द्वितीयोऽध्यायः
१1
सञ्जय उवाच —
तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् ।
विषीदन्तमिदं वाक्यमुवाच मधुसूदनः ॥ १ ॥
sañjaya uvāca —
taṃ tathā kṛpayāviṣṭamaśrupūrṇākulekṣaṇam |
viṣīdantamidaṃ vākyamuvāca madhusūdanaḥ || 1 ||
२2
श्रीभगवानुवाच —
कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् ।
अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन ॥ २ ॥
śrībhagavānuvāca —
kutastvā kaśmalamidaṃ viṣame samupasthitam |
anāryajuṣṭamasvargyamakīrtikaramarjuna || 2 ||
३3
क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते ।
क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप ॥ ३ ॥
klaibyaṃ mā sma gamaḥ pārtha naitattvayyupapadyate |
kṣudraṃ hṛdayadaurbalyaṃ tyaktvottiṣṭha parantapa || 3 ||
४4
अर्जुन उवाच —
कथं भीष्ममहं सङ्ख्ये द्रोणं च मधुसूदन ।
इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन ॥ ४ ॥
arjuna uvāca —
kathaṃ bhīṣmamahaṃ saṅkhye droṇaṃ ca madhusūdana |
iṣubhiḥ pratiyotsyāmi pūjārhāvarisūdana || 4 ||
५5
गुरूनहत्वा हि महानुभावान् श्रेयो भोक्तुं भैक्षमपीह लोके ।
हत्वार्थकामांस्तु गुरूनिहैव भुञ्जीय भोगान्रुधिरप्रदिग्धान् ॥ ५ ॥
gurūnahatvā hi mahānubhāvān śreyo bhoktuṃ bhaikṣamapīha loke |
hatvārthakāmāṃstu gurūnihaiva bhuñjīya bhogānrudhirapradigdhān || 5 ||
६6
न चैतद्विद्मः कतरन्नो गरीयो यद्वा जयेम यदि वा नो जयेयुः ।
यानेव हत्वा न जिजीविषामस्तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः ॥ ६ ॥
na caitadvidmaḥ kataranno garīyo yadvā jayema yadi vā no jayeyuḥ |
yāneva hatvā na jijīviṣāmaste'vasthitāḥ pramukhe dhārtarāṣṭrāḥ || 6 ||
७7
कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वां धर्मसम्मूढचेताः ।
यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ॥ ७ ॥
kārpaṇyadoṣopahatasvabhāvaḥ pṛcchāmi tvāṃ dharmasammūḍhacetāḥ |
yacchreyaḥ syānniścitaṃ brūhi tanme śiṣyaste'haṃ śādhi māṃ tvāṃ prapannam || 7 ||
८8
न हि प्रपश्यामि ममापनुद्याद्यच्छोकमुच्छोषणमिन्द्रियाणाम् ।
अवाप्य भूमावसपत्नमृद्धं राज्यं सुराणामपि चाधिपत्यम् ॥ ८ ॥
na hi prapaśyāmi mamāpanudyādyacchokamucchoṣaṇamindriyāṇām |
avāpya bhūmāvasapatnamṛddhaṃ rājyaṃ surāṇāmapi cādhipatyam || 8 ||
९9
सञ्जय उवाच —
एवमुक्त्वा हृषीकेशं गुडाकेशः परन्तपः ।
न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह ॥ ९ ॥
sañjaya uvāca —
evamuktvā hṛṣīkeśaṃ guḍākeśaḥ parantapaḥ |
na yotsya iti govindamuktvā tūṣṇīṃ babhūva ha || 9 ||
१०10
तमुवाच हृषीकेशः प्रहसन्निव भारत ।
सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः ॥ १० ॥
tamuvāca hṛṣīkeśaḥ prahasanniva bhārata |
senayorubhayormadhye viṣīdantamidaṃ vacaḥ || 10 ||
अत्र ‘दृष्ट्वा तु पाण्डवानीकम्’ (भ. गी. १ । २) इत्यारभ्य यावत् ‘न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह’ (भ. गी. २ । ९) इत्येतदन्तः प्राणिनां शोकमोहादिसंसारबीजभूतदोषोद्भवकारणप्रदर्शनार्थत्वेन व्याख्येयो ग्रन्थः । तथाहि — अर्जुनेन राज्यगुरुपुत्रमित्रसुहृत्स्वजनसम्बन्धिबान्धवेषु ‘अहमेतेषाम्’ ‘ममैते’ इत्येवम्प्रत्ययनिमित्तस्नेहविच्छेदादिनिमित्तौ आत्मनः शोकमोहौ प्रदर्शितौ ‘कथं भीष्ममहं सङ्ख्ये’ (भ. गी. २ । ४) इत्यादिना । शोकमोहाभ्यां ह्यभिभूतविवेकविज्ञानः स्वत एव क्षत्रधर्मे युद्धे प्रवृत्तोऽपि तस्माद्युद्धादुपरराम ; परधर्मं च भिक्षाजीवनादिकं कर्तुं प्रववृते । तथा च सर्वप्राणिनां शोकमोहादिदोषाविष्टचेतसां स्वभावत एव स्वधर्मपरित्यागः प्रतिषिद्धसेवा च स्यात् । स्वधर्मे प्रवृत्तानामपि तेषां वाङ्मनःकायादीनां प्रवृत्तिः फलाभिसन्धिपूर्विकैव साहङ्कारा च भवति । तत्रैवं सति धर्माधर्मोपचयात् इष्टानिष्टजन्मसुखदुःख़ादिप्राप्तिलक्षणः संसारः अनुपरतो भवति । इत्यतः संसारबीजभूतौ शोकमोहौ तयोश्च सर्वकर्मसन्न्यासपूर्वकादात्मज्ञानात् नान्यतो निवृत्तिरिति तदुपदिदिक्षुः सर्वलोकानुग्रहार्थम् अर्जुनं निमित्तीकृत्य आह भगवान्वासुदेवः — ‘अशोच्यान्’ (भ. गी. २ । ११) इत्यादि ॥
