तृतीयोऽध्यायः

शास्त्रस्य प्रवृत्तिनिवृत्तिविषयभूते द्वे बुद्धी भगवता निर्दिष्टे, साङ्ख्ये बुद्धिः योगे बुद्धिः इति च । तत्र ‘प्रजहाति यदा कामान्’ (भ. गी. २ । ५५) इत्यारभ्य आ अध्यायपरिसमाप्तेः साङ्ख्यबुद्ध्याश्रितानां सन्न्यासं कर्तव्यमुक्त्वा तेषां तन्निष्ठतयैव च कृतार्थता उक्ता — ‘एषा ब्राह्मी स्थितिः’ (भ. गी. २ । ७२) इति । अर्जुनाय च ‘कर्मण्येवाधिकारस्ते . . . मा ते सङ्गोऽस्त्वकर्मणि’ (भ. गी. २ । ४७) इति कर्मैव कर्तव्यमुक्तवान् योगबुद्धिमाश्रित्य, न तत एव श्रेयःप्राप्तिम् उक्तवान् । तदेतदालक्ष्य पर्याकुलीकृतबुद्धिः अर्जुनः उवाच । कथं भक्ताय श्रेयोर्थिने यत् साक्षात् श्रेयःप्राप्तिसाधनं साङ्ख्यबुद्धिनिष्ठां श्रावयित्वा मां कर्मणि दृष्टानेकानर्थयुक्ते पारम्पर्येणापि अनैकान्तिकश्रेयःप्राप्तिफले नियुञ्ज्यात् इति युक्तः पर्याकुलीभावः अर्जुनस्य, तदनुरूपश्च प्रश्नः ‘ज्यायसी चेत्’ (भ. गी. ३ । १) इत्यादिः, प्रश्नापाकरणवाक्यं च भगवतः युक्तं यथोक्तविभागविषये शास्त्रे ॥

केचित्तु — अर्जुनस्य प्रश्नार्थमन्यथा कल्पयित्वा तत्प्रतिकूलं भगवतः प्रतिवचनं वर्णयन्ति, यथा च आत्मना सम्बन्धग्रन्थे गीतार्थो निरूपितः तत्प्रतिकूलं च इह पुनः प्रश्नप्रतिवचनयोः अर्थं निरूपयन्ति । कथम् ? तत्र सम्बन्धग्रन्थे तावत् — सर्वेषामाश्रमिणां ज्ञानकर्मणोः समुच्चयः गीताशास्त्रे निरूपितः अर्थः इत्युक्तम् ; पुनः विशेषितं च यावज्जीवश्रुतिचोदितानि कर्माणि परित्यज्य केवलादेव ज्ञानात् मोक्षः प्राप्यते इत्येतत् एकान्तेनैव प्रतिषिद्धमिति । इह तु आश्रमविकल्पं दर्शयता यावज्जीवश्रुतिचोदितानामेव कर्मणां परित्याग उक्तः । तत् कथम् ईदृशं विरुद्धमर्थम् अर्जुनाय ब्रूयात् भगवान् , श्रोता वा कथं विरुद्धमर्थमवधारयेत् ॥

तत्रैतत् स्यात् — गृहस्थानामेव श्रौतकर्मपरित्यागेन केवलादेव ज्ञानात् मोक्षः प्रतिषिध्यते, न तु आश्रमान्तराणामिति । एतदपि पूर्वोत्तरविरुद्धमेव । कथम् ? सर्वाश्रमिणां ज्ञानकर्मणोः समुच्चयो गीताशास्त्रे निश्चितः अर्थः इति प्रतिज्ञाय इह कथं तद्विरुद्धं केवलादेव ज्ञानात् मोक्षं ब्रूयात् आश्रमान्तराणाम् ॥

अथ मतं श्रौतकर्मापेक्षया एतद्वचनम् ‘केवलादेव ज्ञानात् श्रौतकर्मरहितात् गृहस्थानां मोक्षः प्रतिषिध्यते’ इति ; तत्र गृहस्थानां विद्यमानमपि स्मार्तं कर्म अविद्यमानवत् उपेक्ष्य ‘ज्ञानादेव केवलात्’ इत्युच्यते इति । एतदपि विरुद्धम् । कथम् ? गृहस्थस्यैव स्मार्तकर्मणा समुच्चितात् ज्ञानात् मोक्षः प्रतिषिध्यते न तु आश्रमान्तराणामिति कथं विवेकिभिः शक्यमवधारयितुम् । किञ्च — यदि मोक्षसाधनत्वेन स्मार्तानि कर्माणि ऊर्ध्वरेतसां समुच्चीयन्ते तथा गृहस्थस्यापि इष्यतां स्मार्तैरेव समुच्चयो न श्रौतैः ॥

अथ श्रौतैः स्मार्तैश्च गृहस्थस्यैव समुच्चयः मोक्षाय, ऊर्ध्वरेतसां तु स्मार्तकर्ममात्रसमुच्चितात् ज्ञानात् मोक्ष इति । तत्रैवं सति गृहस्थस्य आयासबाहुल्यात् , श्रौतं स्मार्तं च बहुदुःखरूपं कर्म शिरसि आरोपितं स्यात् ॥

अथ गृहस्थस्यैव आयासबाहुल्यकारणात् मोक्षः स्यात् , न आश्रमान्तराणां श्रौतनित्यकर्मरहितत्वात् इति । तदप्यसत् , सर्वोपनिषत्सु इतिहासपुराणयोगशास्त्रेषु च ज्ञानाङ्गत्वेन मुमुक्षोः सर्वकर्मसन्न्यासविधानात् , आश्रमविकल्पसमुच्चयविधानाच्च श्रुतिस्मृत्योः ॥

सिद्धस्तर्हि सर्वाश्रमिणां ज्ञानकर्मणोः समुच्चयः — न, मुमुक्षोः सर्वकर्मसन्न्यासविधानात् । ‘पुत्रैषणाया वित्तैषणायाश्च लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरन्ति’ (बृ. उ. ३ । ५ । १) ‘तस्मात् न्यासमेषां तपसामतिरिक्तमाहुः’ (तै. ना. ७९) ‘न्यास एवात्यरेचयत्’ (तै. ना. ७८) इति, ‘न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः’ (तै. ना. १२) इति च । ‘ब्रह्मचर्यादेव प्रव्रजेत्’ (जा. उ. ४) इत्याद्याः श्रुतयः । ‘त्यज धर्ममधर्मं च उभे सत्यानृते त्यज । उभे सत्यानृते त्यक्त्वा येन त्यजसि तत्त्यज । ’ (मो. ध. ३२९ । ४०) ‘संसारमेव निःसारं दृष्ट्वा सारदिदृक्षया । प्रव्रजन्त्यकृतोद्वाहाः परं वैराग्यमाश्रिताः’ ( ? ) इति बृहस्पतिः । ‘कर्मणा बध्यते जन्तुर्विद्यया च विमुच्यते । तस्मात्कर्म न कुर्वन्ति यतयः पारदर्शिनः’ (मो. ध. २४१ । ७) इति शुकानुशासनम् । इहापि च ‘सर्वकर्माणि मनसा सन्न्यस्य’ (भ. गी. ५ । १३) इत्यादि ॥

