पञ्चमोऽध्यायः
‘कर्मण्यकर्म यः पश्येत्’ (भ. गी. ४ । १८) इत्यारभ्य ‘स युक्तः कृत्स्नकर्मकृत्’ (भ. गी. ४ । १८) ‘ज्ञानाग्निदग्धकर्माणम्’ (भ. गी. ४ । १९) ‘शारीरं केवलं कर्म कुर्वन्’ (भ. गी. ४ । २१) ‘यदृच्छालाभसन्तुष्टः’ (भ. गी. ४ । २२) ‘ब्रह्मार्पणं ब्रह्म हविः’ (भ. गी. ४ । २४) ‘कर्मजान् विद्धि तान् सर्वान्’ (भ. गी. ४ । ३२) ‘सर्वं कर्माखिलं पार्थ’ (भ. गी. ४ । ३३) ‘ज्ञानाग्निः सर्वकर्माणि’ (भ. गी. ४ । ३७) ‘योगसन्न्यस्तकर्माणम्’ (भ. गी. ४ । ४१) इत्येतैः वचनैः सर्वकर्मसन्न्यासम् अवोचत् भगवान् । ‘छित्त्वैनं संशयं योगमातिष्ठ’ (भ. गी. ४ । ४२) इत्यनेन वचनेन योगं च कर्मानुष्ठानलक्षणम् अनुतिष्ठ इत्युक्तवान् । तयोरुभयोश्च कर्मानुष्ठानकर्मसन्न्यासयोः स्थितिगतिवत् परस्परविरोधात् एकेन सह कर्तुमशक्यत्वात् , कालभेदेन च अनुष्ठानविधानाभावात् , अर्थात् एतयोः अन्यतरकर्तव्यताप्राप्तौ सत्यां यत् प्रशस्यतरम् एतयोः कर्मानुष्ठानकर्मसन्न्यासयोः तत् कर्तव्यं न इतरत् इत्येवं मन्यमानः प्रशस्यतरबुभुत्सया अर्जुन उवाच — ‘सन्न्यासं कर्मणां कृष्ण’ (भ. गी. ५ । १) इत्यादिना ॥
ननु च आत्मविदः ज्ञानयोगेन निष्ठां प्रतिपिपादयिषन् पूर्वोदाहृतैः वचनैः भगवान् सर्वकर्मसन्न्यासम् अवोचत् , न तु अनात्मज्ञस्य । अतश्च कर्मानुष्ठानकर्मसन्न्यासयोः भिन्नपुरुषविषयत्वात् अन्यतरस्य प्रशस्यतरत्वबुभुत्सया अयं प्रश्नः अनुपपन्नः । सत्यमेव त्वदभिप्रायेण प्रश्नो न उपपद्यते ; प्रष्टुः स्वाभिप्रायेण पुनः प्रश्नः युज्यत एवेति वदामः । कथम् ? पूर्वोदाहृतैः वचनैः भगवता कर्मसन्न्यासस्य कर्तव्यतया विवक्षितत्वात् , प्राधान्यमन्तरेण च कर्तारं तस्य कर्तव्यत्वासम्भवात् अनात्मविदपि कर्ता पक्षे प्राप्तः अनूद्यत एव ; न पुनः आत्मवित्कर्तृकत्वमेव सन्न्यासस्य विवक्षितम् , इत्येवं मन्वानस्य अर्जुनस्य कर्मानुष्ठानकर्मसन्न्यासयोः अविद्वत्पुरुषकर्तृकत्वमपि अस्तीति पूर्वोक्तेन प्रकारेण तयोः परस्परविरोधात् अन्यतरस्य कर्तव्यत्वे प्राप्ते प्रशस्यतरं च कर्तव्यम् न इतरत् इति प्रशस्यतरविविदिषया प्रश्नः न अनुपपन्नः ॥
प्रतिवचनवाक्यार्थनिरूपणेनापि प्रष्टुः अभिप्रायः एवमेवेति गम्यते । कथम् ? ‘सन्न्यासकर्मयोगौ निःश्रेयसकरौ तयोस्तु कर्मयोगो विशिष्यते’ (भ. गी. ५ । २) इति प्रतिवचनम् । एतत् निरूप्यम् — किं अनेन आत्मवित्कर्तृकयोः सन्न्यासकर्मयोगयोः निःश्रेयसकरत्वं प्रयोजनम् उक्त्वा तयोरेव कुतश्चित् विशेषात् कर्मसन्न्यासात् कर्मयोगस्य विशिष्टत्वम् उच्यते ? आहोस्वित् अनात्मवित्कर्तृकयोः सन्न्यासकर्मयोगयोः तदुभयम् उच्यते ? इति । किञ्चातः — यदि आत्मवित्कर्तृकयोः कर्मसन्न्यासकर्मयोगयोः निःश्रेयसकरत्वम् , तयोस्तु कर्मसन्न्यासात् कर्मयोगस्य विशिष्टत्वम् उच्यते ; यदि वा अनात्मवित्कर्तृकयोः सन्न्यासकर्मयोगयोः तदुभयम् उच्यते इति । अत्र उच्यते — आत्मवित्कर्तृकयोः सन्न्यासकर्मयोगयोः असम्भवात् तयोः निःश्रेयसकरत्ववचनं तदीयाच्च कर्मसन्न्यासात् कर्मयोगस्य विशिष्टत्वाभिधानम् इत्येतत् उभयम् अनुपपन्नम् । यदि अनात्मविदः कर्मसन्न्यासः तत्प्रतिकूलश्च कर्मानुष्ठानलक्षणः कर्मयोगः सम्भवेताम् , तदा तयोः निःश्रेयसकरत्वोक्तिः कर्मयोगस्य च कर्मसन्न्यासात् विशिष्टत्वाभिधानम् इत्येतत् उभयम् उपपद्येत । आत्मविदस्तु सन्न्यासकर्मयोगयोः असम्भवात् तयोः निःश्रेयसकरत्वाभिधानं कर्मसन्न्यासाच्च कर्मयोगः विशिष्यते इति च अनुपपन्नम् ॥
अत्र आह — किम् आत्मविदः सन्न्यासकर्मयोगयोः उभयोरपि असम्भवः ? आहोस्वित् अन्यतरस्य असम्भवः ? यदा च अन्यतरस्य असम्भवः, तदा किं कर्मसन्न्यासस्य, उत कर्मयोगस्य ? इति ; असम्भवे कारणं च वक्तव्यम् इति । अत्र उच्यते — आत्मविदः निवृत्तमिथ्याज्ञानत्वात् विपर्ययज्ञानमूलस्य कर्मयोगस्य असम्भवः स्यात् । जन्मादिसर्वविक्रियारहितत्वेन निष्क्रियम् आत्मानम् आत्मत्वेन यो वेत्ति तस्य आत्मविदः सम्यग्दर्शनेन अपास्तमिथ्याज्ञानस्य निष्क्रियात्मस्वरूपावस्थानलक्षणं सर्वकर्मसन्न्यासम् उक्त्वा तद्विपरीतस्य मिथ्याज्ञानमूलकर्तृत्वाभिमानपुरःसरस्य सक्रियात्मस्वरूपावस्थानरूपस्य कर्मयोगस्य इह गीताशास्त्रे तत्र तत्र आत्मस्वरूपनिरूपणप्रदेशेषु सम्यग्ज्ञानमिथ्याज्ञानतत्कार्यविरोधात् अभावः प्रतिपाद्यते यस्मात् , तस्मात् आत्मविदः निवृत्तमिथ्याज्ञानस्य विपर्ययज्ञानमूलः कर्मयोगो न सम्भवतीति युक्तम् उक्तं स्यात् ॥