अत्र केचिदाहुः — सर्वकर्मसन्न्यासपूर्वकादात्मज्ञाननिष्ठामात्रादेव केवलात् कैवल्यं न प्राप्यत एव । किं तर्हि ? अग्निहोत्रादिश्रौतस्मार्तकर्मसहितात् ज्ञानात् कैवल्यप्राप्तिरिति सर्वासु गीतासु निश्चितोऽर्थ इति । ज्ञापकं च आहुरस्यार्थस्य — ‘अथ चेत्त्वमिमं धर्म्यं सङ्ग्रामं न करिष्यसि’ (भ. गी. २ । ३३) ‘कर्मण्येवाधिकारस्ते’ (भ. गी. २ । ४७) ‘कुरु कर्मैव तस्मात्त्वम्’ (भ. गी. ४ । १५) इत्यादि । हिंसादियुक्तत्वात् वैदिकं कर्म अधर्माय इतीयमप्याशङ्का न कार्या । कथम् ? क्षात्रं कर्म युद्धलक्षणं गुरुभ्रातृपुत्रादिहिंसालक्षणमत्यन्तं क्रूरमपि स्वधर्म इति कृत्वा न अधर्माय ; तदकरणे च ‘ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि’ (भ. गी. २ । ३३) इति ब्रुवता यावज्जीवादिश्रुतिचोदितानां पश्वादिहिंसालक्षणानां च कर्मणां प्रागेव नाधर्मत्वमिति सुनिश्चितमुक्तं भवति — इति ॥
तदसत् ; ज्ञानकर्मनिष्ठयोर्विभागवचनाद्बुद्धिद्वयाश्रययोः । ‘अशोच्यान्’ (भ. गी. २ । ११) इत्यादिना भगवता यावत् ‘स्वधर्ममपि चावेक्ष्य’ (भ. गी. २ । ३१) इत्येतदन्तेन ग्रन्थेन यत्परमार्थात्मतत्त्वनिरूपणं कृतम् , तत्साङ्ख्यम् । तद्विषया बुद्धिः आत्मनो जन्मादिषड्विक्रियाभावादकर्ता आत्मेति प्रकरणार्थनिरूपणात् या जायते, सा साङ्ख्या बुद्धिः । सा येषां ज्ञानिनामुचिता भवति, ते साङ्ख्याः । एतस्या बुद्धेः जन्मनः प्राक् आत्मनो देहादिव्यतिरिक्तत्वकर्तृत्वभोक्तृत्वाद्यपेक्षो धर्माधर्मविवेकपूर्वको मोक्षसाधनानुष्ठानलक्षणो योगः । तद्विषया बुद्धिः योगबुद्धिः । सा येषां कर्मिणामुचिता भवति ते योगिनः । तथा च भगवता विभक्ते द्वे बुद्धी निर्दिष्टे ‘एषा तेऽभिहिता साङ्ख्ये बुद्धिर्योगे त्विमां शृणु’ (भ. गी. २ । ३९) इति । तयोश्च साङ्ख्यबुद्ध्याश्रयां ज्ञानयोगेन निष्ठां साङ्ख्यानां विभक्तां वक्ष्यति ‘पुरा वेदात्मना मया प्रोक्ता’ (भ. गी. ३ । ३) इति । तथा च योगबुद्ध्याश्रयां कर्मयोगेन निष्ठां विभक्तां वक्ष्यति — ‘कर्मयोगेन योगिनाम्’ इति । एवं साङ्ख्यबुद्धिं योगबुद्धिं च आश्रित्य द्वे निष्ठे विभक्ते भगवतैव उक्ते ज्ञानकर्मणोः कर्तृत्वाकर्तृत्वैकत्वानेकत्वबुद्ध्याश्रययोः युगपदेकपुरुषाश्रयत्वासम्भवं पश्यता । यथा एतद्विभागवचनम् , तथैव दर्शितं शातपथीये ब्राह्मणे — ‘एतमेव प्रव्राजिनो लोकमिच्छन्तो ब्राह्मणाः प्रव्रजन्ति’ इति सर्वकर्मसन्न्यासं विधाय तच्छेषेण ‘किं प्रजया करिष्यामो येषां नोऽयमात्मायं लोकः’ (बृ. उ. ४ । ४ । २२) इति । तत्र च प्राक् दारपरिग्रहात् पुरुषः आत्मा प्राकृतो धर्मजिज्ञासोत्तरकालं लोकत्रयसाधनम् — पुत्रम् , द्विप्रकारं च वित्तं मानुषं दैवं च ; तत्र मानुषं कर्मरूपं पितृलोकप्राप्तिसाधनं विद्यां च दैवं वित्तं देवलोकप्राप्तिसाधनम् — ‘सोऽकामयत’ (बृ. उ. १ । ४ । १७) इति अविद्याकामवत एव सर्वाणि कर्माणि श्रौतादीनि दर्शितानि । तेभ्यः ‘व्युत्थाय, प्रव्रजन्ति’ इति व्युत्थानमात्मानमेव लोकमिच्छतोऽकामस्य विहितम् । तदेतद्विभागवचनमनुपपन्नं स्याद्यदि श्रौतकर्मज्ञानयोः समुच्चयोऽभिप्रेतः स्याद्भगवतः ॥
न च अर्जुनस्य प्रश्न उपपन्नो भवति ‘ज्यायसी चेत्कर्मणस्ते’ (भ. गी. ३ । १) इत्यादिः । एकपुरुषानुष्ठेयत्वासम्भवं बुद्धिकर्मणोः भगवता पूर्वमनुक्तं कथमर्जुनः अश्रुतं बुद्धेश्च कर्मणो ज्यायस्त्वं भगवत्यध्यारोपयेन्मृषैव ‘ज्यायसी चेत्कर्मणस्ते मता बुद्धिः’ (भ. गी. ३ । १) इति ॥
किञ्च — यदि बुद्धिकर्मणोः सर्वेषां समुच्चय उक्तः स्यात् अर्जुनस्यापि स उक्त एवेति, ‘यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम्’ (भ. गी. ५ । १) इति कथमुभयोरुपदेशे सति अन्यतरविषय एव प्रश्नः स्यात् ? न हि पित्तप्रशमनार्थिनः वैद्येन मधुरं शीतलं च भोक्तव्यम् इत्युपदिष्टे तयोरन्यतरत्पित्तप्रशमनकारणं ब्रूहि इति प्रश्नः सम्भवति ॥
अथ अर्जुनस्य भगवदुक्तवचनार्थविवेकानवधारणनिमित्तः प्रश्नः कल्प्येत, तथापि भगवता प्रश्नानुरूपं प्रतिवचनं देयम् — मया बुद्धिकर्मणोः समुच्चय उक्तः, किमर्थमित्थं त्वं भ्रान्तोऽसि — इति । न तु पुनः प्रतिवचनमननुरूपं पृष्टादन्यदेव ‘द्वे निष्ठे मया पुरा प्रोक्ते’ (भ. गी. ३ । ३) इति वक्तुं युक्तम् ॥
नापि स्मार्तेनैव कर्मणा बुद्धेः समुच्चये अभिप्रेते विभागवचनादि सर्वमुपपन्नम् । किञ्च — क्षत्रियस्य युद्धं स्मार्तं कर्म स्वधर्म इति जानतः ‘तत्किं कर्मणि घोरे मां नियोजयसि’ (भ. गी. ३ । १) इति उपालम्भोऽनुपपन्नः ॥