मोक्षस्य च अकार्यत्वात् मुमुक्षोः कर्मानर्थक्यम् । नित्यानि प्रत्यवायपरिहारार्थानि इति चेत् , न ; असन्न्यासिविषयत्वात् प्रत्यवायप्राप्तेः । न हि अग्निकार्याद्यकरणात् सन्न्यासिनः प्रत्यवायः कल्पयितुं शक्यः, यथा ब्रह्मचारिणामसन्न्यासिनामपि कर्मिणाम् । न तावत् नित्यानां कर्मणामभावादेव भावरूपस्य प्रत्यवायस्य उत्पत्तिः कल्पयितुं शक्या, ‘कथमसतः सज्जायेत’ (छा. उ. ६ । २ । २) इति असतः सज्जन्मासम्भवश्रुतेः । यदि विहिताकरणात् असम्भाव्यमपि प्रत्यवायं ब्रूयात् वेदः, तदा अनर्थकरः वेदः अप्रमाणमित्युक्तं स्यात् ; विहितस्य करणाकरणयोः दुःखमात्रफलत्वात् । तथा च कारकं शास्त्रं न ज्ञापकम् इत्यनुपपन्नार्थं कल्पितं स्यात् । न चैतदिष्टम् । तस्मात् न सन्न्यासिनां कर्माणि । अतो ज्ञानकर्मणोः समुच्चयानुपपत्तिः ; ‘ज्यायसी चेत् कर्मणस्ते मता बुद्धिः’ (भ. गी. ३ । १) इति अर्जुनस्य प्रश्नानुपपत्तेश्च ॥

यदि हि भगवता द्वितीयेऽध्याये ज्ञानं कर्म च समुच्चित्य त्वया अनुष्ठेयम् इत्युक्तं स्यात् , ततः अर्जुनस्य प्रश्नः अनुपपन्नः ‘ज्यायसी चेत्कर्मणस्ते मता बुद्धिः’ (भ. गी. ३ । १) इति । अर्जुनाय चेत् बुद्धिकर्मणी त्वया अनुष्ठेये इत्युक्ते, या कर्मणो ज्यायसी बुद्धिः सापि उक्तैव इति ‘तत् किं कर्मणि घोरे मां नियोजयसि केशव’ (भ. गी. ३ । १) इति उपालम्भः प्रश्नो वा न कथञ्चन उपपद्यते । न च अर्जुनस्यैव ज्यायसी बुद्धिः न अनुष्ठेया इति भगवता उक्तं पूर्वम् इति कल्पयितुं युक्तम् , येन ‘ज्यायसी चेत्’ इति विवेकतः प्रश्नः स्यात् ॥

यदि पुनः एकस्य पुरुषस्य ज्ञानकर्मणोर्विरोधात् युगपदनुष्ठानं न सम्भवतीति भिन्नपुरुषानुष्ठेयत्वं भगवता पूर्वमुक्तं स्यात् , ततोऽयं प्रश्न उपपन्नः ‘ज्यायसी चेत्’ इत्यादिः । अविवेकतः प्रश्नकल्पनायामपि भिन्नपुरुषानुष्ठेयत्वेन ज्ञानकर्मनिष्ठयोः भगवतः प्रतिवचनं नोपपद्यते । न च अज्ञाननिमित्तं भगवत्प्रतिवचनं कल्पनीयम् । अस्माच्च भिन्नपुरुषानुष्ठेयत्वेन ज्ञानकर्मनिष्ठयोः भगवतः प्रतिवचनदर्शनात् ज्ञानकर्मणोः समुच्चयानुपपत्तिः । तस्मात् केवलादेव ज्ञानात् मोक्ष इत्येषोऽर्थो निश्चितो गीतासु सर्वोपनिषत्सु च ॥

ज्ञानकर्मणोः ‘एकं वद निश्चित्य’ (भ. गी. ३ । २) इति च एकविषयैव प्रार्थना अनुपपन्ना, उभयोः समुच्चयसम्भवे । ‘कुरु कर्मैव तस्मात्त्वम्’ (भ. गी. ४ । १५) इति च ज्ञाननिष्ठासम्भवम् अर्जुनस्य अवधारणेन दर्शयिष्यति ॥

1

अर्जुन उवाच —

ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन ।  
तत्किं कर्मणि घोरे मां नियोजयसि केशव ॥ १ ॥
arjuna uvāca —

jyāyasī cetkarmaṇaste matā buddhirjanārdana |  
tatkiṃ karmaṇi ghore māṃ niyojayasi keśava || 1 ||

ज्यायसी श्रेयसी चेत् यदि कर्मणः सकाशात् ते तव मता अभिप्रेता बुद्धिर्ज्ञानं हे जनार्दन । यदि बुद्धिकर्मणी समुच्चिते इष्टे तदा एकं श्रेयःसाधनमिति कर्मणो ज्यायसी बुद्धिः इति कर्मणः अतिरिक्तकरणं बुद्धेरनुपपन्नम् अर्जुनेन कृतं स्यात् ; न हि तदेव तस्मात् फलतोऽतिरिक्तं स्यात् । तथा च, कर्मणः श्रेयस्करी भगवतोक्ता बुद्धिः, अश्रेयस्करं च कर्म कुर्विति मां प्रतिपादयति, तत् किं नु कारणमिति भगवत उपालम्भमिव कुर्वन् तत् किं कस्मात् कर्मणि घोरे क्रूरे हिंसालक्षणे मां नियोजयसि केशव इति च यदाह, तच्च नोपपद्यते । अथ स्मार्तेनैव कर्मणा समुच्चयः सर्वेषां भगवता उक्तः अर्जुनेन च अवधारितश्चेत् , ‘तत्किं कर्मणि घोरे मां नियोजयसि’ (भ. गी. ३ । १) इत्यादि कथं युक्तं वचनम् ॥ १ ॥

2

व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे ।  
तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् ॥ २ ॥
vyāmiśreṇeva vākyena buddhiṃ mohayasīva me |  
tadekaṃ vada niścitya yena śreyo'hamāpnuyām || 2 ||

व्यामिश्रेणेव, यद्यपि विविक्ताभिधायी भगवान् , तथापि मम मन्दबुद्धेः व्यामिश्रमिव भगवद्वाक्यं प्रतिभाति । तेन मम बुद्धिं मोहयसि इव, मम बुद्धिव्यामोहापनयाय हि प्रवृत्तः त्वं तु कथं मोहयसि ? अतः ब्रवीमि बुद्धिं मोहयसि इव मे मम इति । त्वं तु भिन्नकर्तृकयोः ज्ञानकर्मणोः एकपुरुषानुष्ठानासम्भवं यदि मन्यसे, तत्रैवं सति तत् तयोः एकं बुद्धिं कर्म वा इदमेव अर्जुनस्य योग्यं बुद्धिशक्त्यवस्थानुरूपमिति निश्चित्य वद ब्रूहि, येन ज्ञानेन कर्मणा वा अन्यतरेण श्रेयः अहम् आप्नुयां प्राप्नुयाम् ; इति यदुक्तं तदपि नोपपद्यते ॥

यदि हि कर्मनिष्ठायां गुणभूतमपि ज्ञानं भगवता उक्तं स्यात् , तत् कथं तयोः ‘एकं वद’ इति एकविषयैव अर्जुनस्य शुश्रूषा स्यात् । न हि भगवता पूर्वमुक्तम् ‘अन्यतरदेव ज्ञानकर्मणोः वक्ष्यामि, नैव द्वयम्’ इति, येन उभयप्राप्त्यसम्भवम् आत्मनो मन्यमानः एकमेव प्रार्थयेत् ॥ २ ॥