केषु केषु पुनः आत्मस्वरूपनिरूपणप्रदेशेषु आत्मविदः कर्माभावः प्रतिपाद्यते इति अत्र उच्यते — ‘अविनाशि तु तत्’ (भ. गी. २ । १७) इति प्रकृत्य ‘य एनं वेत्ति हन्तारम्’ (भ. गी. २ । १९) ‘वेदाविनाशिनं नित्यम्’ (भ. गी. २ । २१) इत्यादौ तत्र तत्र आत्मविदः कर्माभावः उच्यते ॥
ननु च कर्मयोगोऽपि आत्मस्वरूपनिरूपणप्रदेशेषु तत्र तत्र प्रतिपाद्यते एव ; तद्यथा — ‘तस्माद्युध्यस्व भारत’ (भ. गी. २ । १८) ‘स्वधर्ममपि चावेक्ष्य’ (भ. गी. २ । ३१) ‘कर्मण्येवाधिकारस्ते’ (भ. गी. २ । ४७) इत्यादौ । अतश्च कथम् आत्मविदः कर्मयोगस्य असम्भवः स्यादिति ? अत्र उच्यते — सम्यग्ज्ञानमिथ्याज्ञानतत्कार्यविरोधात् , ‘ज्ञानयोगेन साङ्ख्यानाम्’ (भ. गी. ३ । ३) इत्यनेन साङ्ख्यानाम् आत्मतत्त्वविदाम् अनात्मवित्कर्तृककर्मयोगनिष्ठातः निष्क्रियात्मस्वरूपावस्थानलक्षणायाः ज्ञानयोगनिष्ठायाः पृथक्करणात् , कृतकृत्यत्वेन आत्मविदः प्रयोजनान्तराभावात् , ‘तस्य कार्यं न विद्यते’ (भ. गी. ३ । १७) इति कर्तव्यान्तराभाववचनाच्च, ‘न कर्मणामनारम्भात्’ (भ. गी. ३ । ४) ‘सन्न्यासस्तु महाबाहो दुःखमाप्तुमयोगतः’ (भ. गी. ५ । ६) इत्यादिना च आत्मज्ञानाङ्गत्वेन कर्मयोगस्य विधानात् , ‘योगारूढस्य तस्यैव शमः कारणमुच्यते’ (भ. गी. ६ । ३) इत्यनेन च उत्पन्नसम्यग्दर्शनस्य कर्मयोगाभाववचनात् , ‘शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम्’ (भ. गी. ४ । २१) इति च शरीरस्थितिकारणातिरिक्तस्य कर्मणो निवारणात् , ‘नैव किञ्चित्करोमीति युक्तो मन्येत तत्त्ववित्’ (भ. गी. ५ । ८) इत्यनेन च शरीरस्थितिमात्रप्रयुक्तेष्वपि दर्शनश्रवणादिकर्मसु आत्मयाथात्म्यविदः ‘करोमि’ इति प्रत्ययस्य समाहितचेतस्तया सदा अकर्तव्यत्वोपदेशात् आत्मतत्त्वविदः सम्यग्दर्शनविरुद्धो मिथ्याज्ञानहेतुकः कर्मयोगः स्वप्नेऽपि न सम्भावयितुं शक्यते यस्मात् , तस्मात् अनात्मवित्कर्तृकयोरेव सन्न्यासकर्मयोगयोः निःश्रेयसकरत्ववचनम् , तदीयाच्च कर्मसन्न्यासात् पूर्वोक्तात्मवित्कर्तृकसर्वकर्मसन्न्यासविलक्षणात् सत्येव कर्तृत्वविज्ञाने कर्मैकदेशविषयात् यमनियमादिसहितत्वेन च दुरनुष्ठेयात् सुकरत्वेन च कर्मयोगस्य विशिष्टत्वाभिधानम् इत्येवं प्रतिवचनवाक्यार्थनिरूपणेनापि पूर्वोक्तः प्रष्टुरभिप्रायः निश्चीयते इति स्थितम् ॥
‘ज्यायसी चेत्कर्मणस्ते’ (भ. गी. ३ । १) इत्यत्र ज्ञानकर्मणोः सह असम्भवे ‘यच्छ्रेय एतयोः तद्ब्रूहि’ (भ. गी. ३ । २) इत्येवं पृष्टोऽर्जुनेन भगवान् साङ्ख्यानां सन्न्यासिनां ज्ञानयोगेन निष्ठा पुनः कर्मयोगेन योगिनां निष्ठा प्रोक्तेति निर्णयं चकार । ‘न च सन्न्यसनादेव केवलात् सिद्धिं समधिगच्छति’ (भ. गी. ३ । ४) इति वचनात् ज्ञानसहितस्य सिद्धिसाधनत्वम् इष्टम्’ कर्मयोगस्य च, विधानात् । ज्ञानरहितस्य सन्न्यासः श्रेयान् , किं वा कर्मयोगः श्रेयान् ? ’ इति एतयोः विशेषबुभुत्सया —
१1
अर्जुन उवाच —
सन्न्यासं कर्मणां कृष्ण पुनर्योगं च शंससि ।
यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् ॥ १ ॥
arjuna uvāca —
sannyāsaṃ karmaṇāṃ kṛṣṇa punaryogaṃ ca śaṃsasi |
yacchreya etayorekaṃ tanme brūhi suniścitam || 1 ||
सन्न्यासं परित्यागं कर्मणां शास्त्रीयाणाम् अनुष्ठेयविशेषाणां शंससि प्रशंससि कथयसि इत्येतत् । पुनः योगं च तेषामेव अनुष्ठानम् अवश्यकर्तव्यं शंससि । अतः मे कतरत् श्रेयः इति संशयः — किं कर्मानुष्ठानं श्रेयः, किं वा तद्धानम् इति । प्रशस्यतरं च अनुष्ठेयम् । अतश्च यत् श्रेयः प्रशस्यतरम् एतयोः कर्मसन्न्यासकर्मयोगयोः यदनुष्ठानात् श्रेयोवाप्तिः मम स्यादिति मन्यसे, तत् एकम् अन्यतरम् सह एकपुरुषानुष्ठेयत्वासम्भवात् मे ब्रूहि सुनिश्चितम् अभिप्रेतं तवेति ॥ १ ॥