तस्माद्गीताशास्त्रे ईषन्मात्रेणापि श्रौतेन स्मार्तेन वा कर्मणा आत्मज्ञानस्य समुच्चयो न केनचिद्दर्शयितुं शक्यः । यस्य तु अज्ञानात् रागादिदोषतो वा कर्मणि प्रवृत्तस्य यज्ञेन दानेन तपसा वा विशुद्धसत्त्वस्य ज्ञानमुत्पन्नम्परमार्थतत्त्वविषयम् ‘एकमेवेदं सर्वं ब्रह्म अकर्तृ च’ इति, तस्य कर्मणि कर्मप्रयोजने च निवृत्तेऽपि लोकसङ्ग्रहार्थं यत्नपूर्वं यथा प्रवृत्तिः, तथैव प्रवृत्तस्य यत्प्रवृत्तिरूपं दृश्यते न तत्कर्म येन बुद्धेः समुच्चयः स्यात् ; यथा भगवतो वासुदेवस्य क्षत्रधर्मचेष्टितं न ज्ञानेन समुच्चीयते पुरुषार्थसिद्धये, तद्वत् तत्फलाभिसन्ध्यहङ्काराभावस्य तुल्यत्वाद्विदुषः । तत्त्वविन्नाहं करोमीति मन्यते, न च तत्फलमभिसन्धत्ते । यथा च स्वर्गादिकामार्थिनः अग्निहोत्रादिकर्मलक्षणधर्मानुष्ठानाय आहिताग्नेः काम्ये एव अग्निहोत्रादौ प्रवृत्तस्य सामि कृते विनष्टेऽपि कामे तदेव अग्निहोत्राद्यनुतिष्ठतोऽपि न तत्काम्यमग्निहोत्रादि भवति । तथा च दर्शयति भगवान् — ‘कुर्वन्नपि न लिप्यते’ (भ. गी. ५ । ७) ‘न करोति न लिप्यते’ (भ. गी. १३ । ३१) इति तत्र तत्र ॥
यच्च ‘पूर्वैः पूर्वतरं कृतम्’ (भ. गी. ४ । १५) ‘कर्मणैव हि संसिद्धिमास्थिता जनकादयः’ (भ. गी. ३ । २०) इति, तत्तु प्रविभज्य विज्ञेयम् । तत्कथम् ? यदि तावत् पूर्वे जनकादयः तत्त्वविदोऽपि प्रवृत्तकर्माणः स्युः, ते लोकसङ्ग्रहार्थम् ‘गुणा गुणेषु वर्तन्ते’ (भ. गी. ३ । २८) इति ज्ञानेनैव संसिद्धिमास्थिताः, कर्मसन्न्यासे प्राप्तेऽपि कर्मणा सहैव संसिद्धिमास्थिताः, न कर्मसन्न्यासं कृतवन्त इत्यर्थः । अथ न ते तत्त्वविदः ; ईश्वरसमर्पितेन कर्मणा साधनभूतेन संसिद्धिं सत्त्वशुद्धिम् , ज्ञानोत्पत्तिलक्षणां वा संसिद्धिम् , आस्थिता जनकादय इति व्याख्येयम् । एवमेवार्थं वक्ष्यति भगवान् ‘सत्त्वशुद्धये कर्म कुर्वन्ति’ (भ. गी. ५ । ११) इति । ‘स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः’ (भ. गी. १८ । ४६) इत्युक्त्वा सिद्धिं प्राप्तस्य पुनर्ज्ञाननिष्ठां वक्ष्यति — ‘सिद्धिं प्राप्तो यथा ब्रह्म’ (भ. गी. १८ । ५०) इत्यादिना ॥
तस्माद्गीताशास्त्रे केवलादेव तत्त्वज्ञानान्मोक्षप्राप्तिः न कर्मसमुच्चितात् , इति निश्चितोऽर्थः । यथा चायमर्थः, तथा प्रकरणशो विभज्य तत्र तत्र दर्शयिष्यामः ॥
तत्रैवं धर्मसम्मूढचेतसो मिथ्याज्ञानवतो महति शोकसागरे निमग्नस्य अर्जुनस्य अन्यत्रात्मज्ञानादुद्धरणमपश्यन् भगवान्वासुदेवः ततः कृपया अर्जुनमुद्दिधारयिषुः आत्मज्ञानायावतारयन्नाह —
श्रीभगवानुवाच —
अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे ।
गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः
११11
श्रीभगवानुवाच —
अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे ।
गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः ॥ ११ ॥
śrībhagavānuvāca —
aśocyānanvaśocastvaṃ prajñāvādāṃśca bhāṣase |
gatāsūnagatāsūṃśca nānuśocanti paṇḍitāḥ || 11 ||
अशोच्यान् इत्यादि । न शोच्या अशोच्याः भीष्मद्रोणादयः, सद्वृत्तत्वात् परमार्थस्वरूपेण च नित्यत्वात् , तान् अशोच्यान् अन्वशोचः अनुशोचितवानसि ‘ते म्रियन्ते मन्निमित्तम् , अहं तैर्विनाभूतः किं करिष्यामि राज्यसुखादिना’ इति । त्वं प्रज्ञावादान् प्रज्ञावतां बुद्धिमतां वादांश्च वचनानि च भाषसे | तदेतत् मौढ्यं पाण्डित्यं च विरुद्धम् आत्मनि दर्शयसि उन्मत्त इव इत्यभिप्रायः । यस्मात् गतासून् गतप्राणान् मृतान् , अगतासून् अगतप्राणान् जीवतश्च न अनुशोचन्ति पण्डिताः आत्मज्ञाः । पण्डा आत्मविषया बुद्धिः येषां ते हि पण्डिताः, ‘पाण्डित्यं निर्विद्य’ (बृ. उ. ३ । ५ । १) इति श्रुतेः । परमार्थतस्तु तान् नित्यान् अशोच्यान् अनुशोचसि, अतो मूढोऽसि इत्यभिप्रायः ॥ ११ ॥
१२12
न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः ।
न चैव न भविष्यामः सर्वे वयमतः परम् ॥ १२ ॥
na tvevāhaṃ jātu nāsaṃ na tvaṃ neme janādhipāḥ |
na caiva na bhaviṣyāmaḥ sarve vayamataḥ param || 12 ||
न तु एव जातु कदाचित् अहं नासम् , किं तु आसमेव । अतीतेषु देहोत्पत्तिविनाशेषु घटादिषु वियदिव नित्य एव अहमासमित्यभिप्रायः । तथा न त्वं न आसीः, किं तु आसीरेव । तथा न इमे जनाधिपाः न आसन् , किं तु आसन्नेव । तथा न च एव न भविष्यामः, किं तु भविष्याम एव, सर्वे वयम् अतः अस्मात् देहविनाशात् परम् उत्तरकाले अपि । त्रिष्वपि कालेषु नित्या आत्मस्वरूपेण इत्यर्थः । देहभेदानुवृत्त्या बहुवचनम् , नात्मभेदाभिप्रायेण ॥ १२ ॥
१३13
देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा ।
तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति ॥ १३ ॥
dehino'sminyathā dehe kaumāraṃ yauvanaṃ jarā |
tathā dehāntaraprāptirdhīrastatra na muhyati || 13 ||
