismayāviṣṭo hṛṣṭaromā dhanañjayaḥ |  
praṇamya śirasā devaṃ kṛtāñjalirabhāṣata || 14 ||

ततः तं दृष्ट्वा सः विस्मयेन आविष्टः विस्मयाविष्टः हृष्टानि रोमाणि यस्य सः अयं हृष्टरोमा च अभवत् धनञ्जयः । प्रणम्य प्रकर्षेण नमनं कृत्वा प्रह्वीभूतः सन् शिरसा देवं विश्वरूपधरं कृताञ्जलिः नमस्कारार्थं सम्पुटीकृतहस्तः सन् अभाषत उक्तवान् ॥ १४ ॥

१५15

अर्जुन उवाच —

पश्यामि देवांस्तव देव देहे सर्वांस्तथा भूतविशेषसङ्घान् ।  
ब्रह्माणमीशं कमलासनस्थमृषींश्च सर्वानुरगांश्च दिव्यान् ॥ १५ ॥
arjuna uvāca —

paśyāmi devāṃstava deva dehe sarvāṃstathā bhūtaviśeṣasaṅghān |  
brahmāṇamīśaṃ kamalāsanasthamṛṣīṃśca sarvānuragāṃśca divyān || 15 ||

पश्यामि उपलभे हे देव, तव देहे देवान् सर्वान् , तथा भूतविशेषसङ्घान् भूतविशेषाणां स्थावरजङ्गमानां नानासंस्थानविशेषाणां सङ्घाः भूतविशेषसङ्घाः तान् , किञ्च — ब्रह्माणं चतुर्मुखम् ईशम् ईशितारं प्रजानां कमलासनस्थं पृथिवीपद्ममध्ये मेरुकर्णिकासनस्थमित्यर्थः, ऋषींश्च वसिष्ठादीन् सर्वान् , उरगांश्च वासुकिप्रभृतीन् दिव्यान् दिवि भवान् ॥ १५ ॥

१६16

अनेकबाहूदरवक्त्रनेत्रं  
पश्यामि त्वा सर्वतोऽनन्तरूपम् ।  
नान्तं न मध्यं न पुनस्तवादिं  
पश्यामि विश्वेश्वर विश्वरूप ॥ १६ ॥
anekabāhūdaravaktranetraṃ  
paśyāmi tvā sarvato'nantarūpam |  
nāntaṃ na madhyaṃ na punastavādiṃ  
paśyāmi viśveśvara viśvarūpa || 16 ||

अनेकबाहूदरवक्त्रनेत्रम् अनेके बाहवः उदराणि वक्त्राणि नेत्राणि च यस्य तव सः त्वम् अनेकबाहूदरवक्त्रनेत्रः तम् अनेकबाहूदरवक्त्रनेत्रम् । पश्यामि त्वा त्वां सर्वतः सर्वत्र अनन्तरूपम् अनन्तानि रूपाणि अस्य इति अनन्तरूपः तम् अनन्तरूपम् । न अन्तम् , अन्तः अवसानम् , न मध्यम् , मध्यं नाम द्वयोः कोट्योः अन्तरम् , न पुनः तव आदिम् — न देवस्य अन्तं पश्यामि, न मध्यं पश्यामि, न पुनः आदिं पश्यामि, हे विश्वेश्वर विश्वरूप ॥ १६ ॥

१७17

किरीटिनं गदिनं चक्रिणं च तेजोराशिं सर्वतोदीप्तिमन्तम् ।  
पश्यामि त्वां दुर्निरीक्ष्यं समन्ताद्दीप्तानलार्कद्युतिमप्रमेयम् ॥ १७ ॥
kirīṭinaṃ gadinaṃ cakriṇaṃ ca tejorāśiṃ sarvatodīptimantam |  
paśyāmi tvāṃ durnirīkṣyaṃ samantāddīptānalārkadyutimaprameyam || 17 ||

किरीटिनं किरीटं नाम शिरोभूषणविशेषः तत् यस्य अस्ति सः किरीटी तं किरीटिनम् , तथा गदिनं गदा अस्य विद्यते इति गदी तं गदिनम् , तथा चक्रिणं चक्रम् अस्य अस्तीति चक्री तं चक्रिणं च, तेजोराशिं तेजःपुञ्जं सर्वतोदीप्तिमन्तं सर्वतोदीप्तिः अस्य अस्तीति सर्वतोदीप्तिमान् , तं सर्वतोदीप्तिमन्तं पश्यामि त्वां दुर्निरीक्ष्यं दुःखेन निरीक्ष्यः दुर्निरीक्ष्यः तं दुर्निरीक्ष्यं समन्तात् समन्ततः सर्वत्र दीप्तानलार्कद्युतिम् अनलश्च अर्कश्च अनलार्कौ दीप्तौ अनलार्कौ दीप्तानलार्कौ तयोः दीप्तानलार्कयोः द्युतिरिव द्युतिः तेजः यस्य तव स त्वं दीप्तानलार्कद्युतिः तं त्वां दीप्तानलार्कद्युतिम् , अप्रमेयं न प्रमेयम् अशक्यपरिच्छेदम् इत्येतत् ॥ १७ ॥

१८18

त्वमक्षरं परमं वेदितव्यं  
त्वमस्य विश्वस्य परं निधानम् ।  
त्वमव्ययः शाश्वतधर्मगोप्ता  
सनातनस्त्वं पुरुषो मतो मे ॥ १८ ॥
tvamakṣaraṃ paramaṃ veditavyaṃ  
tvamasya viśvasya paraṃ nidhānam |  
tvamavyayaḥ śāśvatadharmagoptā  
sanātanastvaṃ puruṣo mato me || 18 ||

त्वम् अक्षरं न क्षरतीति, परमं ब्रह्म वेदितव्यं ज्ञातव्यं मुमुक्षुभिः । त्वम् अस्य विश्वस्य समस्तस्य जगतः परं प्रकृष्टं निधानं निधीयते अस्मिन्निति निधानं परः आश्रयः इत्यर्थः । किञ्च, त्वम् अव्ययः न तव व्ययो विद्यते इति अव्ययः, शाश्वतधर्मगोप्ता शश्वद्भवः शाश्वतः नित्यः धर्मः तस्य गोप्ता शाश्वतधर्मगोप्ता । सनातनः चिरन्तनः त्वं पुरुषः परमः मतः अभिप्रेतः मे मम ॥ १८ ॥

१९19

अनादिमध्यान्तमनन्तवीर्यमनन्तबाहुं शशिसूर्यनेत्रम् ।  
पश्यामि त्वां दीप्तहुताशवक्त्रं स्वतेजसा विश्वमिदं तपन्तम् ॥ १९ ॥
anādimadhyāntamanantavīryamanantabāhuṃ śaśisūryanetram |  
paśyāmi tvāṃ dīptahutāśavaktraṃ svatejasā viśvamidaṃ tapantam || 19 ||