२2
श्रीभगवानुवाच —
सन्न्यासः कर्मयोगश्च निःश्रेयसकरावुभौ ।
तयोस्तु कर्मसन्न्यासात्कर्मयोगो विशिष्यते ॥ २ ॥
śrībhagavānuvāca —
sannyāsaḥ karmayogaśca niḥśreyasakarāvubhau |
tayostu karmasannyāsātkarmayogo viśiṣyate || 2 ||
सन्न्यासः कर्मणां परित्यागः कर्मयोगश्च तेषामनुष्ठानं तौ उभौ अपि निःश्रेयसकरौ मोक्षं कुर्वाते ज्ञानोत्पत्तिहेतुत्वेन । उभौ यद्यपि निःश्रेयसकरौ, तथापि तयोस्तु निःश्रेयसहेत्वोः कर्मसन्न्यासात् केवलात् कर्मयोगो विशिष्यते इति कर्मयोगं स्तौति ॥ २ ॥
३3
ज्ञेयः स नित्यसन्न्यासी यो न द्वेष्टि न काङ्क्षति ।
निर्द्वन्द्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते ॥ ३ ॥
jñeyaḥ sa nityasannyāsī yo na dveṣṭi na kāṅkṣati |
nirdvandvo hi mahābāho sukhaṃ bandhātpramucyate || 3 ||
ज्ञेयः ज्ञातव्यः स कर्मयोगी नित्यसन्न्यासी इति यो न द्वेष्टि किञ्चित् न काङ्क्षति दुःखसुखे तत्साधने च । एवंविधो यः, कर्मणि वर्तमानोऽपि स नित्यसन्न्यासी इति ज्ञातव्यः इत्यर्थः । निर्द्वन्द्वः द्वन्द्ववर्जितः हि यस्मात् महाबाहो सुखं बन्धात् अनायासेन प्रमुच्यते ॥ ३ ॥
४4
साङ्ख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः ।
एकमप्यास्थितः सम्यगुभयोर्विन्दते फलम् ॥ ४ ॥
sāṅkhyayogau pṛthagbālāḥ pravadanti na paṇḍitāḥ |
ekamapyāsthitaḥ samyagubhayorvindate phalam || 4 ||
साङ्ख्ययोगौ पृथक् विरुद्धभिन्नफलौ बालाः प्रवदन्ति न पण्डिताः । पण्डितास्तु ज्ञानिन एकं फलम् अविरुद्धम् इच्छन्ति । कथम् ? एकमपि साङ्ख्ययोगयोः सम्यक् आस्थितः सम्यगनुष्ठितवान् इत्यर्थः, उभयोः विन्दते फलम् । उभयोः तदेव हि निःश्रेयसं फलम् ; अतः न फले विरोधः अस्ति ॥
ननु सन्न्यासकर्मयोगशब्देन प्रस्तुत्य साङ्ख्ययोगयोः फलैकत्वं कथम् इह अप्रकृतं ब्रवीति ? नैष दोषः — यद्यपि अर्जुनेन सन्न्यासं कर्मयोगं च केवलम् अभिप्रेत्य प्रश्नः कृतः, भगवांस्तु तदपरित्यागेनैव स्वाभिप्रेतं च विशेषं संयोज्य शब्दान्तरवाच्यतया प्रतिवचनं ददौ ‘साङ्ख्ययोगौ’ इति । तौ एव सन्न्यासकर्मयोगौ ज्ञानतदुपायसमबुद्धित्वादिसंयुक्तौ साङ्ख्ययोगशब्दवाच्यौ इति भगवतो मतम् । अतः न अप्रकृतप्रक्रियेति ॥ ४ ॥
५5
यत्साङ्ख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते ।
एकं साङ्ख्यं च योगं च यः पश्यति स पश्यति ॥ ५ ॥
yatsāṅkhyaiḥ prāpyate sthānaṃ tadyogairapi gamyate |
ekaṃ sāṅkhyaṃ ca yogaṃ ca yaḥ paśyati sa paśyati || 5 ||
यत् साङ्ख्यैः ज्ञाननिष्ठैः सन्न्यासिभिः प्राप्यते स्थानं मोक्षाख्यम् , तत् योगैरपि ज्ञानप्राप्त्युपायत्वेन ईश्वरे समर्प्य कर्माणि आत्मनः फलम् अनभिसन्धाय अनुतिष्ठन्ति ये ते योगाः योगिनः तैरपि परमार्थज्ञानसन्न्यासप्राप्तिद्वारेण गम्यते इत्यभिप्रायः । अतः एकं साङ्ख्यं च योगं च यः पश्यति फलैकत्वात् स पश्यति सम्यक् पश्यतीत्यर्थः — ॥ ५ ॥
६6
सन्न्यासस्तु महाबाहो दुःखमाप्तुमयोगतः ।
योगयुक्तो मुनिर्ब्रह्म नचिरेणाधिगच्छति ॥ ६ ॥
sannyāsastu mahābāho duḥkhamāptumayogataḥ |
yogayukto munirbrahma nacireṇādhigacchati || 6 ||
सन्न्यासस्तु पारमार्थिकः हे महाबाहो दुःखम् आप्तुं प्राप्तुम् अयोगतः योगेन विना । योगयुक्तः वैदिकेन कर्मयोगेन ईश्वरसमर्पितरूपेण फलनिरपेक्षेण युक्तः, मुनिः मननात् ईश्वरस्वरूपस्य मुनिः, ब्रह्म — परमात्मज्ञाननिष्ठालक्षणत्वात् प्रकृतः सन्न्यासः ब्रह्म उच्यते, ‘न्यास इति ब्रह्मा ब्रह्मा हि परः’ (तै. ना. ७८) इति श्रुतेः — ब्रह्म परमार्थसन्न्यासं परमार्थज्ञाननिष्ठालक्षणं नचिरेण क्षिप्रमेव अधिगच्छति प्राप्नोति । अतः मया उक्तम् ‘कर्मयोगो विशिष्यते’ (भ. गी. ५ । २) इति ॥ ६ ॥