देहः अस्य अस्तीति देही, तस्य देहिनो देहवतः आत्मनः अस्मिन् वर्तमाने देहे यथा येन प्रकारेण कौमारं कुमारभावो बाल्यावस्था, यौवनं यूनो भावो मध्यमावस्था, जरा वयोहानिः जीर्णावस्था, इत्येताः तिस्रः अवस्थाः अन्योन्यविलक्षणाः । तासां प्रथमावस्थानाशे न नाशः, द्वितीयावस्थोपजने न उपजन आत्मनः । किं तर्हि ? अविक्रियस्यैव द्वितीयतृतीयावस्थाप्राप्तिः आत्मनो दृष्टा । तथा तद्वदेव देहात् अन्यो देहो देहान्तरम् , तस्य प्राप्तिः देहान्तरप्राप्तिः अविक्रियस्यैव आत्मनः इत्यर्थः । धीरो धीमान् , तत्र एवं सति न मुह्यति न मोहमापद्यते ॥ १३ ॥
१४14
मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः ।
आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत ॥ १४ ॥
mātrāsparśāstu kaunteya śītoṣṇasukhaduḥkhadāḥ |
āgamāpāyino'nityāstāṃstitikṣasva bhārata || 14 ||
मात्राः आभिः मीयन्ते शब्दादय इति श्रोत्रादीनि इन्द्रियाणि । मात्राणां स्पर्शाः शब्दादिभिः संयोगाः । ते शीतोष्णसुखदुःखदाः शीतम् उष्णं सुखं दुःखं च प्रयच्छन्तीति । अथवा स्पृश्यन्त इति स्पर्शाः विषयाः शब्दादयः । मात्राश्च स्पर्शाश्च शीतोष्णसुखदुःखदाः । शीतं कदाचित् सुखं कदाचित् दुःखम् । तथा उष्णमपि अनियतस्वरूपम् । सुखदुःखे पुनः नियतरूपे यतो न व्यभिचरतः । अतः ताभ्यां पृथक् शीतोष्णयोः ग्रहणम् । यस्मात् ते मात्रास्पर्शादयः आगमापायिनः आगमापायशीलाः तस्मात् अनित्याः । अतः तान् शीतोष्णादीन् तितिक्षस्व प्रसहस्व । तेषु हर्षं विषादं वा मा कार्षीः इत्यर्थः ॥ १४ ॥
१५15
यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ ।
समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते ॥ १५ ॥
yaṃ hi na vyathayantyete puruṣaṃ puruṣarṣabha |
samaduḥkhasukhaṃ dhīraṃ so'mṛtatvāya kalpate || 15 ||
यं हि पुरुषं समे दुःखसुखे यस्य तं समदुःखसुखं सुखदुःखप्राप्तौ हर्षविषादरहितं धीरं धीमन्तं न व्यथयन्ति न चालयन्ति नित्यात्मदर्शनात् एते यथोक्ताः शीतोष्णादयः, सः नित्यात्मस्वरूपदर्शननिष्ठो द्वन्द्वसहिष्णुः अमृतत्वाय अमृतभावाय मोक्षायेत्यर्थः, कल्पते समर्थो भवति ॥ १५ ॥
१६16
नासतो विद्यते भावो नाभावो विद्यते सतः ।
उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ॥ १६ ॥
nāsato vidyate bhāvo nābhāvo vidyate sataḥ |
ubhayorapi dṛṣṭo'ntastvanayostattvadarśibhiḥ || 16 ||
न असतः अविद्यमानस्य शीतोष्णादेः सकारणस्य न विद्यते नास्ति भावो भवनम् अस्तिता ॥
न हि शीतोष्णादि सकारणं प्रमाणैर्निरूप्यमाणं वस्तुसद्भवति । विकारो हि सः, विकारश्च व्यभिचरति । यथा घटादिसंस्थानं चक्षुषा निरूप्यमाणं मृद्व्यतिरेकेणानुपलब्धेरसत् , तथा सर्वो विकारः कारणव्यतिरेकेणानुपलब्धेरसन् । जन्मप्रध्वंसाभ्यां प्रागूर्ध्वं च अनुपलब्धेः कार्यस्य घटादेः मृदादिकारणस्य च तत्कारणव्यतिरेकेणानुपलब्धेरसत्त्वम् ॥
तदसत्त्वे सर्वाभावप्रसङ्ग इति चेत् , न ; सर्वत्र बुद्धिद्वयोपलब्धेः, सद्बुद्धिरसद्बुद्धिरिति । यद्विषया बुद्धिर्न व्यभिचरति, तत् सत् ; यद्विषया व्यभिचरति, तदसत् ; इति सदसद्विभागे बुद्धितन्त्रे स्थिते, सर्वत्र द्वे बुद्धी सर्वैरुपलभ्येते समानाधिकरणे न नीलोत्पलवत् , सन् घटः, सन् पटः, सन् हस्ती इति । एवं सर्वत्र तयोर्बुद्ध्योः घटादिबुद्धिः व्यभिचरति । तथा च दर्शितम् । न तु सद्बुद्धिः । तस्मात् घटादिबुद्धिविषयः असन् , व्यभिचारात् ; न तु सद्बुद्धिविषयः, अव्यभिचारात् ॥
घटे विनष्टे घटबुद्दौ व्यभिचरन्त्यां सद्बुद्धिरपि व्यभिचरतीति चेत् , न ; पटादावपि सद्बुद्धिदर्शनात् । विशेषणविषयैव सा सद्बुद्धिः ॥
सद्बुद्धिवत् घटबुद्धिरपि घटान्तरे दृश्यत इति चेत् , न ; पटादौ अदर्शनात् ॥
सद्बुद्धिरपि नष्टे घटे न दृश्यत इति चेत् , न ; विशेष्याभावात् सद्बुद्धिः विशेषणविषया सती विशेष्याभावे विशेषणानुपपत्तौ किंविषया स्यात् ? न तु पुनः सद्बुद्धेः विषयाभावात् ॥
एकाधिकरणत्वं घटादिविशेष्याभावे न युक्तमिति चेत् , न ; ‘इदमुदकम्’ इति मरीच्यादौ अन्यतराभावेऽपि सामानाधिकरण्यदर्शनात् ॥
तस्माद्देहादेः द्वन्द्वस्य च सकारणस्य असतो न विद्यते भाव इति । तथा सतश्च आत्मनः अभावः अविद्यमानता न विद्यते, सर्वत्र अव्यभिचारात् इति अवोचाम ॥
एवम् आत्मानात्मनोः सदसतोः उभयोरपि दृष्टः उपलब्धः अन्तो निर्णयः सत् सदेव असत् असदेवेति, तु अनयोः यथोक्तयोः तत्त्वदर्शिभिः । तदिति सर्वनाम, सर्वं च ब्रह्म, तस्य नाम तदिति, तद्भावः तत्त्वम् , ब्रह्मणो याथात्म्यम् । तत् द्रष्टुं शीलं येषां ते तत्त्वदर्शिनः, तैः तत्त्वदर्शिभिः । त्वमपि तत्त्वदर्शिनां दृष्टिमाश्रित्य शोकं मोहं च हित्वा शीतोष्णादीनि नियतानियतरूपाणि द्वन्द्वानि ‘विकारोऽयमसन्नेव मरीचिजलवन्मिथ्यावभासते’ इति मनसि निश्चित्य तितिक्षस्व इत्यभिप्रायः ॥ १६ ॥