अनादिमध्यान्तम् आदिश्च मध्यं च अन्तश्च न विद्यते यस्य सः अयम् अनादिमध्यान्तः तं त्वां अनादिमध्यान्तम् , अनन्तवीर्यं न तव वीर्यस्य अन्तः अस्ति इति अनन्तवीर्यः तं त्वाम् अनन्तवीर्यम् , तथा अनन्तबाहुम् अनन्ताः बाहवः यस्य तव सः त्वम् , अनन्तबाहुः तं त्वाम् अनन्तबाहुम् , शशिसूर्यनेत्रं शशिशूर्यौ नेत्रे यस्य तव सः त्वं शशिसूर्यनेत्रः तं त्वां शशिसूर्यनेत्रं चन्द्रादित्यनयनम् , पश्यामि त्वां दीप्तहुताशवक्त्रं दीप्तश्च असौ हुताशश्च वक्त्रं यस्य तव सः त्वं दीप्तहुताशवक्त्रः तं त्वां दीप्तहुताशवक्त्रम् , स्वतेजसा विश्वम् इदं समस्तं तपन्तम् ॥ १९ ॥

२०20

द्यावापृथिव्योरिदमन्तरं हि  
व्याप्तं त्वयैकेन दिशश्च सर्वाः ।  
दृष्ट्वाद्भुतं रूपमिदं तवोग्रं  
लोकत्रयं प्रव्यथितं महात्मन् ॥ २० ॥
dyāvāpṛthivyoridamantaraṃ hi  
vyāptaṃ tvayaikena diśaśca sarvāḥ |  
dṛṣṭvādbhutaṃ rūpamidaṃ tavograṃ  
lokatrayaṃ pravyathitaṃ mahātman || 20 ||

द्यावापृथिव्योः इदम् अन्तरं हि अन्तरिक्षं व्याप्तं त्वया एकेन विश्वरूपधरेण दिशश्च सर्वाः व्याप्ताः । दृष्ट्वा उपलभ्य अद्भुतं विस्मापकं रूपम् इदं तव उग्रं क्रूरं लोकानां त्रयं लोकत्रयं प्रव्यथितं भीतं प्रचलितं वा हे महात्मन् अक्षुद्रस्वभाव ॥ २० ॥

२१21

अमी हि त्वा सुरसङ्घा विशन्ति  
केचिद्भीताः प्राञ्जलयो गृणन्ति ।  
स्वस्तीत्युक्त्वा महर्षिसिद्धसङ्घाः  
स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः ॥ २१ ॥
amī hi tvā surasaṅghā viśanti  
kecidbhītāḥ prāñjalayo gṛṇanti |  
svastītyuktvā maharṣisiddhasaṅghāḥ  
stuvanti tvāṃ stutibhiḥ puṣkalābhiḥ || 21 ||

अमी हि युध्यमाना योद्धारः त्वा त्वां सुरसङ्घाः ये अत्र भूभारावताराय अवतीर्णाः वस्वादिदेवसङ्घाः मनुष्यसंस्थानाः त्वां विशन्ति प्रविशन्तः दृश्यन्ते । तत्र केचित् भीताः प्राञ्जलयः सन्तो गृणन्ति स्तुवन्ति त्वाम् अन्ये पलायनेऽपि अशक्ताः सन्तः । युद्धे प्रत्युपस्थिते उत्पातादिनिमित्तानि उपलक्ष्य स्वस्ति अस्तु जगतः इति उक्त्वा महर्षिसिद्धसङ्घाः महर्षीणां सिद्धानां च सङ्घाः स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः सम्पूर्णाभिः ॥ २१ ॥

२२22

रुद्रादित्या वसवो ये च साध्या  
विश्वेऽश्विनौ मरुतश्चोष्मपाश्च ।  
गन्धर्वयक्षासुरसिद्धसङ्घा  
वीक्षन्ते त्वां विस्मिताश्चैव सर्वे ॥ २२ ॥
rudrādityā vasavo ye ca sādhyā  
viśve'śvinau marutaścoṣmapāśca |  
gandharvayakṣāsurasiddhasaṅghā  
vīkṣante tvāṃ vismitāścaiva sarve || 22 ||

रुद्रादित्याः वसवो ये च साध्याः रुद्रादयः गणाः विश्वेदेवाः अश्विनौ च देवौ मरुतश्च ऊष्मपाश्च पितरः, गन्धर्वयक्षासुरसिद्धसङ्घाः गन्धर्वाः हाहाहूहूप्रभृतयः यक्षाः कुबेरप्रभृतयः असुराः विरोचनप्रभृतयः सिद्धाः कपिलादयः तेषां सङ्घाः गन्धर्वयक्षासुरसिद्धसङ्घाः, ते वीक्षन्ते पश्यन्ति त्वां विस्मिताः विस्मयमापन्नाः सन्तः ते एव सर्वे ॥ २२ ॥

२३23

रूपं महत्ते बहुवक्त्रनेत्रं  
महाबाहो बहुबाहूरुपादम् ।  
बहूदरं बहुदंष्ट्राकरालं  
दृष्ट्वा लोकाः प्रव्यथितास्तथाहम् ॥ २३ ॥
rūpaṃ mahatte bahuvaktranetraṃ  
mahābāho bahubāhūrupādam |  
bahūdaraṃ bahudaṃṣṭrākarālaṃ  
dṛṣṭvā lokāḥ pravyathitāstathāham || 23 ||

रूपं महत् अतिप्रमाणं ते तव बहुवक्त्रनेत्रं बहूनि वक्त्राणि मुखानि नेत्राणि चक्षूंषि च यस्मिन् तत् रूपं बहुवक्त्रनेत्रम् , हे महाबाहो, बहुबाहूरुपादं बहवो बाहवः ऊरवः पादाश्च यस्मिन् रूपे तत् बहुबाहूरुपादम् , किञ्च, बहूदरं बहूनि उदराणि यस्मिन्निति बहूदरम् , बहुदंष्ट्राकरालं बह्वीभिः दंष्ट्राभिः करालं विकृतं तत् बहुदंष्ट्राकरालम् , दृष्ट्वा रूपम् ईदृशं लोकाः लौकिकाः प्राणिनः प्रव्यथिताः प्रचलिताः भयेन ; तथा अहमपि ॥ २३ ॥