७7
योगयुक्तो विशुद्धात्मा
विजितात्मा जितेन्द्रियः ।
सर्वभूतात्मभूतात्मा
कुर्वन्नपि न लिप्यते ॥ ७ ॥
yogayukto viśuddhātmā
vijitātmā jitendriyaḥ |
sarvabhūtātmabhūtātmā
kurvannapi na lipyate || 7 ||
योगेन युक्तः योगयुक्तः, विशुद्धात्मा विशुद्धसत्त्वः, विजितात्मा विजितदेहः, जितेन्द्रियश्च, सर्वभूतात्मभूतात्मा सर्वेषां ब्रह्मादीनां स्तम्बपर्यन्तानां भूतानाम् आत्मभूतः आत्मा प्रत्यक्चेतनो यस्य सः सर्वभूतात्मभूतात्मा सम्यग्दर्शीत्यर्थः, स तत्रैवं वर्तमानः लोकसङ्ग्रहाय कर्म कुर्वन्नपि न लिप्यते न कर्मभिः बध्यते इत्यर्थः ॥ ७ ॥
८8
नैव किञ्चित्करोमीति युक्तो मन्येत तत्त्ववित् ।
पश्यञ्शृण्वन्स्पृशञ्जिघ्रन्नश्नन्गच्छन्स्वपञ्श्वसन् ॥ ८ ॥
naiva kiñcitkaromīti yukto manyeta tattvavit |
paśyañśṛṇvanspṛśañjighrannaśnangacchansvapañśvasan || 8 ||
९9
प्रलपन् विसृजन्गृह्णन्नुन्मिषन्निमिषन्नपि ।
इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् ॥ ९ ॥
pralapan visṛjangṛhṇannunmiṣannimiṣannapi |
indriyāṇīndriyārtheṣu vartanta iti dhārayan || 9 ||
नैव किञ्चित् करोमीति युक्तः समाहितः सन् मन्येत चिन्तयेत् , तत्त्ववित् आत्मनो याथात्म्यं तत्त्वं वेत्तीति तत्त्ववित् परमार्थदर्शीत्यर्थः ॥
कदा कथं वा तत्त्वमवधारयन् मन्येत इति, उच्यते — पश्यन्निति । मन्येत इति पूर्वेण सम्बन्धः । यस्य एवं तत्त्वविदः सर्वकार्यकरणचेष्टासु कर्मसु अकर्मैव, पश्यतः सम्यग्दर्शिनः तस्य सर्वकर्मसन्न्यासे एव अधिकारः, कर्मणः अभावदर्शनात् । न हि मृगतृष्णिकायाम् उदकबुद्ध्या पानाय प्रवृत्तः उदकाभावज्ञानेऽपि तत्रैव पानप्रयोजनाय प्रवर्तते ॥ ९ ॥
१०10
ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः ।
लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ॥ १० ॥
brahmaṇyādhāya karmāṇi saṅgaṃ tyaktvā karoti yaḥ |
lipyate na sa pāpena padmapatramivāmbhasā || 10 ||
ब्रह्मणि ईश्वरे आधाय निक्षिप्य ‘तदर्थं कर्म करोमि’ इति भृत्य इव स्वाम्यर्थं सर्वाणि कर्माणि मोक्षेऽपि फले सङ्गं त्यक्त्वा करोति यः सर्वकर्माणि, लिप्यते न स पापेन न सम्बध्यते पद्मपत्रमिव अम्भसा उदकेन । केवलं सत्त्वशुद्धिमात्रमेव फलं तस्य कर्मणः स्यात् ॥ १० ॥
११11
कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि ।
योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये ॥ ११ ॥
kāyena manasā buddhyā kevalairindriyairapi |
yoginaḥ karma kurvanti saṅgaṃ tyaktvātmaśuddhaye || 11 ||
कायेन देहेन मनसा बुद्ध्या च केवलैः ममत्ववर्जितैः ‘ईश्वरायैव कर्म करोमि, न मम फलाय’ इति ममत्वबुद्धिशून्यैः इन्द्रियैरपि — केवलशब्दः कायादिभिरपि प्रत्येकं सम्बध्यते — सर्वव्यापारेषु ममतावर्जनाय । योगिनः कर्मिणः कर्म कुर्वन्ति सङ्गं त्यक्त्वा फलविषयम् आत्मशुद्धये सत्त्वशुद्धये इत्यर्थः । तस्मात् तत्रैव तव अधिकारः इति कुरु कर्मैव ॥ ११ ॥
१२12
युक्तः कर्मफलं त्यक्त्वा
शान्तिमाप्नोति नैष्ठिकीम् ।
अयुक्तः कामकारेण
फले सक्तो निबध्यते ॥ १२ ॥
yuktaḥ karmaphalaṃ tyaktvā
śāntimāpnoti naiṣṭhikīm |
ayuktaḥ kāmakāreṇa
phale sakto nibadhyate || 12 ||
युक्तः ‘ईश्वराय कर्माणि करोमि न मम फलाय’ इत्येवं समाहितः सन् कर्मफलं त्यक्त्वा परित्यज्य शान्तिं मोक्षाख्याम् आप्नोति नैष्ठिकीं निष्ठायां भवां सत्त्वशुद्धिज्ञानप्राप्तिसर्वकर्मसन्न्यासज्ञाननिष्ठाक्रमेणेति वाक्यशेषः । यस्तु पुनः अयुक्तः असमाहितः कामकारेण करणं कारः कामस्य कारः कामकारः तेन कामकारेण, कामप्रेरिततयेत्यर्थः, ‘मम फलाय इदं करोमि कर्म’ इत्येवं फले सक्तः निबध्यते । अतः त्वं युक्तो भव इत्यर्थः ॥ १२ ॥
१३13
सर्वकर्माणि मनसा सन्न्यस्यास्ते सुखं वशी ।
नवद्वारे पुरे देही नैव कुर्वन्न कारयन् ॥ १३ ॥
sarvakarmāṇi manasā sannyasyāste sukhaṃ vaśī |