3

श्रीभगवानुवाच —

लोकेऽस्मिन्द्विविधा निष्ठा पुरा प्रोक्ता मयानघ ।  
ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम् ॥ ३ ॥
śrībhagavānuvāca —

loke'smindvividhā niṣṭhā purā proktā mayānagha |  
jñānayogena sāṅkhyānāṃ karmayogena yoginām || 3 ||

लोके अस्मिन् शास्त्रार्थानुष्ठानाधिकृतानां त्रैवर्णिकानां द्विविधा द्विप्रकारा निष्ठा स्थितिः अनुष्ठेयतात्पर्यं पुरा पूर्वं सर्गादौ प्रजाः सृष्ट्वा तासाम् अभ्युदयनिःश्रेयसप्राप्तिसाधनं वेदार्थसम्प्रदायमाविष्कुर्वता प्रोक्ता मया सर्वज्ञेन ईश्वरेण हे अनघ अपाप । तत्र का सा द्विविधा निष्ठा इत्याह — तत्र ज्ञानयोगेन ज्ञानमेव योगः तेन साङ्ख्यानाम् आत्मानात्मविषयविवेकविज्ञानवतां ब्रह्मचर्याश्रमादेव कृतसन्न्यासानां वेदान्तविज्ञानसुनिश्चितार्थानां परमहंसपरिव्राजकानां ब्रह्मण्येव अवस्थितानां निष्ठा प्रोक्ता । कर्मयोगेन कर्मैव योगः कर्मयोगः तेन कर्मयोगेन योगिनां कर्मिणां निष्ठा प्रोक्ता इत्यर्थः । यदि च एकेन पुरुषेण एकस्मै पुरुषार्थाय ज्ञानं कर्म च समुच्चित्य अनुष्ठेयं भगवता इष्टम् उक्तं वक्ष्यमाणं वा गीतासु वेदेषु चोक्तम् , कथमिह अर्जुनाय उपसन्नाय प्रियाय विशिष्टभिन्नपुरुषकर्तृके एव ज्ञानकर्मनिष्ठे ब्रूयात् ? यदि पुनः ‘अर्जुनः ज्ञानं कर्म च द्वयं श्रुत्वा स्वयमेवानुष्ठास्यति अन्येषां तु भिन्नपुरुषानुष्ठेयतां वक्ष्यामि इति’ मतं भगवतः कल्प्येत, तदा रागद्वेषवान् अप्रमाणभूतो भगवान् कल्पितः स्यात् । तच्चायुक्तम् । तस्मात् कयापि युक्त्या न समुच्चयो ज्ञानकर्मणोः ॥

यत् अर्जुनेन उक्तं कर्मणो ज्यायस्त्वं बुद्धेः, तच्च स्थितम् , अनिराकरणात् । तस्याश्च ज्ञाननिष्ठायाः सन्न्यासिनामेवानुष्ठेयत्वम् , भिन्नपुरुषानुष्ठेयत्ववचनात् । भगवतः एवमेव अनुमतमिति गम्यते ॥ ३ ॥

4

न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते ।  
न च सन्न्यसनादेव सिद्धिं समधिगच्छति ॥ ४ ॥
na karmaṇāmanārambhānnaiṣkarmyaṃ puruṣo'śnute |  
na ca sannyasanādeva siddhiṃ samadhigacchati || 4 ||

न कर्मणां क्रियाणां यज्ञादीनाम् इह जन्मनि जन्मान्तरे वा अनुष्ठितानाम् उपात्तदुरितक्षयहेतुत्वेन सत्त्वशुद्धिकारणानां तत्कारणत्वेन च ज्ञानोत्पत्तिद्वारेण ज्ञाननिष्ठाहेतूनाम् , ‘ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः । यथादर्शतलप्रख्ये पश्यत्यात्मानमात्मनि’ (मो. ध. २०४ । ८) इत्यादिस्मरणात् , अनारम्भात् अननुष्ठानात् नैष्कर्म्यं निष्कर्मभावं कर्मशून्यतां ज्ञानयोगेन निष्ठां निष्क्रियात्मस्वरूपेणैव अवस्थानमिति यावत् । पुरुषः न अश्नुते न प्राप्नोतीत्यर्थः ॥

कर्मणामनारम्भान्नैष्कर्म्यं नाश्नुते इति वचनात् तद्विपर्ययात् तेषामारम्भात् नैष्कर्म्यमश्नुते इति गम्यते । कस्मात् पुनः कारणात् कर्मणामनारम्भान्नैष्कर्म्यं नाश्नुते इति ? उच्यते, कर्मारम्भस्यैव नैष्कर्म्योपायत्वात् । न ह्युपायमन्तरेण उपेयप्राप्तिरस्ति । कर्मयोगोपायत्वं च नैष्कर्म्यलक्षणस्य ज्ञानयोगस्य, श्रुतौ इह च, प्रतिपादनात् । श्रुतौ तावत् प्रकृतस्य आत्मलोकस्य वेद्यस्य वेदनोपायत्वेन ‘तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन’ (बृ. उ. ४ । ४ । २२) इत्यादिना कर्मयोगस्य ज्ञानयोगोपायत्वं प्रतिपादितम् । इहापि च — ‘सन्न्यासस्तु महाबाहो दुःखमाप्तुमयोगतः’ (भ. गी. ५ । ६) ‘योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये’ (भ. गी. ५ । ११) ‘यज्ञो दानं तपश्चैव पावनानि मनीषिणाम्’ (भ. गी. १८ । ५) इत्यादि प्रतिपादयिष्यति ॥

ननु च ‘अभयं सर्वभूतेभ्यो दत्त्वा नैष्कर्म्यमाचरेत्’ (अश्व. ४६ । १८) इत्यादौ कर्तव्यकर्मसन्न्यासादपि नैष्कर्म्यप्राप्तिं दर्शयति । लोके च कर्मणामनारम्भान्नैष्कर्म्यमिति प्रसिद्धतरम् । अतश्च नैष्कर्म्यार्थिनः किं कर्मारम्भेण ? इति प्राप्तम् । अत आह — न च सन्न्यसनादेवेति । नापि सन्न्यसनादेव केवलात् कर्मपरित्यागमात्रादेव ज्ञानरहितात् सिद्धिं नैष्कर्म्यलक्षणां ज्ञानयोगेन निष्ठां समधिगच्छति न प्राप्नोति ॥ ४ ॥

5

न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् ।  
कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः ॥ ५ ॥
na hi kaścitkṣaṇamapi jātu tiṣṭhatyakarmakṛt |  
kāryate hyavaśaḥ karma sarvaḥ prakṛtijairguṇaiḥ || 5 ||

न हि यस्मात् क्षणमपि कालं जातु कदाचित् कश्चित् तिष्ठति अकर्मकृत् सन् । कस्मात् ? कार्यते प्रवर्त्यते हि यस्मात् अवश एव अस्वतन्त्र एव कर्म सर्वः प्राणी प्रकृतिजैः प्रकृतितो जातैः सत्त्वरजस्तमोभिः गुणैः । अज्ञ इति वाक्यशेषः, यतो वक्ष्यति ‘गुणैर्यो न विचाल्यते’ (भ. गी. १४ । २३) इति । साङ्ख्यानां पृथक्करणात् अज्ञानामेव हि कर्मयोगः, न ज्ञानिनाम् । ज्ञानिनां तु गुणैरचाल्यमानानां स्वतश्चलनाभावात् कर्मयोगो नोपपद्यते । तथा च व्याख्यातम् ‘वेदाविनाशिनम्’ (भ. गी. २ । २१) इत्यत्र ॥ ५ ॥