२४24

नभःस्पृशं दीप्तमनेकवर्णं  
व्यात्ताननं दीप्तविशालनेत्रम् ।  
दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा  
धृतिं न विन्दामि शमं च विष्णो ॥ २४ ॥
nabhaḥspṛśaṃ dīptamanekavarṇaṃ  
vyāttānanaṃ dīptaviśālanetram |  
dṛṣṭvā hi tvāṃ pravyathitāntarātmā  
dhṛtiṃ na vindāmi śamaṃ ca viṣṇo || 24 ||

नभःस्पृशं द्युस्पर्शम् इत्यर्थः, दीप्तं प्रज्वलितम् , अनेकवर्णम् अनेके वर्णाः भयङ्कराः नानासंस्थानाः यस्मिन् त्वयि तं त्वाम् अनेकवर्णम् , व्यात्ताननं व्यात्तानि विवृतानि आननानि मुखानि यस्मिन् त्वयि तं त्वां व्यात्ताननम् , दीप्तविशालनेत्रं दीप्तानि प्रज्वलितानि विशालानि विस्तीर्णानि नेत्राणि यस्मिन् त्वयि तं त्वां दीप्तविशालनेत्रं दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा प्रव्यथितः प्रभीतः अन्तरात्मा मनः यस्य मम सः अहं प्रव्यथितान्तरात्मा सन् धृतिं धैर्यं न विन्दामि न लभे शमं च उपशमनं मनस्तुष्टिं हे विष्णो ॥ २४ ॥

२५25

दंष्ट्राकरालानि च ते मुखानि  
दृष्ट्वैव कालानलसन्निभानि ।  
दिशो न जाने न लभे च शर्म  
प्रसीद देवेश जगन्निवास ॥ २५ ॥
daṃṣṭrākarālāni ca te mukhāni  
dṛṣṭvaiva kālānalasannibhāni |  
diśo na jāne na labhe ca śarma  
prasīda deveśa jagannivāsa || 25 ||

दंष्ट्राकरालानि दंष्ट्राभिः करालानि विकृतानि ते तव मुखानि दृष्ट्वैव उपलभ्य कालानलसन्निभानि प्रलयकाले लोकानां दाहकः अग्निः कालानलः तत्सदृशानि कालानलसन्निभानि मुखानि दृष्ट्वेत्येतत् । दिशः पूर्वापरविवेकेन न जाने दिङ्मूढो जातः अस्मि । अतः न लभे च न उपलभे च शर्म सुखम् । अतः प्रसीद प्रसन्नो भव हे देवेश, जगन्निवास ॥ २५ ॥

२६26

अमी च त्वां धृतराष्ट्रस्य पुत्राः  
सर्वे सहैवावनिपालसङ्घैः ।  
भीष्मो द्रोणः सूतपुत्रस्तथासौ  
सहास्मदीयैरपि योधमुख्यैः ॥ २६ ॥
amī ca tvāṃ dhṛtarāṣṭrasya putrāḥ  
sarve sahaivāvanipālasaṅghaiḥ |  
bhīṣmo droṇaḥ sūtaputrastathāsau  
sahāsmadīyairapi yodhamukhyaiḥ || 26 ||

अमी च त्वां धृतराष्ट्रस्य पुत्राः दुर्योधनप्रभृतयः — ‘त्वरमाणाः विशन्ति’ इति व्यवहितेन सम्बन्धः — सर्वे सहैव सहिताः अवनिपालसङ्घैः अवनिं पृथ्वीं पालयन्तीति अवनिपालाः तेषां सङ्घैः, किञ्च भीष्मो द्रोणः सूतपुत्रः कर्णः तथा असौ सह अस्मदीयैरपि धृष्टद्युम्नप्रभृतिभिः योधमुख्यैः योधानां मुख्यैः प्रधानैः सह ॥ २६ ॥

२७27

वक्त्राणि ते त्वरमाणा विशन्ति  
दंष्ट्राकरालानि भयानकानि ।  
केचिद्विलग्ना दशनान्तरेषु  
सन्दृश्यन्ते चूर्णितैरुत्तमाङ्गैः ॥ २७ ॥
vaktrāṇi te tvaramāṇā viśanti  
daṃṣṭrākarālāni bhayānakāni |  
kecidvilagnā daśanāntareṣu  
sandṛśyante cūrṇitairuttamāṅgaiḥ || 27 ||

वक्त्राणि मुखानि ते तव त्वरमाणाः त्वरायुक्ताः सन्तः विशन्ति, किंविशिष्टानि मुखानि ? दंष्ट्राकरालानि भयानकानि भयङ्कराणि । किञ्च, केचित् मुखानि प्रविष्टानां मध्ये विलग्नाः दशनान्तरेषु मांसमिव भक्षितं सन्दृश्यन्ते उपलभ्यन्ते चूर्णितैः चूर्णीकृतैः उत्तमाङ्गैः शिरोभिः ॥ २७ ॥

२८28

यथा नदीनां बहवोऽम्बुवेगाः  
समुद्रमेवाभिमुखा द्रवन्ति ।  
तथा तवामी नरलोकवीरा  
विशन्ति वक्त्राण्यभिविज्वलन्ति ॥ २८ ॥
yathā nadīnāṃ bahavo'mbuvegāḥ  
samudramevābhimukhā dravanti |  
tathā tavāmī naralokavīrā  
viśanti vaktrāṇyabhivijvalanti || 28 ||

यथा नदीनां स्रवन्तीनां बहवः अनेके अम्बूनां वेगाः अम्बुवेगाः त्वराविशेषाः समुद्रमेव अभिमुखाः प्रतिमुखाः द्रवन्ति प्रविशन्ति, तथा तद्वत् तव अमी भीष्मादयः नरलोकवीराः मनुष्यलोके शूराः विशन्ति वक्त्राणि अभिविज्वलन्ति प्रकाशमानानि ॥ २८ ॥

२९29

यथा प्रदीप्तं ज्वलनं पतङ्गा विशन्ति नाशाय समृद्धवेगाः ।  
तथैव नाशाय विशन्ति लोकास्तवापि वक्त्राणि समृद्धवेगाः ॥ २९ ॥
yathā pradīptaṃ jvalanaṃ pataṅgā viśanti nāśāya samṛddhavegāḥ |  
tathaiva nāśāya viśanti lokāstavāpi vaktrāṇi samṛddhavegāḥ || 29 ||

यथा प्रदीप्तं ज्वलनम् अग्निं पतङ्गाः पक्षिणः विशन्ति नाशाय विनाशाय समृद्धवेगाः समृद्धः उद्भूतः वेगः गतिः येषां ते समृद्धवेगाः, तथैव नाशाय विशन्ति लोकाः प्राणिनः तवापि वक्त्राणि समृद्धवेगाः ॥ २९ ॥