navadvāre pure dehī naiva kurvanna kārayan || 13 ||
सर्वाणि कर्माणि सर्वकर्माणि सन्न्यस्य परित्यज्य नित्यं नैमित्तिकं काम्यं प्रतिषिद्धं च तानि सर्वाणि कर्माणि मनसा विवेकबुद्ध्या, कर्मादौ अकर्मसन्दर्शनेन सन्त्यज्येत्यर्थः, आस्ते तिष्ठति सुखम् । त्यक्तवाङ्मनःकायचेष्टः निरायासः प्रसन्नचित्तः आत्मनः अन्यत्र निवृत्तसर्वबाह्यप्रयोजनः इति ‘सुखम् आस्ते’ इत्युच्यते । वशी जितेन्द्रिय इत्यर्थः । क्व कथम् आस्ते इति, आह — नवद्वारे पुरे । सप्त शीर्षण्यानि आत्मन उपलब्धिद्वाराणि, अवाक् द्वे मूत्रपुरीषविसर्गार्थे, तैः द्वारैः नवद्वारं पुरम् उच्यते शरीरम् , पुरमिव पुरम् , आत्मैकस्वामिकम् , तदर्थप्रयोजनैश्च इन्द्रियमनोबुद्धिविषयैः अनेकफलविज्ञानस्य उत्पादकैः पौरैरिव अधिष्ठितम् । तस्मिन् नवद्वारे पुरे देही सर्वं कर्म सन्न्यस्य आस्ते ; किं विशेषणेन ? सर्वो हि देही सन्न्यासी असन्न्यासी वा देहे एव आस्ते ; तत्र अनर्थकं विशेषणमिति । उच्यते — यस्तु अज्ञः देही देहेन्द्रियसङ्घातमात्रात्मदर्शी स सर्वोऽपि ‘गेहे भूमौ आसने वा आसे’ इति मन्यते । न हि देहमात्रात्मदर्शिनः गेहे इव देहे आसे इति प्रत्ययः सम्भवति । देहादिसङ्घातव्यतिरिक्तात्मदर्शिनस्तु ‘देहे आसे’ इति प्रत्ययः उपपद्यते । परकर्मणां च परस्मिन् आत्मनि अविद्यया अध्यारोपितानां विद्यया विवेकज्ञानेन मनसा सन्न्यास उपपद्यते । उत्पन्नविवेकज्ञानस्य सर्वकर्मसन्न्यासिनोऽपि गेहे इव देहे एव नवद्वारे पुरे आसनम् प्रारब्धफलकर्मसंस्कारशेषानुवृत्त्या देह एव विशेषविज्ञानोत्पत्तेः । देहे एव आस्ते इति अस्त्येव विशेषणफलम् , विद्वदविद्वत्प्रत्ययभेदापेक्षत्वात् ॥
यद्यपि कार्यकरणकर्माणि अविद्यया आत्मनि अध्यारोपितानि ‘सन्न्यस्यास्ते’ इत्युक्तम् , तथापि आत्मसमवायि तु कर्तृत्वं कारयितृत्वं च स्यात् इति आशङ्क्य आह — नैव कुर्वन् स्वयम् , न च कार्यकरणानि कारयन् क्रियासु प्रवर्तयन् । किं यत् तत् कर्तृत्वं कारयितृत्वं च देहिनः स्वात्मसमवायि सत् सन्न्यासात् न सम्भवति, यथा गच्छतो गतिः गमनव्यापारपरित्यागे न स्यात् तद्वत् ? किं वा स्वत एव आत्मनः न अस्ति इति ? अत्र उच्यते — न अस्ति आत्मनः स्वतः कर्तृत्वं कारयितृत्वं च । उक्तं हि ‘अविकार्योऽयमुच्यते’ (भ. गी. २ । २५) ‘शरीरस्थोऽपि न करोति न लिप्यते’ (भ. गी. १३ । ३१) इति । ‘ध्यायतीव लेलायतीव’ (बृ. उ. ४ । ३ । ७) इति श्रुतेः ॥ १३ ॥
१४14
न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः ।
न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते ॥ १४ ॥
na kartṛtvaṃ na karmāṇi lokasya sṛjati prabhuḥ |
na karmaphalasaṃyogaṃ svabhāvastu pravartate || 14 ||
न कर्तृत्वं स्वतः कुरु इति नापि कर्माणि रथघटप्रासादादीनि ईप्सिततमानि लोकस्य सृजति उत्पादयति प्रभुः आत्मा । नापि रथादि कृतवतः तत्फलेन संयोगं न कर्मफलसंयोगम् । यदि किञ्चिदपि स्वतः न करोति न कारयति च देही, कः तर्हि कुर्वन् कारयंश्च प्रवर्तते इति, उच्यते — स्वभावस्तु स्वो भावः स्वभावः अविद्यालक्षणा प्रकृतिः माया प्रवर्तते ‘दैवी हि’ (भ. गी. ७ । १४) इत्यादिना वक्ष्यमाणा ॥ १४ ॥
१५15
नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः ।
अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः ॥ १५ ॥
nādatte kasyacitpāpaṃ na caiva sukṛtaṃ vibhuḥ |
ajñānenāvṛtaṃ jñānaṃ tena muhyanti jantavaḥ || 15 ||
न आदत्ते न च गृह्णाति भक्तस्यापि कस्यचित् पापम् । न चैव आदत्ते सुकृतं भक्तैः प्रयुक्तं विभुः । किमर्थं तर्हि भक्तैः पूजादिलक्षणं यागदानहोमादिकं च सुकृतं प्रयुज्यते इत्याह — अज्ञानेन आवृतं ज्ञानं विवेकविज्ञानम् , तेन मुह्यन्ति ‘करोमि कारयामि भोक्ष्ये भोजयामि’ इत्येवं मोहं गच्छन्ति अविवेकिनः संसारिणो जन्तवः ॥ १५ ॥
१६16
ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः ।
तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम् ॥ १६ ॥