6

कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् ।  
इन्द्रियार्थान्विमूढात्मा मिथ्याचारः स उच्यते ॥ ६ ॥
karmendriyāṇi saṃyamya ya āste manasā smaran |  
indriyārthānvimūḍhātmā mithyācāraḥ sa ucyate || 6 ||

कर्मेन्द्रियाणि हस्तादीनि संयम्य संहृत्य यः आस्ते तिष्ठति मनसा स्मरन् चिन्तयन् इन्द्रियार्थान् विषयान् विमूढात्मा विमूढान्तःकरणः मिथ्याचारो मृषाचारः पापाचारः

सः उच्यते ॥ ६ ॥

7

यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन ।  
कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते ॥ ७ ॥
yastvindriyāṇi manasā niyamyārabhate'rjuna |  
karmendriyaiḥ karmayogamasaktaḥ sa viśiṣyate || 7 ||

यस्तु पुनः कर्मण्यधिकृतः अज्ञः बुद्धीन्द्रियाणि मनसा नियम्य आरभते अर्जुन कर्मेन्द्रियैः वाक्पाण्यादिभिः । किमारभते इत्याह — कर्मयोगम् असक्तः सन् फलाभिसन्धिवर्जितः सः विशिष्यते इतरस्मात् मिथ्याचारात् ॥ ७ ॥

8

नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः ।  
शरीरयात्रापि च ते न प्रसिध्येदकर्मणः ॥ ८ ॥
niyataṃ kuru karma tvaṃ karma jyāyo hyakarmaṇaḥ |  
śarīrayātrāpi ca te na prasidhyedakarmaṇaḥ || 8 ||

नियतं नित्यं शास्त्रोपदिष्टम् , यो यस्मिन् कर्मणि अधिकृतः फलाय च अश्रुतं तत् नियतं कर्म, तत् कुरु त्वं हे अर्जुन, यतः कर्म ज्यायः अधिकतरं फलतः, हि यस्मात् अकर्मणः अकरणात् अनारम्भात् । कथम् ? शरीरयात्रा शरीरस्थितिः अपि च ते तव न प्रसिध्येत् प्रसिद्धिं न गच्छेत् अकर्मणः अकरणात् । अतः दृष्टः कर्माकर्मणोर्विशेषो लोके ॥ ८ ॥

9

यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः ।  
तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर ॥ ९ ॥
yajñārthātkarmaṇo'nyatra loko'yaṃ karmabandhanaḥ |  
tadarthaṃ karma kaunteya muktasaṅgaḥ samācara || 9 ||

‘यज्ञो वै विष्णुः’ (तै. स. १ । ७ । ४) इति श्रुतेः यज्ञः ईश्वरः, तदर्थं यत् क्रियते तत् यज्ञार्थं कर्म । तस्मात् कर्मणः अन्यत्र अन्येन कर्मणा लोकः अयम् अधिकृतः कर्मकृत् कर्मबन्धनः कर्म बन्धनं यस्य सोऽयं कर्मबन्धनः लोकः, न तु यज्ञार्थात् । अतः तदर्थं यज्ञार्थं कर्म कौन्तेय, मुक्तसङ्गः कर्मफलसङ्गवर्जितः सन् समाचर निर्वर्तय ॥ ९ ॥

१०10

सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः ।  
अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् ॥ १० ॥
sahayajñāḥ prajāḥ sṛṣṭvā purovāca prajāpatiḥ |  
anena prasaviṣyadhvameṣa vo'stviṣṭakāmadhuk || 10 ||

सहयज्ञाः यज्ञसहिताः प्रजाः त्रयो वर्णाः ताः सृष्ट्वा उत्पाद्य पुरा पूर्वं सर्गादौ उवाच उक्तवान् प्रजापतिः प्रजानां स्रष्टा अनेन यज्ञेन प्रसविष्यध्वं प्रसवः वृद्धिः उत्पत्तिः तं कुरुध्वम् । एष यज्ञः वः युष्माकम् अस्तु भवतु इष्टकामधुक् इष्टान् अभिप्रेतान् कामान् फलविशेषान् दोग्धीति इष्टकामधुक् ॥ १० ॥

११11

देवान्भावयतानेन ते देवा भावयन्तु वः ।  
परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ॥ ११ ॥
devānbhāvayatānena te devā bhāvayantu vaḥ |  
parasparaṃ bhāvayantaḥ śreyaḥ paramavāpsyatha || 11 ||

देवान् इन्द्रादीन् भावयत वर्धयत अनेन यज्ञेन । ते देवा भावयन्तु आप्याययन्तु वृष्ट्यादिना वः युष्मान् । एवं परस्परम् अन्योन्यं भावयन्तः श्रेयः परं मोक्षलक्षणं ज्ञानप्राप्तिक्रमेण अवाप्स्यथ । स्वर्गं वा परं श्रेयः अवाप्स्यथ ॥ ११ ॥

१२12

इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञभाविताः ।  
तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः ॥ १२ ॥
iṣṭānbhogānhi vo devā dāsyante yajñabhāvitāḥ |  
tairdattānapradāyaibhyo yo bhuṅkte stena eva saḥ || 12 ||

इष्टान् अभिप्रेतान् भोगान् हि वः युष्मभ्यं देवाः दास्यन्ते वितरिष्यन्ति स्त्रीपशुपुत्रादीन् यज्ञभाविताः यज्ञैः वर्धिताः तोषिताः इत्यर्थः । तैः देवैः दत्तान् भोगान् अप्रदाय अदत्त्वा, आनृण्यमकृत्वा इत्यर्थः, एभ्यः देवेभ्यः, यः भुङ्क्ते स्वदेहेन्द्रियाण्येव तर्पयति स्तेन एव तस्कर एव सः देवादिस्वापहारी ॥ १२ ॥

१३13

यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः ।  
भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात् ॥ १३ ॥
yajñaśiṣṭāśinaḥ santo mucyante sarvakilbiṣaiḥ |  
bhuñjate te tvaghaṃ pāpā ye pacantyātmakāraṇāt || 13 ||

देवयज्ञादीन् निर्वर्त्य तच्छिष्टम् अशनम् अमृताख्यम् अशितुं शीलं येषां ते यज्ञशिष्टाशिनः सन्तः मुच्यन्ते सर्वकिल्बिषैः सर्वपापैः चुल्ल्यादिपञ्चसूनाकृतैः प्रमादकृतहिंसादिजनितैश्च अन्यैः । ये तु आत्मम्भरयः, भुञ्जते ते तु अघं पापं स्वयमपि पापाः — ये पचन्ति पाकं निर्वर्तयन्ति आत्मकारणात् आत्महेतोः ॥ १३ ॥

१४14

अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसम्भवः ।  
यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः ॥ १४ ॥
annādbhavanti bhūtāni parjanyādannasambhavaḥ |  
yajñādbhavati parjanyo yajñaḥ karmasamudbhavaḥ || 14 ||