३०30

लेलिह्यसे ग्रसमानः समन्ताल्लोकान्समग्रान्वदनैर्ज्वलद्भिः ।  
तेजोभिरापूर्य जगत्समग्रं भासस्तवोग्राः प्रतपन्ति विष्णो ॥ ३० ॥
lelihyase grasamānaḥ samantāllokānsamagrānvadanairjvaladbhiḥ |  
tejobhirāpūrya jagatsamagraṃ bhāsastavogrāḥ pratapanti viṣṇo || 30 ||

लेलिह्यसे आस्वादयसि ग्रसमानः अन्तः प्रवेशयन् समन्तात् समन्ततः लोकान् समग्रान् समस्तान् वदनैः वक्त्रैः ज्वलद्भिः दीप्यमानैः तेजोभिः आपूर्य संव्याप्य जगत् समग्रं सह अग्रेण समस्तम् इत्येतत् । किञ्च, भासः दीप्तयः तव उग्राः क्रूराः प्रतपन्ति प्रतापं कुर्वन्ति हे विष्णो व्यापनशील ॥ ३० ॥

३१31

आख्याहि मे को भवानुग्ररूपो नमोऽस्तु ते देववर प्रसीद ।  
विज्ञातुमिच्छामि भवन्तमाद्यं न हि प्रजानामि तव प्रवृत्तिम् ॥ ३१ ॥
ākhyāhi me ko bhavānugrarūpo namo'stu te devavara prasīda |  
vijñātumicchāmi bhavantamādyaṃ na hi prajānāmi tava pravṛttim || 31 ||

आख्याहि कथय मे मह्यं कः भवान् उग्ररूपः क्रूराकारः, नमः अस्तु ते तुभ्यं हे देववर देवानां प्रधान, प्रसीद प्रसादं कुरु । विज्ञातुं विशेषेण ज्ञातुम् इच्छामि भवन्तम् आद्यम् आदौ भवम् आद्यम् , न हि यस्मात् प्रजानामि तव त्वदीयां प्रवृत्तिं चेष्टाम् ॥ ३१ ॥

३२32

श्रीभगवानुवाच —

कालोऽस्मि लोकक्षयकृत्प्रवृद्धो लोकान्समाहर्तुमिह प्रवृत्तः ।  
ऋतेऽपि त्वा न भविष्यन्ति सर्वे येऽवस्थिताः प्रत्यनीकेषु योधाः ॥ ३२ ॥
śrībhagavānuvāca —

kālo'smi lokakṣayakṛtpravṛddho lokānsamāhartumiha pravṛttaḥ |  
ṛte'pi tvā na bhaviṣyanti sarve ye'vasthitāḥ pratyanīkeṣu yodhāḥ || 32 ||

कालः अस्मि लोकक्षयकृत् लोकानां क्षयं करोतीति लोकक्षयकृत् प्रवृद्धः वृद्धिं गतः । यदर्थं प्रवृद्धः तत् शृणु — लोकान् समाहर्तुं संहर्तुम् इह अस्मिन् काले प्रवृत्तः । ऋतेऽपि विनापि त्वा त्वां न भविष्यन्ति भीष्मद्रोणकर्णप्रभृतयः सर्वे, येभ्यः तव आशङ्का, ये अवस्थिताः प्रत्यनीकेषु अनीकमनीकं प्रति प्रत्यनीकेषु प्रतिपक्षभूतेषु अनीकेषु योधाः योद्धारः ॥ ३२ ॥

३३33

तस्मात्त्वमुत्तिष्ठ यशो लभस्व  
जित्वा शत्रून्भुङ्क्ष्व राज्यं समृद्धम् ।  
मयैवैते निहताः पूर्वमेव  
निमित्तमात्रं भव सव्यसाचिन् ॥ ३३ ॥
tasmāttvamuttiṣṭha yaśo labhasva  
jitvā śatrūnbhuṅkṣva rājyaṃ samṛddham |  
mayaivaite nihatāḥ pūrvameva  
nimittamātraṃ bhava savyasācin || 33 ||

तस्मात् त्वम् उत्तिष्ठ ‘भीष्मप्रभृतयः अतिरथाः अजेयाः देवैरपि, अर्जुनेन जिताः’ इति यशः लभस्व ; केवलं पुण्यैः हि तत् प्राप्यते । जित्वा शत्रून् दुर्योधनप्रभृतीन् भुङ्क्ष्व राज्यं समृद्धम् असपत्नम् अकण्टकम् । मया एव एते निहताः निश्चयेन हताः प्राणैः वियोजिताः पूर्वमेव । निमित्तमात्रं भव त्वं हे सव्यसाचिन् , सव्येन वामेनापि हस्तेन शराणां क्षेप्ता सव्यसाची इति उच्यते अर्जुनः ॥ ३३ ॥

३४34

द्रोणं च भीष्मं च जयद्रथं च  
कर्णं तथान्यानपि योधवीरान् ।  
मया हतांस्त्वं जहि मा व्यथिष्ठा  
युध्यस्व जेतासि रणे सपत्नान् ॥ ३४ ॥
droṇaṃ ca bhīṣmaṃ ca jayadrathaṃ ca  
karṇaṃ tathānyānapi yodhavīrān |  
mayā hatāṃstvaṃ jahi mā vyathiṣṭhā  
yudhyasva jetāsi raṇe sapatnān || 34 ||

द्रोणं च, येषु येषु योधेषु अर्जुनस्य आशङ्का तांस्तान् व्यपदिशति भगवान् , मया हतानिति । तत्र द्रोणभीष्मयोः तावत् प्रसिद्धम् आशङ्काकारणम् । द्रोणस्तु धनुर्वेदाचार्यः दिव्यास्त्रसम्पन्नः, आत्मनश्च विशेषतः गुरुः गरिष्ठः । भीष्मश्च स्वच्छन्दमृत्युः दिव्यास्त्रसम्पन्नश्च परशुरामेण द्वन्द्वयुद्धम् अगमत् , न च पराजितः । तथा जयद्रथः, यस्य पिता तपः चरति ‘मम पुत्रस्य शिरः भूमौ निपातयिष्यति यः, तस्यापि शिरः पतिष्यति’ इति । कर्णोऽपि वासवदत्तया शक्त्या त्वमोघया सम्पन्नः सूर्यपुत्रः कानीनः यतः, अतः तन्नाम्नैव निर्देशः । मया हतान् त्वं जहि निमित्तमात्रेण । मा व्यथिष्ठाः तेभ्यः भयं मा कार्षीः । युध्यस्व जेतासि दुर्योधनप्रभृतीन् रणे युद्धे सपत्नान् शत्रून् ॥ ३४ ॥