jñānena tu tadajñānaṃ yeṣāṃ nāśitamātmanaḥ |
teṣāmādityavajjñānaṃ prakāśayati tatparam || 16 ||
ज्ञानेन तु येन अज्ञानेन आवृताः मुह्यन्ति जन्तवः तत् अज्ञानं येषां जन्तूनां विवेकज्ञानेन आत्मविषयेण नाशितम् आत्मनः भवति, तेषां जन्तूनाम् आदित्यवत् यथा आदित्यः समस्तं रूपजातम् अवभासयति तद्वत् ज्ञानं ज्ञेयं वस्तु सर्वं प्रकाशयति तत् परं परमार्थतत्त्वम् ॥ १६ ॥
१७17
तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः ।
गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः ॥ १७ ॥
tadbuddhayastadātmānastanniṣṭhāstatparāyaṇāḥ |
gacchantyapunarāvṛttiṃ jñānanirdhūtakalmaṣāḥ || 17 ||
तस्मिन् ब्रह्मणि गता बुद्धिः येषां ते तद्बुद्धयः, तदात्मानः तदेव परं ब्रह्म आत्मा येषां ते तदात्मानः, तन्निष्ठाः निष्ठा अभिनिवेशः तात्पर्यं सर्वाणि कर्माणि सन्न्यस्य तस्मिन् ब्रह्मण्येव अवस्थानं येषां ते तन्निष्ठाः, तत्परायणाश्च तदेव परम् अयनं परा गतिः येषां भवति ते तत्परायणाः केवलात्मरतय इत्यर्थः । येषां ज्ञानेन नाशितम् आत्मनः अज्ञानं ते गच्छन्ति एवंविधाः अपुनरावृत्तिम् अपुनर्देहसम्बन्धं ज्ञाननिर्धूतकल्मषाः यथोक्तेन ज्ञानेन निर्धूतः नाशितः कल्मषः पापादिसंसारकारणदोषः येषां ते ज्ञाननिर्धूतकल्मषाः यतयः इत्यर्थः ॥ १७ ॥
१८18
विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि ।
शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥ १८ ॥
vidyāvinayasampanne brāhmaṇe gavi hastini |
śuni caiva śvapāke ca paṇḍitāḥ samadarśinaḥ || 18 ||
विद्याविनयसम्पन्ने विद्या च विनयश्च विद्याविनयौ, विनयः उपशमः, ताभ्यां विद्याविनयाभ्यां सम्पन्नः विद्याविनयसम्पन्नः विद्वान् विनीतश्च यो ब्राह्मणः तस्मिन् ब्राह्मणे गवि हस्तिनि शुनि चैव श्वपाके च पण्डिताः समदर्शिनः । विद्याविनयसम्पन्ने उत्तमसंस्कारवति ब्राह्मणे सात्त्विके, मध्यमायां च राजस्यां गवि, संस्कारहीनायां अत्यन्तमेव केवलतामसे हस्त्यादौ च, सत्त्वादिगुणैः तज्जैश्च संस्कारैः तथा राजसैः तथा तामसैश्च संस्कारैः अत्यन्तमेव अस्पृष्टं समम् एकम् अविक्रियं तत् ब्रह्म द्रष्टुं शीलं येषां ते पण्डिताः समदर्शिनः ॥ १८ ॥
१९19
इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः ।
निर्दोषं हि समं ब्रह्म तस्माद्ब्रह्मणि ते स्थिताः ॥ १९ ॥
ihaiva tairjitaḥ sargo yeṣāṃ sāmye sthitaṃ manaḥ |
nirdoṣaṃ hi samaṃ brahma tasmādbrahmaṇi te sthitāḥ || 19 ||
इह एव जीवद्भिरेव तैः समदर्शिभिः पण्डितैः जितः वशीकृतः सर्गः जन्म, येषां साम्ये सर्वभूतेषु ब्रह्मणि समभावे स्थितं निश्चलीभूतं मनः अन्तःकरणम् । निर्दोषं यद्यपि दोषवत्सु श्वपाकादिषु मूढैः तद्दोषैः दोषवत् इव विभाव्यते, तथापि तद्दोषैः अस्पृष्टम् इति निर्दोषं दोषवर्जितं हि यस्मात् ; नापि स्वगुणभेदभिन्नम् , निर्गुणत्वात् चैतन्यस्य । वक्ष्यति च भगवान् इच्छादीनां क्षेत्रधर्मत्वम् , ‘अनादित्वान्निर्गुणत्वात्’ (भ. गी. १३ । ३१) इति च । नापि अन्त्या विशेषाः आत्मनो भेदकाः सन्ति, प्रतिशरीरं तेषां सत्त्वे प्रमाणानुपपत्तेः । अतः समं ब्रह्म एकं च । तस्मात् ब्रह्मणि एव ते स्थिताः । तस्मात् न दोषगन्धमात्रमपि तान् स्पृशति, देहादिसङ्घातात्मदर्शनाभिमानाभावात् तेषाम् । देहादिसङ्घातात्मदर्शनाभिमानवद्विषयं तु तत् सूत्रम् ‘समासमाभ्यां विषमसमे पूजातः’ (गौ. ध. २ । ८ । २०) इति, पूजाविषयत्वेन विशेषणात् । दृश्यते हि ब्रह्मवित् षडङ्गवित् चतुर्वेदवित् इति पूजादानादौ गुणविशेषसम्बन्धः कारणम् । ब्रह्म तु सर्वगुणदोषसम्बन्धवर्जितमित्यतः ‘ब्रह्मणि ते स्थिताः’ इति युक्तम् । कर्मविषयं च ‘समासमाभ्याम्’ (गौ. ध. २ । ८ । २०) इत्यादि । इदं तु सर्वकर्मसन्न्यासविषयं प्रस्तुतम् , ‘सर्वकर्माणि मनसा’ (भ. गी. ५ । १३) इत्यारभ्य अध्यायपरिसमाप्तेः ॥ १९ ॥
२०20