अन्नात् भुक्तात् लोहितरेतःपरिणतात् प्रत्यक्षं भवन्ति जायन्ते भूतानि । पर्जन्यात् वृष्टेः अन्नस्य सम्भवः अन्नसम्भवः । यज्ञात् भवति पर्जन्यः, ‘अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः’ (मनु. ३ । ७६) इति स्मृतेः । यज्ञः अपूर्वम् । स च यज्ञः कर्मसमुद्भवः ऋत्विग्यजमानयोश्च व्यापारः कर्म, तत् समुद्भवः यस्य यज्ञस्य अपूर्वस्य स यज्ञः कर्मसमुद्भवः ॥ १४ ॥

१५15

कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम् ।  
तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ॥ १५ ॥
karma brahmodbhavaṃ viddhi brahmākṣarasamudbhavam |  
tasmātsarvagataṃ brahma nityaṃ yajñe pratiṣṭhitam || 15 ||

कर्म ब्रह्मोद्भवं ब्रह्म वेदः सः उद्भवः कारणं प्रकाशको यस्य तत् कर्म ब्रह्मोद्भवं विद्धि विजानीहि । ब्रह्म पुनः वेदाख्यम् अक्षरसमुद्भवम् अक्षरं ब्रह्म परमात्मा समुद्भवो यस्य तत् अक्षरसमुद्भवम् । ब्रह्म वेद इत्यर्थः । यस्मात् साक्षात् परमात्माख्यात् अक्षरात् पुरुषनिःश्वासवत् समुद्भूतं ब्रह्म तस्मात् सर्वार्थप्रकाशकत्वात् सर्वगतम् ; सर्वगतमपि सत् नित्यं सदा यज्ञविधिप्रधानत्वात् यज्ञे प्रतिष्ठितम् ॥ १५ ॥

१६16

एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः ।  
अघायुरिन्द्रियारामो मोघं पार्थ स जीवति ॥ १६ ॥
evaṃ pravartitaṃ cakraṃ nānuvartayatīha yaḥ |  
aghāyurindriyārāmo moghaṃ pārtha sa jīvati || 16 ||

एवम् इत्थम् ईश्वरेण वेदयज्ञपूर्वकं जगच्चक्रं प्रवर्तितं न अनुवर्तयति इह लोके यः कर्मणि अधिकृतः सन् अघायुः अघं पापम् आयुः जीवनं यस्य सः अघायुः, पापजीवनः इति यावत् । इन्द्रियारामः इन्द्रियैः आरामः आरमणम् आक्रीडा विषयेषु यस्य सः इन्द्रियारामः मोघं वृथा हे पार्थ, स जीवति ॥

तस्मात् अज्ञेन अधिकृतेन कर्तव्यमेव कर्मेति प्रकरणार्थः । प्राक् आत्मज्ञाननिष्ठायोग्यताप्राप्तेः तादर्थ्येन कर्मयोगानुष्ठानम् अधिकृतेन अनात्मज्ञेन कर्तव्यमेवेत्येतत् ‘न कर्मणामनारम्भात्’ (भ. गी. ३ । ४) इत्यत आरभ्य ‘शरीरयात्रापि च ते न प्रसिध्येदकर्मणः’ (भ. गी. ३ । ८) इत्येवमन्तेन प्रतिपाद्य, ‘यज्ञार्थात् कर्मणोऽन्यत्र’ (भ. गी. ३ । ९) इत्यादिना ‘मोघं पार्थ स जीवति’ (भ. गी. ३ । १६) इत्येवमन्तेनापि ग्रन्थेन प्रासङ्गिकम् अधिकृतस्य अनात्मविदः कर्मानुष्ठाने बहु कारणमुक्तम् । तदकरणे च दोषसङ्कीर्तनं कृतम् ॥ १६ ॥

१७17

यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः ।  
आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते ॥ १७ ॥
yastvātmaratireva syādātmatṛptaśca mānavaḥ |  
ātmanyeva ca santuṣṭastasya kāryaṃ na vidyate || 17 ||

यस्तु साङ्ख्यः आत्मज्ञाननिष्ठः आत्मरतिः आत्मन्येव रतिः न विषयेषु यस्य सः आत्मरतिरेव स्यात् भवेत् आत्मतृप्तश्च आत्मनैव तृप्तः न अन्नरसादिना सः मानवः मनुष्यः सन्न्यासी आत्मन्येव च सन्तुष्टः । सन्तोषो हि बाह्यार्थलाभे सर्वस्य भवति, तमनपेक्ष्य आत्मन्येव च सन्तुष्टः सर्वतो वीततृष्ण इत्येतत् । यः ईदृशः आत्मवित् तस्य कार्यं करणीयं न विद्यते नास्ति इत्यर्थः ॥ १७ ॥

१८18

नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन ।  
न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः ॥ १८ ॥
naiva tasya kṛtenārtho nākṛteneha kaścana |  
na cāsya sarvabhūteṣu kaścidarthavyapāśrayaḥ || 18 ||

नैव तस्य परमात्मरतेः कृतेन कर्मणा अर्थः प्रयोजनमस्ति । अस्तु तर्हि अकृतेन अकरणेन प्रत्यवायाख्यः अनर्थः, न अकृतेन इह लोके कश्चन कश्चिदपि प्रत्यवायप्राप्तिरूपः आत्महानिलक्षणो वा नैव अस्ति । न च अस्य सर्वभूतेषु ब्रह्मादिस्थावरान्तेषु भूतेषु कश्चित् अर्थव्यपाश्रयः प्रयोजननिमित्तक्रियासाध्यः व्यपाश्रयः व्यपाश्रयणम् आलम्बनं कञ्चित् भूतविशेषमाश्रित्य न साध्यः कश्चिदर्थः अस्ति, येन तदर्था क्रिया अनुष्ठेया स्यात् । न त्वम् एतस्मिन् सर्वतःसम्प्लुतोदकस्थानीये सम्यग्दर्शने वर्तसे ॥ १८ ॥

१९19

तस्मादसक्तः सततं कार्यं कर्म समाचर ।  
असक्तो ह्याचरन्कर्म परमाप्नोति पूरुषः ॥ १९ ॥
tasmādasaktaḥ satataṃ kāryaṃ karma samācara |  
asakto hyācarankarma paramāpnoti pūruṣaḥ || 19 ||

तस्मात् असक्तः सङ्गवर्जितः सततं सर्वदा कार्यं कर्तव्यं नित्यं कर्म समाचर निर्वर्तय । असक्तो हि यस्मात् समाचरन् ईश्वरार्थं कर्म कुर्वन् परं मोक्षम् आप्नोति पूरुषः सत्त्वशुद्धिद्वारेण इत्यर्थः ॥ १९ ॥

२०20

कर्मणैव हि संसिद्धिमास्थिता जनकादयः ।  
लोकसङ्ग्रहमेवापि सम्पश्यन्कर्तुमर्हसि ॥ २० ॥
karmaṇaiva hi saṃsiddhimāsthitā janakādayaḥ |  
lokasaṅgrahamevāpi sampaśyankartumarhasi || 20 ||