३५35

सञ्जय उवाच —

एतच्छ्रुत्वा वचनं केशवस्य  
कृताञ्जलिर्वेपमानः किरीटी ।  
नमस्कृत्वा भूय एवाह कृष्णं  
सगद्गदं भीतभीतः प्रणम्य ॥ ३५ ॥
sañjaya uvāca —

etacchrutvā vacanaṃ keśavasya  
kṛtāñjalirvepamānaḥ kirīṭī |  
namaskṛtvā bhūya evāha kṛṣṇaṃ  
sagadgadaṃ bhītabhītaḥ praṇamya || 35 ||

एतत् श्रुत्वा वचनं केशवस्य पूर्वोक्तं कृताञ्जलिः सन् वेपमानः कम्पमानः किरीटी नमस्कृत्वा, भूयः पुनः एव आह उक्तवान् कृष्णं सगद्गदं भयाविष्टस्य दुःखाभिघातात् स्नेहाविष्टस्य च हर्षोद्भवात् , अश्रुपूर्णनेत्रत्वे सति श्लेष्मणा कण्ठावरोधः ; ततश्च वाचः अपाटवं मन्दशब्दत्वं यत् स गद्गदः तेन सह वर्तत इति सगद्गदं वचनम् आह इति वचनक्रियाविशेषणम् एतत् । भीतभीतः पुनः पुनः भयाविष्टचेताः सन् प्रणम्य प्रह्वः भूत्वा, ‘आह’ इति व्यवहितेन सम्बन्धः ॥

अत्र अवसरे सञ्जयवचनं साभिप्रायम् । कथम् ? द्रोणादिषु अर्जुनेन निहतेषु अजेयेषु चतुर्षु, निराश्रयः दुर्योधनः निहतः एव इति मत्वा धृतराष्ट्रः जयं प्रति निराशः सन् सन्धिं करिष्यति, ततः शान्तिः उभयेषां भविष्यति इति । तदपि न अश्रौषीत् धृतराष्ट्रः भवितव्यवशात् ॥ ३५ ॥

३६36

अर्जुन उवाच —

स्थाने हृषीकेश तव प्रकीर्त्या  
जगत्प्रहृष्यत्यनुरज्यते च ।  
रक्षांसि भीतानि दिशो द्रवन्ति  
सर्वे नमस्यन्ति च सिद्धसङ्घाः ॥ ३६ ॥
arjuna uvāca —

sthāne hṛṣīkeśa tava prakīrtyā  
jagatprahṛṣyatyanurajyate ca |  
rakṣāṃsi bhītāni diśo dravanti  
sarve namasyanti ca siddhasaṅghāḥ || 36 ||

स्थाने युक्तम् । किं तत् ? तव प्रकीर्त्या त्वन्माहात्म्यकीर्तनेन श्रुतेन, हे हृषीकेश, यत् जगत् प्रहृष्यति प्रहर्षम् उपैति, तत् स्थाने युक्तम् , इत्यर्थः । अथवा विषयविशेषणं स्थाने इति । युक्तः हर्षादिविषयः भगवान् , यतः ईश्वरः सर्वात्मा सर्वभूतसुहृच्च इति । तथा अनुरज्यते अनुरागं च उपैति ; तच्च विषये इति व्याख्येयम् । किञ्च, रक्षांसि भीतानि भयाविष्टानि दिशः द्रवन्ति गच्छन्ति ; तच्च स्थाने विषये । सर्वे नमस्यन्ति नमस्कुर्वन्ति च सिद्धसङ्घाः सिद्धानां समुदायाः कपिलादीनाम् , तच्च स्थाने ॥ ३६ ॥

३७37

कस्माच्च ते न नमेरन्महात्मन्गरीयसे ब्रह्मणोऽप्यादिकर्त्रे ।  
अनन्त देवेश जगन्निवास त्वमक्षरं सदसत्तत्परं यत् ॥ ३७ ॥
kasmācca te na nameranmahātmangarīyase brahmaṇo'pyādikartre |  
ananta deveśa jagannivāsa tvamakṣaraṃ sadasattatparaṃ yat || 37 ||

कस्माच्च हेतोः ते तुभ्यं न नमेरन् नमस्कुर्युः हे महात्मन् , गरीयसे गुरुतराय ; यतः ब्रह्मणः हिरण्यगर्भस्य अपि आदिकर्ता कारणम् अतः तस्मात् आदिकर्त्रे । कथम् एते न नमस्कुर्युः ? अतः हर्षादीनां नमस्कारस्य च स्थानं त्वं अर्हः विषयः इत्यर्थः । हे अनन्त देवेश हे जगन्निवास त्वम् अक्षरं तत् परम् , यत् वेदान्तेषु श्रूयते । किं तत् ? सदसत् इति । सत् विद्यमानम् , असत् च यत्र नास्ति इति बुद्धिः ; ते उपधानभूते सदसती यस्य अक्षरस्य, यद्द्वारेण सदसती इति उपचर्यते । परमार्थतस्तु सदसतोः परं तत् अक्षरं यत् अक्षरं वेदविदः वदन्ति । तत् त्वमेव, न अन्यत् इति अभिप्रायः ॥ ३७ ॥

३८38

त्वमादिदेवः पुरुषः पुराणस्त्वमस्य विश्वस्य परं निधानम् ।  
वेत्तासि वेद्यं च परं च धाम त्वया ततं विश्वमनन्तरूप ॥ ३८ ॥
tvamādidevaḥ puruṣaḥ purāṇastvamasya viśvasya paraṃ nidhānam |  
vettāsi vedyaṃ ca paraṃ ca dhāma tvayā tataṃ viśvamanantarūpa || 38 ||

त्वम् आदिदेवः, जगतः स्रष्टृत्वात् । पुरुषः, पुरि शयनात् पुराणः चिरन्तनः त्वम् एव अस्य विश्वस्य परं प्रकृष्टं निधानं निधीयते अस्मिन् जगत् सर्वं महाप्रलयादौ इति । किञ्च, वेत्ता असि, वेदिता असि सर्वस्यैव वेद्यजातस्य । यत् च वेद्यं वेदनार्हं तच्च असि परं च धाम परमं पदं वैष्णवम् । त्वया ततं व्याप्तं विश्वं समस्तम् , हे अनन्तरूप अन्तो न विद्यते तव रूपाणाम् ॥ ३८ ॥

३९39

वायुर्यमोऽग्निर्वरुणः शशाङ्कः  
प्रजापतिस्त्वं प्रपितामहश्च ।  
नमो नमस्तेऽस्तु सहस्रकृत्वः  
पुनश्च भूयोऽपि नमो नमस्ते ॥ ३९ ॥
vāyuryamo'gnirvaruṇaḥ śaśāṅkaḥ  
prajāpatistvaṃ prapitāmahaśca |  
namo namaste'stu sahasrakṛtvaḥ  
punaśca bhūyo'pi namo namaste || 39 ||