न प्रहृष्येत्प्रियं प्राप्य नोद्विजेत्प्राप्य चाप्रियम् ।
स्थिरबुद्धिरसम्मूढो ब्रह्मविद्ब्रह्मणि स्थितः ॥ २० ॥
na prahṛṣyetpriyaṃ prāpya nodvijetprāpya cāpriyam |
sthirabuddhirasammūḍho brahmavidbrahmaṇi sthitaḥ || 20 ||
न प्रहृष्येत् प्रहर्षं न कुर्यात् प्रियम् इष्टं प्राप्य लब्ध्वा । न उद्विजेत् प्राप्य च अप्रियम् अनिष्टं लब्ध्वा । देहमात्रात्मदर्शिनां हि प्रियाप्रियप्राप्ती हर्षविषादौ कुर्वाते, न केवलात्मदर्शिनः, तस्य प्रियाप्रियप्राप्त्यसम्भवात् । किञ्च — ‘सर्वभूतेषु एकः समः निर्दोषः आत्मा’ इति स्थिरा निर्विचिकित्सा बुद्धिः यस्य सः स्थिरबुद्धिः असम्मूढः सम्मोहवर्जितश्च स्यात् यथोक्तब्रह्मवित् ब्रह्मणि स्थितः, अकर्मकृत् सर्वकर्मसन्न्यासी इत्यर्थः ॥ २० ॥
२१21
बाह्यस्पर्शेष्वसक्तात्मा
विन्दत्यात्मनि यत्सुखम् ।
स ब्रह्मयोगयुक्तात्मा
सुखमक्षयमश्नुते ॥ २१ ॥
bāhyasparśeṣvasaktātmā
vindatyātmani yatsukham |
sa brahmayogayuktātmā
sukhamakṣayamaśnute || 21 ||
बाह्यस्पर्शेषु बाह्याश्च ते स्पर्शाश्च बाह्यस्पर्शाः स्पृश्यन्ते इति स्पर्शाः शब्दादयो विषयाः तेषु बाह्यस्पर्शेषु, असक्तः आत्मा अन्तःकरणं यस्य सः अयम् असक्तात्मा विषयेषु प्रीतिवर्जितः सन् विन्दति लभते आत्मनि यत् सुखं तत् विन्दति इत्येतत् । स ब्रह्मयोगयुक्तात्मा ब्रह्मणि योगः समाधिः ब्रह्मयोगः तेन ब्रह्मयोगेन युक्तः समाहितः तस्मिन् व्यापृतः आत्मा अन्तःकरणं यस्य सः ब्रह्मयोगयुक्तात्मा, सुखम् अक्षयम् अश्नुते व्याप्नोति । तस्मात् बाह्यविषयप्रीतेः क्षणिकायाः इन्द्रियाणि निवर्तयेत् आत्मनि अक्षयसुखार्थी इत्यर्थः ॥ २१ ॥
२२22
ये हि संस्पर्शजा भोगा दुःखयोनय एव ते ।
आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः ॥ २२ ॥
ye hi saṃsparśajā bhogā duḥkhayonaya eva te |
ādyantavantaḥ kaunteya na teṣu ramate budhaḥ || 22 ||
ये हि यस्मात् संस्पर्शजाः विषयेन्द्रियसंस्पर्शेभ्यो जाताः भोगा भुक्तयः दुःखयोनय एव ते, अविद्याकृतत्वात् । दृश्यन्ते हि आध्यात्मिकादीनि दुःखानि तन्निमित्तान्येव । यथा इहलोके तथा परलोकेऽपि इति गम्यते एवशब्दात् । न संसारे सुखस्य गन्धमात्रमपि अस्ति इति बुद्ध्वा विषयमृगतृष्णिकाया इन्द्रियाणि निवर्तयेत् । न केवलं दुःखयोनय एव, आद्यन्तवन्तश्च, आदिः विषयेन्द्रियसंयोगो भोगानाम् अन्तश्च तद्वियोग एव ; अतः आद्यन्तवन्तः अनित्याः, मध्यक्षणभावित्वात् इत्यर्थः । कौन्तेय, न तेषु भोगेषु रमते बुधः विवेकी अवगतपरमार्थतत्त्वः ; अत्यन्तमूढानामेव हि विषयेषु रतिः दृश्यते, यथा पशुप्रभृतीनाम् ॥ २२ ॥
२३23
शक्नोतीहैव यः सोढुं प्राक्छरीरविमोक्षणात् ।
कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः ॥ २३ ॥
śaknotīhaiva yaḥ soḍhuṃ prākcharīravimokṣaṇāt |
kāmakrodhodbhavaṃ vegaṃ sa yuktaḥ sa sukhī naraḥ || 23 ||
शक्नोति उत्सहते इहैव जीवन्नेव यः सोढुं प्रसहितुं प्राक् पूर्वं शरीरविमोक्षणात् आ मरणात् इत्यर्थः । मरणसीमाकरणं जीवतोऽवश्यम्भावि हि कामक्रोधोद्भवो वेगः, अनन्तनिमित्तवान् हि सः इति यावत् मरणं तावत् न विस्रम्भणीय इत्यर्थः । कामः इन्द्रियगोचरप्राप्ते इष्टे विषये श्रूयमाणे स्मर्यमाणे वा अनुभूते सुखहेतौ या गर्धिः तृष्णा स कामः ; क्रोधश्च आत्मनः प्रतिकूलेषु दुःखहेतुषु दृश्यमानेषु श्रूयमाणेषु स्मर्यमाणेषु वा यो द्वेषः सः क्रोधः ; तौ कामक्रोधौ उद्भवो यस्य वेगस्य सः कामक्रोधोद्भवः वेगः । रोमाञ्चनप्रहृष्टनेत्रवदनादिलिङ्गः अन्तःकरणप्रक्षोभरूपः कामोद्भवो वेगः, गात्रप्रकम्पप्रस्वेदसन्दष्टोष्ठपुटरक्तनेत्रादिलिङ्गः क्रोधोद्भवो वेगः, तं कामक्रोधोद्भवं वेगं यः उत्सहते प्रसहते सोढुं प्रसहितुम् , सः युक्तः योगी सुखी च इह लोके नरः ॥ २३ ॥
२४24
योऽन्तःसुखोऽन्तरारामस्तथान्तर्ज्योतिरेव यः ।
स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति ॥ २४ ॥