१७17
अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् ।
विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति ॥ १७ ॥
avināśi tu tadviddhi yena sarvamidaṃ tatam |
vināśamavyayasyāsya na kaścitkartumarhati || 17 ||
अविनाशि न विनष्टुं शीलं यस्येति । तुशब्दः असतो विशेषणार्थः । तत् विद्धि विजानीहि । किम् ? येन सर्वम् इदं जगत् ततं व्याप्तं सदाख्येन ब्रह्मणा साकाशम् , आकाशेनेव घटादयः । विनाशम् अदर्शनम् अभावम् । अव्ययस्य न व्येति उपचयापचयौ न याति इति अव्ययं तस्य अव्ययस्य । नैतत् सदाख्यं ब्रह्म स्वेन रूपेण व्येति व्यभिचरति, निरवयवत्वात् , देहादिवत् । नाप्यात्मीयेन, आत्मीयाभावात् । यथा देवदत्तो धनहान्या व्येति, न तु एवं ब्रह्म व्येति । अतः अव्ययस्य अस्य ब्रह्मणः विनाशं न कश्चित् कर्तुमर्हति, न कश्चित् आत्मानं विनाशयितुं शक्नोति ईश्वरोऽपि । आत्मा हि ब्रह्म, स्वात्मनि च क्रियाविरोधात् ॥ १७ ॥
१८18
अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः ।
अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत ॥ १८ ॥
antavanta ime dehā nityasyoktāḥ śarīriṇaḥ |
anāśino'prameyasya tasmādyudhyasva bhārata || 18 ||
अन्तः विनाशः विद्यते येषां ते अन्तवन्तः । यथा मृगतृष्णिकादौ सद्बुद्धिः अनुवृत्ता प्रमाणनिरूपणान्ते विच्छिद्यते, स तस्य अन्तः ; तथा इमे देहाः स्वप्नमायादेहादिवच्च अन्तवन्तः नित्यस्य शरीरिणः शरीरवतः अनाशिनः अप्रमेयस्य आत्मनः अन्तवन्त इति उक्ताः विवेकिभिरित्यर्थः । ‘नित्यस्य’ ‘अनाशिनः’ इति न पुनरुक्तम् ; नित्यत्वस्य द्विविधत्वात् लोके, नाशस्य च । यथा देहो भस्मीभूतः अदर्शनं गतो नष्ट उच्यते । विद्यमानोऽपि यथा अन्यथा परिणतो व्याध्यादियुक्तो जातो नष्ट उच्यते । तत्र ‘नित्यस्य’ ‘अनाशिनः’ इति द्विविधेनापि नाशेन असम्बन्धः अस्येत्यर्थः । अन्यथा पृथिव्यादिवदपि नित्यत्वं स्यात् आत्मनः ; तत् मा भूदिति ‘नित्यस्य’ ‘अनाशिनः’ इत्याह । अप्रमेयस्य न प्रमेयस्य प्रत्यक्षादिप्रमाणैः अपरिच्छेद्यस्येत्यर्थः ॥
ननु आगमेन आत्मा परिच्छिद्यते, प्रत्यक्षादिना च पूर्वम् । न ; आत्मनः स्वतःसिद्धत्वात् । सिद्धे हि आत्मनि प्रमातरि प्रमित्सोः प्रमाणान्वेषणा भवति । न हि पूर्वम् ‘इत्थमहम्’ इति आत्मानमप्रमाय पश्चात् प्रमेयपरिच्छेदाय प्रवर्तते । न हि आत्मा नाम कस्यचित् अप्रसिद्धो भवति । शास्त्रं तु अन्त्यं प्रमाणम् अतद्धर्माध्यारोपणमात्रनिवर्तकत्वेन प्रमाणत्वम् आत्मनः प्रतिपद्यते, न तु अज्ञातार्थज्ञापकत्वेन । तथा च श्रुतिः — ‘यत्साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरः’ (बृ. उ. ३ । ५ । १) इति ॥
यस्मादेवं नित्यः अविक्रियश्च आत्मा तस्मात् युध्यस्व, युद्धात् उपरमं मा कार्षीः इत्यर्थः ॥
न हि अत्र युद्धकर्तव्यता विधीयते, युद्धे प्रवृत्त एव हि असौ शोकमोहप्रतिबद्धः तूष्णीमास्ते । अतः तस्य प्रतिबन्धापनयनमात्रं भगवता क्रियते । तस्मात् ‘युध्यस्व’ इति अनुवादमात्रम् , न विधिः ॥ १८ ॥
१९19
य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् ।
उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥ १९ ॥
ya enaṃ vetti hantāraṃ yaścainaṃ manyate hatam |
ubhau tau na vijānīto nāyaṃ hanti na hanyate || 19 ||
य एनं प्रकृतं देहिनं वेत्ति विजानाति हन्तारं हननक्रियायाः कर्तारं यश्च एनम् अन्यो मन्यते हतं देहहननेन ‘हतः अहम्’ इति हननक्रियायाः कर्मभूतम् , तौ उभौ न विजानीतः न ज्ञातवन्तौ अविवेकेन आत्मानम् । ‘हन्ता अहम्’ ‘हतः अस्मि अहम्’ इति देहहननेन आत्मानमहं प्रत्ययविषयं यौ विजानीतः तौ आत्मस्वरूपानभिज्ञौ इत्यर्थः । यस्मात् न अयम् आत्मा हन्ति न हननक्रियायाः कर्ता भवति, न च हन्यते न च कर्म भवतीत्यर्थः, अविक्रियत्वात् ॥ १९ ॥
२०20
न जायते म्रियते वा कदाचिन्नायं भूत्वाभविता वा न भूयः ।
अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥ २० ॥
na jāyate mriyate vā kadācinnāyaṃ bhūtvābhavitā vā na bhūyaḥ |
ajo nityaḥ śāśvato'yaṃ purāṇo na hanyate hanyamāne śarīre || 20 ||