वायुः त्वं यमश्च अग्निः वरुणः अपां पतिः शशाङ्कः चन्द्रमाः प्रजापतिः त्वं कश्यपादिः प्रपितामहश्च पितामहस्यापि पिता प्रपितामहः, ब्रह्मणोऽपि पिता इत्यर्थः । नमो नमः ते तुभ्यम् अस्तु सहस्रकृत्वः । पुनश्च भूयोऽपि नमो नमः ते । बहुशो नमस्कारक्रियाभ्यासावृत्तिगणनं कृत्वसुचा उच्यते । ‘पुनश्च’ ‘भूयोऽपि’ इति श्रद्धाभक्त्यतिशयात् अपरितोषम् आत्मनः दर्शयति ॥ ३९ ॥

४०40

नमः पुरस्तादथ पृष्ठतस्ते  
नमोऽस्तु ते सर्वत एव सर्व ।  
अनन्तवीर्यामितविक्रमस्त्वं  
सर्वं समाप्नोषि ततोऽसि सर्वः ॥ ४० ॥
namaḥ purastādatha pṛṣṭhataste  
namo'stu te sarvata eva sarva |  
anantavīryāmitavikramastvaṃ  
sarvaṃ samāpnoṣi tato'si sarvaḥ || 40 ||

नमः पुरस्तात् पूर्वस्यां दिशि तुभ्यम् , अथ पृष्ठतः ते पृष्ठतः अपि च ते नमोऽस्तु, ते सर्वत एव सर्वासु दिक्षु सर्वत्र स्थिताय हे सर्व । अनन्तवीर्यामितविक्रमः अनन्तं वीर्यम् अस्य, अमितः विक्रमः अस्य । वीर्यं सामर्थ्यं विक्रमः पराक्रमः । वीर्यवानपि कश्चित् शत्रुवधादिविषये न पराक्रमते, मन्दपराक्रमो वा । त्वं तु अनन्तवीर्यः अमितविक्रमश्च इति अनन्तवीर्यामितविक्रमः । सर्वं समस्तं जगत् समाप्तोषि सम्यक् एकेन आत्मना व्याप्नोषि यतः, ततः तस्मात् असि भवसि सर्वः त्वम् , त्वया विनाभूतं न किञ्चित् अस्ति इति अभिप्रायः ॥ ४० ॥

४१41

सखेति मत्वा प्रसभं यदुक्तं  
हे कृष्ण हे यादव हे सखेति ।  
अजानता महिमानं तवेदं  
मया प्रमादात्प्रणयेन वापि ॥ ४१ ॥
sakheti matvā prasabhaṃ yaduktaṃ  
he kṛṣṇa he yādava he sakheti |  
ajānatā mahimānaṃ tavedaṃ  
mayā pramādātpraṇayena vāpi || 41 ||

सखा समानवयाः इति मत्वा ज्ञात्वा विपरीतबुद्ध्या प्रसभम् अभिभूय प्रसह्य यत् उक्तं हे कृष्ण हे यादव हे सखेति च अजानता अज्ञानिना मूढेन ; किम् अजानता इति आह — महिमानं महात्म्यं तव इदम् ईश्वरस्य विश्वरूपम् । ‘तव इदं महिमानम् अजानता’ इति वैयधिकरण्येन सम्बन्धः । ‘तवेमम्’ इति पाठः यदि अस्ति, तदा सामानाधिकरण्यमेव । मया प्रमादात् विक्षिप्तचित्ततया, प्रणयेन वापि, प्रणयो नाम स्नेहनिमित्तः विस्रम्भः तेनापि कारणेन यत् उक्तवान् अस्मि ॥ ४१ ॥

४२42

यच्चावहासार्थमसत्कृतोऽसि  
विहारशय्यासनभोजनेषु ।  
एकोऽथवाप्यच्युत तत्समक्षं  
तत्क्षामये त्वामहमप्रमेयम् ॥ ४२ ॥
yaccāvahāsārthamasatkṛto'si  
vihāraśayyāsanabhojaneṣu |  
eko'thavāpyacyuta tatsamakṣaṃ  
tatkṣāmaye tvāmahamaprameyam || 42 ||

यच्च अवहासार्थं परिहासप्रयोजनाय असत्कृतः परिभूतः असि भवसि ; क्व ? विहारशय्यासनभोजनेषु, विहरणं विहारः पादव्यायामः, शयनं शय्या, आसनम् आस्थायिका, भोजनम् अदनम् , इति एतेषु विहारशय्यासनभोजनेषु, एकः परोक्षः सन् असत्कृतः असि परिभूतः असि ; अथवापि हे अच्युत, तत् समक्षम् , तच्छब्दः क्रियाविशेषणार्थः, प्रत्यक्षं वा असत्कृतः असि तत् सर्वम् अपराधजातं क्षामये क्षमां कारये त्वाम् अहम् अप्रमेयं प्रमाणातीतम् ॥ ४२ ॥

४३43

पितासि लोकस्य चराचरस्य  
त्वमस्य पूज्यश्च गुरुर्गरीयान् ।  
न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो  
लोकत्रयेऽप्यप्रतिमप्रभाव ॥ ४३ ॥
pitāsi lokasya carācarasya  
tvamasya pūjyaśca gururgarīyān |  
na tvatsamo'styabhyadhikaḥ kuto'nyo  
lokatraye'pyapratimaprabhāva || 43 ||

पिता असि जनयिता असि लोकस्य प्राणिजातस्य चराचरस्य स्थावरजङ्गमस्य । न केवलं त्वम् अस्य जगतः पिता, पूज्यश्च पूजार्हः, यतः गुरुः गरीयान् गुरुतरः । कस्मात् गुरुतरः त्वम् इति आह — न त्वत्समः त्वत्तुल्यः अस्ति । न हि ईश्वरद्वयं सम्भवति, अनेकेश्वरत्वे व्यवहारानुपपत्तेः । त्वत्सम एव तावत् अन्यः न सम्भवति ; कुतः एव अन्यः अभ्यधिकः स्यात् लोकत्रयेऽपि सर्वस्मिन् ? अप्रतिमप्रभाव प्रतिमीयते यया सा प्रतिमा, न विद्यते प्रतिमा यस्य तव प्रभावस्य सः त्वम् अप्रतिमप्रभावः, हे अप्रतिमप्रभाव निरतिशयप्रभाव इत्यर्थः ॥ ४३ ॥

४४44

तस्मात्प्रणम्य प्रणिधाय कायं  
प्रसादये त्वामहमीशमीड्यम् ।  
पितेव पुत्रस्य सखेव सख्युः  
प्रियः प्रियायार्हसि देव सोढुम् ॥ ४४ ॥
tasmātpraṇamya praṇidhāya kāyaṃ  
prasādaye tvāmahamīśamīḍyam |  
piteva putrasya sakheva sakhyuḥ  
priyaḥ priyāyārhasi deva soḍhum || 44 ||