कर्मणैव हि यस्मात् पूर्वे क्षत्रियाः विद्वांसः संसिद्धिं मोक्षं गन्तुम् आस्थिताः प्रवृत्ताः । के ? जनकादयः जनकाश्वपतिप्रभृतयः । यदि ते प्राप्तसम्यग्दर्शनाः, ततः लोकसङ्ग्रहार्थं प्रारब्धकर्मत्वात् कर्मणा सहैव असन्न्यस्यैव कर्म संसिद्धिमास्थिता इत्यर्थः । अथ अप्राप्तसम्यग्दर्शनाः जनकादयः, तदा कर्मणा सत्त्वशुद्धिसाधनभूतेन क्रमेण संसिद्धिमास्थिता इति व्याख्येयः श्लोकः । अथ मन्यसे पूर्वैरपि जनकादिभिः अजानद्भिरेव कर्तव्यं कर्म कृतम् ; तावता नावश्यमन्येन कर्तव्यं सम्यग्दर्शनवता कृतार्थेनेति ; तथापि प्रारब्धकर्मायत्तः त्वं लोकसङ्ग्रहम् एव अपि लोकस्य उन्मार्गप्रवृत्तिनिवारणं लोकसङ्ग्रहः तमेवापि प्रयोजनं सम्पश्यन् कर्तुम् अर्हसि ॥ २० ॥

२१21

यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः ।  
स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥ २१ ॥
yadyadācarati śreṣṭhastattadevetaro janaḥ |  
sa yatpramāṇaṃ kurute lokastadanuvartate || 21 ||

यद्यत् कर्म आचरति करोति श्रेष्ठः प्रधानः तत्तदेव कर्म आचरति इतरः अन्यः जनः तदनुगतः । किञ्च सः श्रेष्ठः यत् प्रमाणं कुरुते लौकिकं वैदिकं वा लोकः तत् अनुवर्तते तदेव प्रमाणीकरोति इत्यर्थः ॥ २१ ॥

२२22

न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन ।  
नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि ॥ २२ ॥
na me pārthāsti kartavyaṃ triṣu lokeṣu kiñcana |  
nānavāptamavāptavyaṃ varta eva ca karmaṇi || 22 ||

न मे मम पार्थ न अस्ति न विद्यते कर्तव्यं त्रिषु अपि लोकेषु किञ्चन किञ्चिदपि । कस्मात् ? न अनवाप्तम् अप्राप्तम् अवाप्तव्यं प्रापणीयम् , तथापि वर्ते एव च कर्मणि अहम् ॥ २२ ॥

२३23

यदि ह्यहं न वर्तेय जातु कर्मण्यतन्द्रितः ।  
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥ २३ ॥
yadi hyahaṃ na varteya jātu karmaṇyatandritaḥ |  
mama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ || 23 ||

यदि हि पुनः अहं न वर्तेय जातु कदाचित् कर्मणि अतन्द्रितः अनलसः सन् मम श्रेष्ठस्य सतः वर्त्म मार्गम् अनुवर्तन्ते मनुष्याः हे पार्थ, सर्वशः सर्वप्रकारैः ॥ २३ ॥

२४24

उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् ।  
सङ्करस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः ॥ २४ ॥
utsīdeyurime lokā na kuryāṃ karma cedaham |  
saṅkarasya ca kartā syāmupahanyāmimāḥ prajāḥ || 24 ||

उत्सीदेयुः विनश्येयुः इमे सर्वे लोकाः लोकस्थितिनिमित्तस्य कर्मणः अभावात् न कुर्यां कर्म चेत् अहम् । किञ्च, सङ्करस्य च कर्ता स्याम् । तेन कारणेन उपहन्याम् इमाः प्रजाः । प्रजानामनुग्रहाय प्रवृत्तः उपहतिम् उपहननं कुर्याम् इत्यर्थः । मम ईश्वरस्य अननुरूपमापद्येत ॥ २४ ॥

२५25

सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत ।  
कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसङ्ग्रहम् ॥ २५ ॥
saktāḥ karmaṇyavidvāṃso yathā kurvanti bhārata |  
kuryādvidvāṃstathāsaktaścikīrṣurlokasaṅgraham || 25 ||

सक्ताः कर्मणि ‘अस्य कर्मणः फलं मम भविष्यति’ इति केचित् अविद्वांसः यथा कुर्वन्ति भारत, कुर्यात् विद्वान् आत्मवित् तथा असक्तः सन् । तद्वत् किमर्थं करोति ? तत् शृणु — चिकीर्षुः कर्तुमिच्छुः लोकसङ्ग्रहम् ॥ २५ ॥

२६26

न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् ।  
जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन् ॥ २६ ॥
na buddhibhedaṃ janayedajñānāṃ karmasaṅginām |  
joṣayetsarvakarmāṇi vidvānyuktaḥ samācaran || 26 ||

बुद्धेर्भेदः बुद्धिभेदः ‘मया इदं कर्तव्यं भोक्तव्यं चास्य कर्मणः फलम्’ इति निश्चयरूपाया बुद्धेः भेदनं चालनं बुद्धिभेदः तं न जनयेत् न उत्पादयेत् अज्ञानाम् अविवेकिनां कर्मसङ्गिनां कर्मणि आसक्तानां आसङ्गवताम् । किं नु कुर्यात् ? जोषयेत् कारयेत् सर्वकर्माणि विद्वान् स्वयं तदेव अविदुषां कर्म युक्तः अभियुक्तः समाचरन् ॥ २६ ॥

२७27

प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः ।  
अहङ्कारविमूढात्मा कर्ताहमिति मन्यते ॥ २७ ॥
prakṛteḥ kriyamāṇāni guṇaiḥ karmāṇi sarvaśaḥ |  
ahaṅkāravimūḍhātmā kartāhamiti manyate || 27 ||

प्रकृतेः प्रकृतिः प्रधानं सत्त्वरजस्तमसां गुणानां साम्यावस्था तस्याः प्रकृतेः गुणैः विकारैः कार्यकरणरूपैः क्रियमाणानि कर्माणि लौकिकानि शास्त्रीयाणि च सर्वशः सर्वप्रकारैः अहङ्कारविमूढात्मा कार्यकरणसङ्घातात्मप्रत्ययः अहङ्कारः तेन विविधं नानाविधं मूढः आत्मा अन्तःकरणं यस्य सः अयं कार्यकरणधर्मा कार्यकरणाभिमानी अविद्यया कर्माणि आत्मनि मन्यमानः तत्तत्कर्मणाम् अहं कर्ता इति मन्यते ॥ २७ ॥

२८28

तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः ।  
गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते ॥ २८ ॥
tattvavittu mahābāho guṇakarmavibhāgayoḥ |  
guṇā guṇeṣu vartanta iti matvā na sajjate || 28 ||

तत्त्ववित् तु महाबाहो । कस्य तत्त्ववित् ? गुणकर्मविभागयोः गुणविभागस्य कर्मविभागस्य च तत्त्ववित् इत्यर्थः । गुणाः करणात्मकाः गुणेषु विषयात्मकेषु वर्तन्ते न आत्मा इति मत्वा न सज्जते सक्तिं न करोति ॥ २८ ॥

२९29

प्रकृतेर्गुणसम्मूढाः सज्जन्ते गुणकर्मसु ।  
तानकृत्स्नविदो मन्दान्कृत्स्नविन्न विचालयेत् ॥ २९ ॥
prakṛterguṇasammūḍhāḥ sajjante guṇakarmasu |  
tānakṛtsnavido mandānkṛtsnavinna vicālayet || 29 ||

प्रकृतेः गुणैः सम्यक् मूढाः सम्मोहिताः सन्तः सज्जन्ते गुणानां कर्मसु गुणकर्मसु ‘वयं कर्म कुर्मः फलाय’ इति | तान् कर्मसङ्गिनः अकृत्स्नविदः कर्मफलमात्रदर्शिनः मन्दान् मन्दप्रज्ञान् कृत्स्नवित् आत्मवित् स्वयं न विचालयेत् बुद्धिभेदकरणमेव चालनं तत् न कुर्यात् इत्यर्थः ॥ २९ ॥