न जायते न उत्पद्यते, जनिलक्षणा वस्तुविक्रिया न आत्मनो विद्यते इत्यर्थः । तथा न म्रियते वा । वाशब्दः चार्थे । न म्रियते च इति अन्त्या विनाशलक्षणा विक्रिया प्रतिषिध्यते । कदाचिच्छब्दः सर्वविक्रियाप्रतिषेधैः सम्बध्यते — न कदाचित् जायते, न कदाचित् म्रियते, इत्येवम् । यस्मात् अयम् आत्मा भूत्वा भवनक्रियामनुभूय पश्चात् अभविता अभावं गन्ता न भूयः पुनः, तस्मात् न म्रियते । योहि भूत्वा न भविता स म्रियत इत्युच्यते लोके । वाशब्दात् नशब्दाच्च अयमात्मा अभूत्वा वा भविता देहवत् न भूयः । तस्मात् न जायते । यो हि अभूत्वा भविता स जायत इत्युच्यते । नैवमात्मा । अतो न जायते । यस्मादेवं तस्मात् अजः, यस्मात् न म्रियते तस्मात् नित्यश्च । यद्यपि आद्यन्तयोर्विक्रिययोः प्रतिषेधे सर्वा विक्रियाः प्रतिषिद्धा भवन्ति, तथापि मध्यभाविनीनां विक्रियाणां स्वशब्दैरेव प्रतिषेधः कर्तव्यः अनुक्तानामपि यौवनादिसमस्तविक्रियाणां प्रतिषेधो यथा स्यात् इत्याह — शाश्वत इत्यादिना । शाश्वत इति अपक्षयलक्षणा विक्रिया प्रतिषिध्यते । शश्वद्भवः शाश्वतः । न अपक्षीयते स्वरूपेण, निरवयवत्वात् । नापि गुणक्षयेण अपक्षयः, निर्गुणत्वात् । अपक्षयविपरीतापि वृद्धिलक्षणा विक्रिया प्रतिषिध्यते — पुराण इति । यो हि अवयवागमेन उपचीयते स वर्धते अभिनव इति च उच्यते । अयं तु आत्मा निरवयवत्वात् पुरापि नव एवेति पुराणः ; न वर्धते इत्यर्थः । तथा न हन्यते । हन्ति ; अत्र विपरिणामार्थे द्रष्टव्यः अपुनरुक्ततायै । न विपरिणम्यते इत्यर्थः । हन्यमाने विपरिणम्यमानेऽपि शरीरे । अस्मिन् मन्त्रे षड् भावविकारा लौकिकवस्तुविक्रिया आत्मनि प्रतिषिध्यन्ते । सर्वप्रकारविक्रियारहित आत्मा इति वाक्यार्थः । यस्मादेवं तस्मात् ‘उभौ तौ न विजानीतः’ इति पूर्वेण मन्त्रेण अस्य सम्बन्धः ॥ २० ॥
२१21
वेदाविनाशिनं नित्यं य एनमजमव्ययम् ।
कथं स पुरुषः पार्थ कं घातयति हन्ति कम् ॥ २१ ॥
vedāvināśinaṃ nityaṃ ya enamajamavyayam |
kathaṃ sa puruṣaḥ pārtha kaṃ ghātayati hanti kam || 21 ||
वेद विजानाति अविनाशिनम् अन्त्यभावविकाररहितं नित्यं विपरिणामरहितं यो वेद इति सम्बन्धः । एनं पूर्वेण मन्त्रेणोक्तलक्षणम् अजं जन्मरहितम् अव्ययम् अपक्षयरहितं कथं केन प्रकारेण सः विद्वान् पुरुषः अधिकृतः हन्ति हननक्रियां करोति, कथं वा घातयति हन्तारं प्रयोजयति । न कथञ्चित् कञ्चित् हन्ति, न कथञ्चित् कञ्चित् घातयति इति उभयत्र आक्षेप एवार्थः, प्रश्नार्थासम्भवात् । हेत्वर्थस्य च अविक्रियत्वस्य तुल्यत्वात् विदुषः सर्वकर्मप्रतिषेध एव प्रकरणार्थः अभिप्रेतो भगवता । हन्तेस्तु आक्षेपः उदाहरणार्थत्वेन कथितः ॥
विदुषः कं कर्मासम्भवहेतुविशेषं पश्यन् कर्माण्याक्षिपति भगवान् ‘कथं स पुरुषः’ इति । ननु उक्त एवात्मनः अविक्रियत्वं सर्वकर्मासम्भवकारणविशेषः । सत्यमुक्तः । न तु सः कारणविशेषः, अन्यत्वात् विदुषः अविक्रियादात्मनः । न हि अविक्रियं स्थाणुं विदितवतः कर्म न सम्भवति इति चेत् , न ; विदुषः आत्मत्वात् । न देहादिसङ्घातस्य विद्वत्ता । अतः पारिशेष्यात् असंहतः आत्मा विद्वान् अविक्रियः इति तस्य विदुषः कर्मासम्भवात् आक्षेपो युक्तः ‘कथं स पुरुषः’ इति । यथा बुद्ध्याद्याहृतस्य शब्दाद्यर्थस्य अविक्रिय एव सन् बुद्धिवृत्त्यविवेकविज्ञानेन अविद्यया उपलब्धा आत्मा कल्प्यते, एवमेव आत्मानात्मविवेकज्ञानेन बुद्धिवृत्त्या विद्यया असत्यरूपयैव परमार्थतः अविक्रिय एव आत्मा विद्वानुच्यते । विदुषः कर्मासम्भववचनात् यानि कर्माणि शास्त्रेण विधीयन्ते तानि अविदुषो विहितानि इति भगवतो निश्चयोऽवगम्यते ॥
ननु विद्यापि अविदुष एव विधीयते, विदितविद्यस्य पिष्टपेषणवत् विद्याविधानानर्थक्यात् । तत्र अविदुषः कर्माणि विधीयन्ते न विदुषः इति विशेषो नोपपद्यते इति चेत् , न ; अनुष्ठेयस्य भावाभावविशेषोपपत्तेः । अग्निहोत्रादिविध्यर्थज्ञानोत्तरकालम् अग्निहोत्रादिकर्म अनेकसाधनोपसंहारपूर्वकमनुष्ठेयम् ‘कर्ता अहम् , मम कर्तव्यम्’ इत्येवम्प्रकारविज्ञानवतः अविदुषः यथा अनुष्ठेयं भवति, न तु तथा ‘न जायते’ इत्याद्यात्मस्वरूपविध्यर्थज्ञानोत्तरकालभावि किञ्चिदनुष्ठेयं भवति ; किं तु ‘नाहं कर्ता, नाहं भोक्ता’ इत्याद्यात्मैकत्वाकर्तृत्वादिविषयज्ञानात् नान्यदुत्पद्यते इति एष विशेष उपपद्यते । यः पुनः ‘कर्ता अहम्’ इति वेत्ति आत्मानम् , तस्य ‘मम इदं कर्तव्यम्’ इति अवश्यम्भाविनी बुद्धिः स्यात् ; तदपेक्षया सः अधिक्रियते इति तं प्रति कर्माणि सम्भवन्ति । स च अविद्वान् , ‘उभौ तौ न विजानीतः’ (भ. गी. २ । १९) इति वचनात् , विशेषितस्य च विदुषः कर्माक्षेपवचनाच्च ‘कथं स पुरुषः’ इति । तस्मात् विशेषितस्य अविक्रियात्मदर्शिनः विदुषः मुमुक्षोश्च सर्वकर्मसन्न्यासे एव अधिकारः । अत एव भगवान् नारायणः साङ्ख्यान् विदुषः अविदुषश्च कर्मिणः प्रविभज्य द्वे निष्ठे ग्राहयति — ‘ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम्’ (भ. गी. ३ । ३) इति । तथा च पुत्राय आह भगवान् व्यासः — ‘द्वाविमावथ पन्थानौ’ (शां. २४१ । ६) इत्यादि । तथा च क्रियापथश्चैव पुरस्तात् पश्चात्सन्न्यासश्चेति । एतमेव विभागं पुनः पुनर्दर्शयिष्यति भगवान् — अतत्त्ववित् ‘अहङ्कारविमूढात्मा कर्ताहमिति मन्यते’ (भ. गी. ३ । २७), तत्त्ववित्तु नाहं करोमि इति । तथा च ‘सर्वकर्माणि मनसा सन्न्यस्यास्ते’ (भ. गी. ५ । १३) इत्यादि ॥