तस्मात् प्रणम्य नमस्कृत्य, प्रणिधाय प्रकर्षेण नीचैः धृत्वा कायं शरीरम् , प्रसादये प्रसादं कारये त्वाम् अहम् ईशम् ईशितारम् , ईड्यं स्तुत्यम् । त्वं पुनः पुत्रस्य अपराधं पिता यथा क्षमते, सर्वं सखा इव सख्युः अपराधम् , यथा वा प्रियः प्रियायाः अपराधं क्षमते, एवम् अर्हसि हे देव सोढुं प्रसहितुम् क्षन्तुम् इत्यर्थः ॥ ४४ ॥

४५45

अदृष्टपूर्वं हृषितोऽस्मि दृष्ट्वा  
भयेन च प्रव्यथितं मनो मे ।  
तदेव मे दर्शय देव रूपं  
प्रसीद देवेश जगन्निवास ॥ ४५ ॥
adṛṣṭapūrvaṃ hṛṣito'smi dṛṣṭvā  
bhayena ca pravyathitaṃ mano me |  
tadeva me darśaya deva rūpaṃ  
prasīda deveśa jagannivāsa || 45 ||

अदृष्टपूर्वं न कदाचिदपि दृष्टपूर्वम् इदं विश्वरूपं तव मया अन्यैर्वा, तत् अहं दृष्ट्वा हृषितः अस्मि । भयेन च प्रव्यथितं मनः मे । अतः तदेव मे मम दर्शय हे देव रूपं यत् मत्सखम् । प्रसीद देवेश, जगन्निवास जगतो निवासो जगन्निवासः, हे जगन्निवास ॥ ४५ ॥

४६46

किरीटिनं गदिनं चक्रहस्तमिच्छामि त्वां द्रष्टुमहं तथैव ।  
तेनैव रूपेण चतुर्भुजेन सहस्रबाहो भव विश्वमूर्ते ॥ ४६ ॥
kirīṭinaṃ gadinaṃ cakrahastamicchāmi tvāṃ draṣṭumahaṃ tathaiva |  
tenaiva rūpeṇa caturbhujena sahasrabāho bhava viśvamūrte || 46 ||

किरीटिनं किरीटवन्तं तथा गदिनं गदावन्तं चक्रहस्तम् इच्छामि त्वां प्रार्थये त्वां द्रष्टुम् अहं तथैव, पूर्ववत् इत्यर्थः । यतः एवम् , तस्मात् तेनैव रूपेण वसुदेवपुत्ररूपेण चतुर्भुजेन, सहस्रबाहो वार्तमानिकेन विश्वरूपेण, भव विश्वमूर्ते ; उपसंहृत्य विश्वरूपम् , तेनैव रूपेण भव इत्यर्थः ॥ ४६ ॥

४७47

श्रीभगवानुवाच —

मया प्रसन्नेन तवार्जुनेदं  
रूपं परं दर्शितमात्मयोगात् ।  
तेजोमयं विश्वमनन्तमाद्यं  
यन्मे त्वदन्येन न दृष्टपूर्वम् ॥ ४७ ॥
śrībhagavānuvāca —

mayā prasannena tavārjunedaṃ  
rūpaṃ paraṃ darśitamātmayogāt |  
tejomayaṃ viśvamanantamādyaṃ  
yanme tvadanyena na dṛṣṭapūrvam || 47 ||

मया प्रसन्नेन, प्रसादो नाम त्वयि अनुग्रहबुद्धिः, तद्वता प्रसन्नेन मया तव हे अर्जुन, इदं परं रूपं विश्वरूपं दर्शितम् आत्मयोगात् आत्मनः ऐश्वर्यस्य सामर्थ्यात् । तेजोमयं तेजःप्रायं विश्वं समस्तम् अनन्तम् अन्तरहितं आदौ भवम् आद्यं यत् रूपं मे मम त्वदन्येन त्वत्तः अन्येन केनचित् न दृष्टपूर्वम् ॥ ४७ ॥

४८48

न वेदयज्ञाध्ययनैर्न दानैर्न च क्रियाभिर्न तपोभिरुग्रैः ।  
एवंरूपः शक्य अहं नृलोके द्रष्टुं त्वदन्येन कुरुप्रवीर ॥ ४८ ॥
na vedayajñādhyayanairna dānairna ca kriyābhirna tapobhirugraiḥ |  
evaṃrūpaḥ śakya ahaṃ nṛloke draṣṭuṃ tvadanyena kurupravīra || 48 ||

न वेदयज्ञाध्ययनैः चतुर्णामपि वेदानाम् अध्ययनैः यथावत् यज्ञाध्ययनैश्च — वेदाध्ययनैरेव यज्ञाध्ययनस्य सिद्धत्वात् पृथक् यज्ञाध्ययनग्रहणं यज्ञविज्ञानोपलक्षणार्थम् — तथा न दानैः तुलापुरुषादिभिः, न च क्रियाभिः अग्निहोत्रादिभिः श्रौतादिभिः, न अपि तपोभिः उग्रैः चान्द्रायणादिभिः उग्रैः घोरैः, एवंरूपः यथादर्शितं विश्वरूपं यस्य सोऽहम् एवंरूपः न शक्यः अहं नृलोके मनुष्यलोके द्रष्टुं त्वदन्येन त्वत्तः अन्येन कुरुप्रवीर ॥ ४८ ॥

४९49

मा ते व्यथा मा च विमूढभावो  
दृष्ट्वा रूपं घोरमीदृङ्ममेदम् ।  
व्यपेतभीः प्रीतमनाः पुनस्त्वं  
तदेव मे रूपमिदं प्रपश्य ॥ ४९ ॥
mā te vyathā mā ca vimūḍhabhāvo  
dṛṣṭvā rūpaṃ ghoramīdṛṅmamedam |  
vyapetabhīḥ prītamanāḥ punastvaṃ  
tadeva me rūpamidaṃ prapaśya || 49 ||

मा ते व्यथा मा भूत् ते भयम् , मा च विमूढभावः विमूढचित्तता, दृष्ट्वा उपलभ्य रूपं घोरम् ईदृक् यथादर्शितं मम इदम् । व्यपेतभीः विगतभयः, प्रीतमनाश्च सन् पुनः भूयः त्वं तदेव चतुर्भुजं रूपं शङ्खचक्रगदाधरं तव इष्टं रूपम् इदं प्रपश्य ॥ ४९ ॥