३०30

मयि सर्वाणि कर्माणि सन्न्यस्याध्यात्मचेतसा ।  
निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः ॥ ३० ॥
mayi sarvāṇi karmāṇi sannyasyādhyātmacetasā |  
nirāśīrnirmamo bhūtvā yudhyasva vigatajvaraḥ || 30 ||

मयि वासुदेवे परमेश्वरे सर्वज्ञे सर्वात्मनि सर्वाणि कर्माणि सन्न्यस्य निक्षिप्य अध्यात्मचेतसा विवेकबुद्ध्या ‘अहं कर्ता ईश्वराय भृत्यवत् करोमि’ इत्यनया बुद्ध्या । किञ्च, निराशीः त्यक्ताशीः निर्ममः ममभावश्च निर्गतः यस्य तव स त्वं निर्ममो भूत्वा युध्यस्व विगतज्वरः विगतसन्तापः विगतशोकः सन्नित्यर्थः ॥ ३० ॥

३१31

ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः ।  
श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः ॥ ३१ ॥
ye me matamidaṃ nityamanutiṣṭhanti mānavāḥ |  
śraddhāvanto'nasūyanto mucyante te'pi karmabhiḥ || 31 ||

ये मे मदीयम् इदं मतं नित्यम् अनुतिष्ठन्ति अनुवर्तन्ते मानवाः मनुष्याः श्रद्धावन्तः श्रद्धधानाः अनसूयन्तः असूयां च मयि परमगुरौ वासुदेवे अकुर्वन्तः, मुच्यन्ते तेऽपि एवं भूताः कर्मभिः धर्माधर्माख्यैः ॥ ३१ ॥

३२32

ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् ।  
सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेतसः ॥ ३२ ॥
ye tvetadabhyasūyanto nānutiṣṭhanti me matam |  
sarvajñānavimūḍhāṃstānviddhi naṣṭānacetasaḥ || 32 ||

ये तु तद्विपरीताः एतत् मम मतम् अभ्यसूयन्तः निन्दन्तः न अनुतिष्ठन्ति नानुवर्तन्ते मे मतम् , सर्वेषु ज्ञानेषु विविधं मूढाः ते । सर्वज्ञानविमूढान् तान् विद्धि जानीहि

नष्टान् नाशं गतान् अचेतसः अविवेकिनः ॥ ३२ ॥

३३33

सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि ।  
प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति ॥ ३३ ॥
sadṛśaṃ ceṣṭate svasyāḥ prakṛterjñānavānapi |  
prakṛtiṃ yānti bhūtāni nigrahaḥ kiṃ kariṣyati || 33 ||

सदृशम् अनुरूपं चेष्टते चेष्टां करोति | कस्य ? स्वस्याः स्वकीयायाः प्रकृतेः । प्रकृतिर्नाम पूर्वकृतधर्माधर्मादिसंस्कारः वर्तमानजन्मादौ अभिव्यक्तः ; सा प्रकृतिः । तस्याः सदृशमेव सर्वो जन्तुः ज्ञानवानपि चेष्टते, किं पुनर्मूर्खः । तस्मात् प्रकृतिं यान्ति अनुगच्छन्ति भूतानि प्राणिनः । निग्रहः निषेधरूपः किं करिष्यति मम वा अन्यस्य वा ॥ ३३ ॥

३४34

इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ ।  
तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ ॥ ३४ ॥
indriyasyendriyasyārthe rāgadveṣau vyavasthitau |  
tayorna vaśamāgacchettau hyasya paripanthinau || 34 ||

इन्द्रियस्येन्द्रियस्य अर्थे सर्वेन्द्रियाणामर्थे शब्दादिविषये इष्टे रागः अनिष्टे द्वेषः इत्येवं प्रतीन्द्रियार्थं रागद्वेषौ अवश्यम्भाविनौ तत्र अयं पुरुषकारस्य शास्त्रार्थस्य च विषय उच्यते । शास्त्रार्थे प्रवृत्तः पूर्वमेव रागद्वेषयोर्वशं नागच्छेत् । या हि पुरुषस्य प्रकृतिः सा रागद्वेषपुरःसरैव स्वकार्ये पुरुषं प्रवर्तयति । तदा स्वधर्मपरित्यागः परधर्मानुष्ठानं च भवति । यदा पुनः रागद्वेषौ तत्प्रतिपक्षेण नियमयति तदा शास्त्रदृष्टिरेव पुरुषः भवति, न प्रकृतिवशः । तस्मात् तयोः रागद्वेषयोः वशं न आगच्छेत् , यतः तौ हि अस्य पुरुषस्य परिपन्थिनौ श्रेयोमार्गस्य विघ्नकर्तारौ तस्करौ इव पथीत्यर्थः ॥ ३४ ॥

३५35

श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् ।  
स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ॥ ३५ ॥
śreyānsvadharmo viguṇaḥ paradharmātsvanuṣṭhitāt |  
svadharme nidhanaṃ śreyaḥ paradharmo bhayāvahaḥ || 35 ||

श्रेयान् प्रशस्यतरः स्वो धर्मः स्वधर्मः विगुणः अपि विगतगुणोऽपि अनुष्ठीयमानः परधर्मात् स्वनुष्ठितात् साद्गुण्येन सम्पादितादपि । स्वधर्मे स्थितस्य निधनं मरणमपि श्रेयः परधर्मे स्थितस्य जीवितात् । कस्मात् ? परधर्मः भयावहः नरकादिलक्षणं भयमावहति यतः ॥

यद्यपि अनर्थमूलम् ‘ध्यायतो विषयान्पुंसः’ (भ. गी. २ । ६२) इति ‘रागद्वेषौ ह्यस्य परिपन्थिनौ’ (भ. गी. ३ । ३४) इति च उक्तम् , विक्षिप्तम् अनवधारितं च तदुक्तम् । तत् सङ्क्षिप्तं निश्चितं च इदमेवेति ज्ञातुमिच्छन् अर्जुनः उवाच ‘ज्ञाते हि तस्मिन् तदुच्छेदाय यत्नं कुर्याम्’ इति ॥ ३५ ॥

३६36

अर्जुन उवाच —

अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः ।  
अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः ॥ ३६ ॥
arjuna uvāca —

atha kena prayukto'yaṃ pāpaṃ carati pūruṣaḥ |  
anicchannapi vārṣṇeya balādiva niyojitaḥ || 36 ||

अथ केन हेतुभूतेन प्रयुक्तः सन् राज्ञेव भृत्यः अयं पापं कर्म चरति आचरति पूरुषः पुरुषः स्वयम् अनिच्छन् अपि हे वार्ष्णेय वृष्णिकुलप्रसूत, बलात् इव नियोजितः राज्ञेव इत्युक्तो दृष्टान्तः ॥

शृणु त्वं तं वैरिणं सर्वानर्थकरं यं त्वं पृच्छसि इति भगवान् उवाच — ॥ ३६ ॥

३७37

श्रीभगवानुवाच —

काम एष क्रोध एष रजोगुणसमुद्भवः ।  
महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् ॥ ३७ ॥
śrībhagavānuvāca —

kāma eṣa krodha eṣa rajoguṇasamudbhavaḥ |  
mahāśano mahāpāpmā viddhyenamiha vairiṇam || 37 ||