yo'ntaḥsukho'ntarārāmastathāntarjyotireva yaḥ |
sa yogī brahmanirvāṇaṃ brahmabhūto'dhigacchati || 24 ||
यः अन्तःसुखः अन्तः आत्मनि सुखं यस्य सः अन्तःसुखः, तथा अन्तरेव आत्मनि आरामः आरमणं क्रीडा यस्य सः अन्तरारामः, तथा एव अन्तः एव आत्मन्येव ज्योतिः प्रकाशो यस्य सः अन्तर्ज्योतिरेव, यः ईदृशः सः योगी ब्रह्मनिर्वाणं ब्रह्मणि निर्वृतिं मोक्षम् इह जीवन्नेव ब्रह्मभूतः सन् अधिगच्छति प्राप्नोति ॥ २४ ॥
२५25
लभन्ते ब्रह्मनिर्वाणमृषयः क्षीणकल्मषाः ।
छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः ॥ २५ ॥
labhante brahmanirvāṇamṛṣayaḥ kṣīṇakalmaṣāḥ |
chinnadvaidhā yatātmānaḥ sarvabhūtahite ratāḥ || 25 ||
लभन्ते ब्रह्मनिर्वाणं मोक्षम् ऋषयः सम्यग्दर्शिनः सन्न्यासिनः क्षीणकल्मषाः क्षीणपापाः निर्दोषाः छिन्नद्वैधाः छिन्नसंशयाः यतात्मानः संयतेन्द्रियाः सर्वभूतहिते रताः सर्वेषां भूतानां हिते आनुकूल्ये रताः अहिंसका इत्यर्थः ॥ २५ ॥
२६26
कामक्रोधवियुक्तानां यतीनां यतचेतसाम् ।
अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् ॥ २६ ॥
kāmakrodhaviyuktānāṃ yatīnāṃ yatacetasām |
abhito brahmanirvāṇaṃ vartate viditātmanām || 26 ||
कामक्रोधवियुक्तानां कामश्च क्रोधश्च कामक्रोधौ ताभ्यां वियुक्तानां यतीनां सन्न्यासिनां यतचेतसां संयतान्तःकरणानाम् अभितः उभयतः जीवतां मृतानां च ब्रह्मनिर्वाणं मोक्षो वर्तते विदितात्मनां विदितः ज्ञातः आत्मा येषां ते विदितात्मानः तेषां विदितात्मनां सम्यग्दर्शिनामित्यर्थः ॥ २६ ॥
२७27
स्पर्शान्कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवोः ।
प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ ॥ २७ ॥
sparśānkṛtvā bahirbāhyāṃścakṣuścaivāntare bhruvoḥ |
prāṇāpānau samau kṛtvā nāsābhyantaracāriṇau || 27 ||
२८28
यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः ।
विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः ॥ २८ ॥
yatendriyamanobuddhirmunirmokṣaparāyaṇaḥ |
vigatecchābhayakrodho yaḥ sadā mukta eva saḥ || 28 ||
स्पर्शान् शब्दादीन् कृत्वा बहिः बाह्यान् — श्रोत्रादिद्वारेण अन्तः बुद्धौ प्रवेशिताः शब्दादयः विषयाः तान् अचिन्तयतः शब्दादयो बाह्या बहिरेव कृताः भवन्ति — तान् एवं बहिः कृत्वा चक्षुश्चैव अन्तरे भ्रुवोः ‘कृत्वा’ इति अनुषज्यते । तथा प्राणापानौ नासाभ्यन्तरचारिणौ समौ कृत्वा, यतेन्द्रियमनोबुद्धिः यतानि संयतानि इन्द्रियाणि मनः बुद्धिश्च यस्य सः यतेन्द्रियमनोबुद्धिः, मननात् मुनिः सन्न्यासी, मोक्षपरायणः एवं देहसंस्थानात् मोक्षपरायणः मोक्ष एव परम् अयनं परा गतिः यस्य सः अयं मोक्षपरायणो मुनिः भवेत् । विगतेच्छाभयक्रोधः इच्छा च भयं च क्रोधश्च इच्छाभयक्रोधाः ते विगताः यस्मात् सः विगतेच्छाभयक्रोधः, यः एवं वर्तते सदा सन्न्यासी, मुक्त एव सः न तस्य मोक्षायान्यः कर्तव्योऽस्ति ॥ २८ ॥
२९29
भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् ।
सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ॥ २९ ॥
bhoktāraṃ yajñatapasāṃ sarvalokamaheśvaram |
suhṛdaṃ sarvabhūtānāṃ jñātvā māṃ śāntimṛcchati || 29 ||
भोक्तारं यज्ञतपसां यज्ञानां तपसां च कर्तृरूपेण देवतारूपेण च, सर्वलोकमहेश्वरं सर्वेषां लोकानां महान्तम् ईश्वरं सुहृदं सर्वभूतानां सर्वप्राणिनां प्रत्युपकारनिरपेक्षतया उपकारिणं सर्वभूतानां हृदयेशयं सर्वकर्मफलाध्यक्षं सर्वप्रत्ययसाक्षिणं मां नारायणं ज्ञात्वा शान्तिं सर्वसंसारोपरतिम् ऋच्छति प्राप्नोति ॥ २९ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूजयपादशिष्यस्य
श्रीमच्छङ्करभगवतः कृतौ श्रीमद्भगवद्गीताभाष्ये पञ्चमोऽध्यायः ॥
iti śrīmatparamahaṃsaparivrājakācāryasya śrīgovindabhagavatpūjayapādaśiṣyasya
śrīmacchaṅkarabhagavataḥ kṛtau śrīmadbhagavadgītābhāṣye pañcamo'dhyāyaḥ ||