५०50

सञ्जय उवाच —

इत्यर्जुनं वासुदेवस्तथोक्त्वा  
स्वकं रूपं दर्शयामास भूयः ।  
आश्वासयामास च भीतमेनं  
भूत्वा पुनःसौम्यवपुर्महात्मा ॥ ५० ॥
sañjaya uvāca —

ityarjunaṃ vāsudevastathoktvā  
svakaṃ rūpaṃ darśayāmāsa bhūyaḥ |  
āśvāsayāmāsa ca bhītamenaṃ  
bhūtvā punaḥsaumyavapurmahātmā || 50 ||

इति एवम् अर्जुनं वासुदेवः तथाभूतं वचनम् उक्त्वा, स्वकं वसुदेवस्य गृहे जातं रूपं दर्शयामास दर्शितवान् भूयः पुनः । आश्वासयामास च आश्वासितवान् भीतम् एनम् , भूत्वा पुनः सौम्यवपुः प्रसन्नदेहः महात्मा ॥ ५० ॥

५१51

अर्जुन उवाच —

दृष्ट्वेदं मानुषं रूपं  
तव सौम्यं जनार्दन ।  
इदानीमस्मि संवृत्तः  
सचेताः प्रकृतिं गतः ॥ ५१ ॥
arjuna uvāca —

dṛṣṭvedaṃ mānuṣaṃ rūpaṃ  
tava saumyaṃ janārdana |  
idānīmasmi saṃvṛttaḥ  
sacetāḥ prakṛtiṃ gataḥ || 51 ||

दृष्ट्वा इदं मानुषं रूपं मत्सखं प्रसन्नं तव सौम्यं जनार्दन, इदानीम् अधुना अस्मि संवृत्तः सञ्जातः । किम् ? सचेताः प्रसन्नचित्तः प्रकृतिं स्वभावं गतश्च अस्मि ॥ ५१ ॥

५२52

श्रीभगवानुवाच —

सुदुर्दर्शमिदं रूपं  
दृष्टवानसि यन्मम ।  
देवा अप्यस्य रूपस्य  
नित्यं दर्शनकाङ्क्षिणः ॥ ५२ ॥
śrībhagavānuvāca —

sudurdarśamidaṃ rūpaṃ  
dṛṣṭavānasi yanmama |  
devā apyasya rūpasya  
nityaṃ darśanakāṅkṣiṇaḥ || 52 ||

सुदुर्दर्शं सुष्ठु दुःखेन दर्शनम् अस्य इति सुदुर्दर्शम् , इदं रूपं दृष्टवान् असि यत् मम, देवादयः अपि अस्य मम रूपस्य नित्यं सर्वदा दर्शनकाङ्क्षिणः ; दर्शनेप्सवोऽपि न त्वमिव दृष्टवन्तः, न द्रक्ष्यन्ति च इति अभिप्रायः ॥ ५२ ॥

५३53

नाहं वेदैर्न तपसा  
न दानेन न चेज्यया ।  
शक्य एवंविधो द्रष्टुं  
दृष्टवानसि मां यथा ॥ ५३ ॥
nāhaṃ vedairna tapasā  
na dānena na cejyayā |  
śakya evaṃvidho draṣṭuṃ  
dṛṣṭavānasi māṃ yathā || 53 ||

न अहं वेदैः ऋग्यजुःसामाथर्ववेदैः चतुर्भिरपि, न तपसा उग्रेण चान्द्रायणादिना, न दानेन गोभूहिरण्यादिना, न च इज्यया यज्ञेन पूजया वा शक्यः एवंविधः यथादर्शितप्रकारः द्रष्टुं दृष्टावान् असि मां यथा त्वम् ॥ ५३ ॥

५४54

भक्त्या त्वनन्यया शक्य  
अहमेवंविधोऽर्जुन ।  
ज्ञातुं द्रष्टुं च तत्त्वेन  
प्रवेष्टुं च परन्तप ॥ ५४ ॥
bhaktyā tvananyayā śakya  
ahamevaṃvidho'rjuna |  
jñātuṃ draṣṭuṃ ca tattvena  
praveṣṭuṃ ca parantapa || 54 ||

भक्त्या तु किंविशिष्टया इति आह — अनन्यया अपृथग्भूतया, भगवतः अन्यत्र पृथक् न कदाचिदपि या भवति सा त्वनन्या भक्तिः । सर्वैरपि करणैः वासुदेवादन्यत् न उपलभ्यते यया, सा अनन्या भक्तिः, तया भक्त्या शक्यः अहम् एवंविधः विश्वरूपप्रकारः हे अर्जुन, ज्ञातुं शास्त्रतः । न केवलं ज्ञातुं शास्त्रतः, द्रष्टुं च साक्षात्कर्तुं तत्त्वेन तत्त्वतः, प्रवेष्टुं च मोक्षं च गन्तुं परन्तप ॥ ५४ ॥

५५55

मत्कर्मकृन्मत्परमो  
मद्भक्तः सङ्गवर्जितः ।  
निर्वैरः सर्वभूतेषु  
यः स मामेति पाण्डव ॥ ५५ ॥
matkarmakṛnmatparamo  
madbhaktaḥ saṅgavarjitaḥ |  
nirvairaḥ sarvabhūteṣu  
yaḥ sa māmeti pāṇḍava || 55 ||

मत्कर्मकृत् मदर्थं कर्म मत्कर्म, तत् करोतीति मत्कर्मकृत् । मत्परमः — करोति भृत्यः स्वामिकर्म, न तु आत्मनः परमा प्रेत्य गन्तव्या गतिरिति स्वामिनं प्रतिपद्यते ; अयं तु मत्कर्मकृत् मामेव परमां गतिं प्रतिपद्यते इति मत्परमः, अहं परमः परा गतिः यस्य सोऽयं मत्परमः । तथा मद्भक्तः मामेव सर्वप्रकारैः सर्वात्मना सर्वोत्साहेन भजते इति मद्भक्तः । सङ्गवर्जितः धनपुत्रमित्रकलत्रबन्धुवर्गेषु सङ्गवर्जितः सङ्गः प्रीतिः स्नेहः तद्वर्जितः । निर्वैरः निर्गतवैरः सर्वभूतेषु शत्रुभावरहितः आत्मनः अत्यन्तापकारप्रवृत्तेष्वपि । यः ईदृशः मद्भक्तः सः माम् एति, अहमेव तस्य परा गतिः, न अन्या गतिः काचित् भवति । अयं तव उपदेशः इष्टः मया उपदिष्टः हे पाण्डव इति ॥ ५५ ॥


इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छङ्करभगवतः कृतौ श्रीमद्भगवद्गीताभाष्ये एकादशोऽध्यायः ॥
iti śrīmatparamahaṃsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya
śrīmacchaṅkarabhagavataḥ kṛtau śrīmadbhagavadgītābhāṣye ekādaśo'dhyāyaḥ ||