‘ऐश्वर्यस्य समग्रस्य धर्मस्य यशसः श्रियः । वैराग्यस्याथ मोक्षस्य षण्णां भग इतीङ्गना’ (वि. पु. ६ । ५ । ७४) ऐश्वर्यादिषट्कं यस्मिन् वासुदेवे नित्यमप्रतिबद्धत्वेन सामस्त्येन च वर्तते, ‘उत्पत्तिं प्रलयं चैव भूतानामागतिं गतिम् । वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति’ (वि. पु. ६ । ५ । ७८) उत्पत्त्यादिविषयं च विज्ञानं यस्य स वासुदेवः वाच्यः भगवान् इति ॥

काम एषः सर्वलोकशत्रुः यन्निमित्ता सर्वानर्थप्राप्तिः प्राणिनाम् । स एष कामः प्रतिहतः केनचित् क्रोधत्वेन परिणमते । अतः क्रोधः अपि एष एव रजोगुणसमुद्भवः रजश्च तत् गुणश्च रजोगुणः सः समुद्भवः यस्य सः कामः रजोगुणसमुद्भवः, रजोगुणस्य वा समुद्भवः । कामो हि उद्भूतः रजः प्रवर्तयन् पुरुषं प्रवर्तयति ; ‘तृष्णया हि अहं कारितः’ इति दुःखिनां रजःकार्ये सेवादौ प्रवृत्तानां प्रलापः श्रूयते । महाशनः महत् अशनं अस्येति महाशनः ; अत एव महापाप्मा ; कामेन हि प्रेरितः जन्तुः पापं करोति । अतः विद्धि एनं कामम् इह संसारे वैरिणम् ॥ ३७ ॥

३८38

धूमेनाव्रियते वह्निर्यथादर्शो मलेन च ।  
यथोल्बेनावृतो गर्भस्तथा तेनेदमावृतम् ॥ ३८ ॥
dhūmenāvriyate vahniryathādarśo malena ca |  
yatholbenāvṛto garbhastathā tenedamāvṛtam || 38 ||

धूमेन सहजेन आव्रियते वह्निः प्रकाशात्मकः अप्रकाशात्मकेन, यथा वा आदर्शो मलेन च, यथा उल्बेन च जरायुणा गर्भवेष्टनेन आवृतः आच्छादितः गर्भः तथा तेन इदम् आवृतम् ॥ ३८ ॥

३९39

आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा ।  
कामरूपेण कौन्तेय दुष्पूरेणानलेन च ॥ ३९ ॥
āvṛtaṃ jñānametena jñānino nityavairiṇā |  
kāmarūpeṇa kaunteya duṣpūreṇānalena ca || 39 ||

आवृतम् एतेन ज्ञानं ज्ञानिनः नित्यवैरिणा, ज्ञानी हि जानाति ‘अनेन अहमनर्थे प्रयुक्तः’ इति पूर्वमेव । दुःखी च भवति नित्यमेव । अतः असौ ज्ञानिनो नित्यवैरी, न तु मूर्खस्य । स हि कामं तृष्णाकाले मित्रमिव पश्यन् तत्कार्ये दुःखे प्राप्ते जानाति

‘तृष्णया अहं दुःखित्वमापादितः’ इति, न पूर्वमेव । अतः ज्ञानिन एव नित्यवैरी । किंरूपेण ? कामरूपेण कामः इच्छैव रूपमस्य इति कामरूपः तेन दुष्पूरेण दुःखेन पूरणमस्य इति दुष्पूरः तेन अनलेन न अस्य अलं पर्याप्तिः विद्यते इत्यनलः तेन च ॥ ३९ ॥

४०40

इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते ।  
एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम् ॥ ४० ॥
indriyāṇi mano buddhirasyādhiṣṭhānamucyate |  
etairvimohayatyeṣa jñānamāvṛtya dehinam || 40 ||

इन्द्रियाणि मनः बुद्धिश्च अस्य कामस्य अधिष्ठानम् आश्रयः उच्यते । एतैः इन्द्रियादिभिः आश्रयैः विमोहयति विविधं मोहयति एष कामः ज्ञानम् आवृत्य आच्छाद्य देहिनं शरीरिणम् ॥ ४० ॥

४१41

तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ ।  
पाप्मानं प्रजहिह्येनं ज्ञानविज्ञाननाशनम् ॥ ४१ ॥
tasmāttvamindriyāṇyādau niyamya bharatarṣabha |  
pāpmānaṃ prajahihyenaṃ jñānavijñānanāśanam || 41 ||

तस्मात् त्वम् इन्द्रियाणि आदौ पूर्वमेव नियम्य वशीकृत्य भरतर्षभ पाप्मानं पापाचारं कामं प्रजहिहि परित्यज एनं प्रकृतं वैरिणं ज्ञानविज्ञाननाशनं ज्ञानं शास्त्रतः आचार्यतश्च आत्मादीनाम् अवबोधः, विज्ञानं विशेषतः तदनुभवः, तयोः ज्ञानविज्ञानयोः श्रेयःप्राप्तिहेत्वोः नाशनं नाशकरं प्रजहिहि आत्मनः परित्यजेत्यर्थः ॥ ४१ ॥

४२42

इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः ।  
मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः ॥ ४२ ॥
indriyāṇi parāṇyāhurindriyebhyaḥ paraṃ manaḥ |  
manasastu parā buddhiryo buddheḥ paratastu saḥ || 42 ||

इन्द्रियाणि श्रोत्रादीनि पञ्च देहं स्थूलं बाह्यं परिच्छिन्नं च अपेक्ष्य सौक्ष्म्यान्तरत्वव्यापित्वाद्यपेक्षया पराणि प्रकृष्टानि आहुः पण्डिताः । तथा इन्द्रियेभ्यः परं मनः सङ्कल्पविकल्पात्मकम् । तथा मनसः तु परा बुद्धिः निश्चयात्मिका । तथा यः सर्वदृश्येभ्यः बुद्ध्यन्तेभ्यः आभ्यन्तरः, यं देहिनम् इन्द्रियादिभिः आश्रयैः युक्तः कामः ज्ञानावरणद्वारेण मोहयति इत्युक्तम् । बुद्धेः परतस्तु सः, सः बुद्धेः द्रष्टा पर आत्मा ॥ ४२ ॥

४३43

एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना ।  
जहि शत्रुं महाबाहो कामरूपं दुरासदम् ॥ ४३ ॥
evaṃ buddheḥ paraṃ buddhvā saṃstabhyātmānamātmanā |  
jahi śatruṃ mahābāho kāmarūpaṃ durāsadam || 43 ||

एवं बुद्धेः परम् आत्मानं बुद्ध्वा ज्ञात्वा संस्तभ्य सम्यक् स्तम्भनं कृत्वा आत्मानं स्वेनैव आत्मना संस्कृतेन मनसा सम्यक् समाधायेत्यर्थः । जहि एनं शत्रुं हे महाबाहो कामरूपं दुरासदं दुःखेन आसदः आसादनं प्राप्तिः यस्य तं दुरासदं दुर्विज्ञेयानेकविशेषमिति ॥ ४३ ॥


इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छङ्करभगवतः कृतौ श्रीमद्भगवद्गीताभाष्ये तृतीयोऽध्यायः ॥
iti śrīmatparamahaṃsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya
śrīmacchaṅkarabhagavataḥ kṛtau śrīmadbhagavadgītābhāṣye tṛtīyo'dhyāyaḥ ||