तत्र केचित्पण्डितम्मन्या वदन्ति — ‘जन्मादिषड्भावविक्रियारहितः अविक्रियः अकर्ता एकः अहमात्मा’ इति न कस्यचित् ज्ञानम् उत्पद्यते, यस्मिन् सति सर्वकर्मसन्न्यासः उपदिश्यते इति । तन्न ; ‘न जायते’ (भ. गी. २ । २०) इत्यादिशास्त्रोपदेशानर्थक्यप्रसङ्गात् । यथा च शास्त्रोपदेशसामर्थ्यात् धर्माधर्मास्तित्वविज्ञानं कर्तुश्च देहान्तरसम्बन्धविज्ञानमुत्पद्यते, तथा शास्त्रात् तस्यैव आत्मनः अविक्रियत्वाकर्तृत्वैकत्वादिविज्ञानं कस्मात् नोत्पद्यते इति प्रष्टव्याः ते । करणागोचरत्वात् इति चेत् , न ; ‘मनसैवानुद्रष्टव्यम्’ (बृ. उ. ४ । ४ । १९) इति श्रुतेः । शास्त्राचार्योपदेशशमदमादिसंस्कृतं मनः आत्मदर्शने करणम् । तथा च तदधिगमाय अनुमाने आगमे च सति ज्ञानं नोत्पद्यत इति साहसमात्रमेतत् । ज्ञानं च उत्पद्यमानं तद्विपरीतमज्ञानम् अवश्यं बाधते इत्यभ्युपगन्तव्यम् । तच्च अज्ञानं दर्शितम् ‘हन्ता अहम् , हतः अस्मि’ इति ‘उभौ तौ न विजानीतः’ इति । अत्र च आत्मनः हननक्रियायाः कर्तृत्वं कर्मत्वं हेतुकर्तृत्वं च अज्ञानकृतं दर्शितम् । तच्च सर्वक्रियास्वपि समानं कर्तृत्वादेः अविद्याकृतत्वम् , अविक्रियत्वात् आत्मनः । विक्रियावान् हि कर्ता आत्मनः कर्मभूतमन्यं प्रयोजयति ‘कुरु’ इति । तदेतत् अविशेषेण विदुषः सर्वक्रियासु कर्तृत्वं हेतुकर्तृत्वं च प्रतिषेधति भगवान्वासुदेवः विदुषः कर्माधिकाराभावप्रदर्शनार्थम् ‘वेदाविनाशिनं . . . कथं स पुरुषः’ इत्यादिना । क्व पुनः विदुषः अधिकार इति एतदुक्तं पूर्वमेव ‘ज्ञानयोगेन साङ्ख्यानाम्’ (भ. गी. ३ । ३) इति । तथा च सर्वकर्मसन्न्यासं वक्ष्यति ‘सर्वकर्माणि मनसा’ (भ. गी. ५ । १३) इत्यादिना ॥
ननु मनसा इति वचनात् न वाचिकानां कायिकानां च सन्न्यासः इति चेत् , न ; सर्वकर्माणि इति विशेषितत्वात् । मानसानामेव सर्वकर्मणामिति चेत् , न ; मनोव्यापारपूर्वकत्वाद्वाक्कायव्यापाराणां मनोव्यापाराभावे तदनुपपत्तेः । शास्त्रीयाणां वाक्कायकर्मणां कारणानि मानसानि कर्माणि वर्जयित्वा अन्यानि सर्वकर्माणि मनसा सन्न्यस्येदिति चेत् , न ; ‘नैव कुर्वन्न कारयन्’ (भ. गी. ५ । १३) इति विशेषणात् । सर्वकर्मसन्न्यासः अयं भगवता उक्तः मरिष्यतः न जीवतः इति चेत् , न ; ‘नवद्वारे पुरे देही आस्ते’ (भ. गी. ५ । १३) इति विशेषणानुपपत्तेः । न हि सर्वकर्मसन्न्यासेन मृतस्य तद्देहे आसनं सम्भवति । अकुर्वतः अकारयतश्च देहे सन्न्यस्य इति सम्बन्धः न देहे आस्ते इति चेत् , न ; सर्वत्र आत्मनः अविक्रियत्वावधारणात् , आसनक्रियायाश्च अधिकरणापेक्षत्वात् , तदनपेक्षत्वाच्च सन्न्यासस्य । सम्पूर्वस्तु न्यासशब्दः अत्र त्यागार्थः, न निक्षेपार्थः । तस्मात् गीताशास्त्रे आत्मज्ञानवतः सन्न्यासे एव अधिकारः, न कर्मणि इति तत्र तत्र उपरिष्टात् आत्मज्ञानप्रकरणे दर्शयिष्यामः ॥ २१ ॥
२२22
वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि ।
तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही ॥ २२ ॥
vāsāṃsi jīrṇāni yathā vihāya navāni gṛhṇāti naro'parāṇi |
tathā śarīrāṇi vihāya jīrṇānyanyāni saṃyāti navāni dehī || 22 ||
वासांसि वस्त्राणि जीर्णानि दुर्बलतां गतानि यथा लोके विहाय परित्यज्य नवानि अभिनवानि गृह्णाति उपादत्ते नरः पुरुषः अपराणि अन्यानि, तथा तद्वदेव शरीराणि विहाय जीर्णानि अन्यानि संयाति सङ्गच्छति नवानि देही आत्मा पुरुषवत् अविक्रिय एवेत्यर्थः ॥ २२ ॥
२३23
नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः ।
न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ॥ २३ ॥
nainaṃ chindanti śastrāṇi nainaṃ dahati pāvakaḥ |
na cainaṃ kledayantyāpo na śoṣayati mārutaḥ || 23 ||
एनं प्रकृतं देहिनं न च्छिन्दन्ति शस्त्राणि, निरवयवत्वात् न अवयवविभागं कुर्वन्ति । शस्त्राणि अस्यादीनि । तथा न एनं दहति पावकः, अग्निरपि न भस्मीकरोति । तथा न च एनं क्लेदयन्ति आपः । अपां हि सावयवस्य वस्तुनः आर्द्रीभावकरणेन अवयवविश्लेषापादने सामर्थ्यम् । तत् न निरवयवे आत्मनि सम्भवति । तथा स्नेहवत् द्रव्यं स्नेहशोषणेन नाशयति वायुः । एनं तु आत्मानं न शोषयति मारुतोऽपि ॥ २३ ॥
२४24
अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च ।
नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः ॥ २४ ॥
acchedyo'yamadāhyo'yamakledyo'śoṣya eva ca |
nityaḥ sarvagataḥ sthāṇuracalo'yaṃ sanātanaḥ || 24 ||
यस्मात् अन्योन्यनाशहेतुभूतानि एनमात्मानं नाशयितुं नोत्सहन्ते अस्यादीनि तस्मात् नित्यः । नित्यत्वात् सर्वगतः । सर्वगतत्वात् स्थाणुः इव, स्थिर इत्येतत् । स्थिरत्वात् अचलः अयम् आत्मा । अतः सनातनः चिरन्तनः, न कारणात्कुतश्चित् निष्पन्नः, अभिनव इत्यर्थः ॥
नैतेषां श्लोकानां पौनरुक्त्यं चोदनीयम् , यतः एकेनैव श्लोकेन आत्मनः नित्यत्वमविक्रियत्वं चोक्तम् ‘न जायते म्रियते वा’ (भ. गी. २ । २०) इत्यादिना । तत्र यदेव आत्मविषयं किञ्चिदुच्यते, तत् एतस्मात् श्लोकार्थात् न अतिरिच्यते ; किञ्चिच्छब्दतः पुनरुक्तम् , किञ्चिदर्थतः इति । दुर्बोधत्वात् आत्मवस्तुनः पुनः पुनः प्रसङ्गमापाद्य शब्दान्तरेण तदेव वस्तु निरूपयति भगवान् वासुदेवः कथं नु नाम संसारिणामसंसारित्वबुद्धिगोचरतामापन्नं सत् अव्यक्तं तत्त्वं संसारनिवृत्तये स्यात् इति ॥ २४ ॥
२५25
अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते ।
तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि ॥ २५ ॥
avyakto'yamacintyo'yamavikāryo'yamucyate |
tasmādevaṃ viditvainaṃ nānuśocitumarhasi || 25 ||
सर्वकरणाविषयत्वात् न व्यज्यत इति अव्यक्तः अयम् आत्मा । अत एव अचिन्त्यः अयम् । यद्धि इन्द्रियगोचरः तत् चिन्ताविषयत्वमापद्यते । अयं त्वात्मा अनिन्द्रियगोचरत्वात् अचिन्त्यः । अत एव अविकार्यः, यथा क्षीरं दध्यातञ्चनादिना विकारि न तथा अयमात्मा । निरवयवत्वाच्च अविक्रियः । न हि निरवयवं किञ्चित् विक्रियात्मकं दृष्टम् । अविक्रियत्वात् अविकार्यः अयम् आत्मा उच्यते । तस्मात् एवं यथोक्तप्रकारेण एनम् आत्मानं विदित्वा
त्वं न अनुशोचितुमर्हसि हन्ताहमेषाम् , मयैते हन्यन्त इति ॥ २५ ॥
२६26
अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् ।
तथापि त्वं महाबाहो नैवं शोचितुमर्हसि ॥ २६ ॥
atha cainaṃ nityajātaṃ nityaṃ vā manyase mṛtam |
tathāpi tvaṃ mahābāho naivaṃ śocitumarhasi || 26 ||
अथ च इति अभ्युपगमार्थः । एनं प्रकृतमात्मानं नित्यजातं लोकप्रसिद्ध्या प्रत्यनेकशरीरोत्पत्ति जातो जात इति मन्यसे तथा प्रतितत्तद्विनाशं नित्यं वा मन्यसे मृतं मृतो मृत इति ; तथापि तथाभावेऽपि आत्मनि त्वं महाबाहो, न एवं शोचितुमर्हसि, जन्मवतो जन्म नाशवतो नाशश्चेत्येताववश्यम्भाविनाविति ॥ २६ ॥
२७27
जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च ।
तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि ॥ २७ ॥
jātasya hi dhruvo mṛtyurdhruvaṃ janma mṛtasya ca |
tasmādaparihārye'rthe na tvaṃ śocitumarhasi || 27 ||
जातस्य हि लब्धजन्मनः ध्रुवः अव्यभिचारी मृत्युः मरणं ध्रुवं जन्म मृतस्य च । तस्मादपरिहार्योऽयं जन्ममरणलक्षणोऽर्थः । तस्मिन्नपरिहार्येऽर्थे न त्वं शोचितुमर्हसि ॥ २७ ॥
२८28
अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत ।
अव्यक्तनिधनान्येव तत्र का परिदेवना ॥ २८ ॥
avyaktādīni bhūtāni vyaktamadhyāni bhārata |
avyaktanidhanānyeva tatra kā paridevanā || 28 ||
अव्यक्तादीनि अव्यक्तम् अदर्शनम् अनुपलब्धिः आदिः येषां भूतानां पुत्रमित्रादिकार्यकरणसङ्घातात्मकानां तानि अव्यक्तादीनि भूतानि प्रागुत्पत्तेः, उत्पन्नानि च प्राङ्मरणात् व्यक्तमध्यानि । अव्यक्तनिधनान्येव पुनः अव्यक्तम् अदर्शनं निधनं मरणं येषां तानि अव्यक्तनिधनानि । मरणादूर्ध्वमप्यव्यक्ततामेव प्रतिपद्यन्ते इत्यर्थः । तथा चोक्तम् — ‘अदर्शनादापतितः पुनश्चादर्शनं गतः । नासौ तव न तस्य त्वं वृथा का परिदेवना’ (मो. ध. १७४ । १७) इति । तत्र का परिदेवना को वा प्रलापः अदृष्टदृष्टप्रनष्टभ्रान्तिभूतेषु भूतेष्वित्यर्थः ॥ २८ ॥
२९29
आश्चर्यवत्पश्यति कश्चिदेनमाश्चर्यवद्वदति तथैव चान्यः ।
आश्चर्यवच्चैनमन्यः शृणोति श्रुत्वाप्येनं वेद न चैव कश्चित् ॥ २९ ॥
āścaryavatpaśyati kaścidenamāścaryavadvadati tathaiva cānyaḥ |
āścaryavaccainamanyaḥ śṛṇoti śrutvāpyenaṃ veda na caiva kaścit || 29 ||
आश्चर्यवत् आश्चर्यम् अदृष्टपूर्वम् अद्भुतम् अकस्माद्दृश्यमानं तेन तुल्यं आश्चर्यवत् आश्चर्यमिति एनम् आत्मानं पश्यति कश्चित् । आश्चर्यवत् एनं वदति तथैव च अन्यः । आश्चर्यवच्च एनमन्यः शृणोति । श्रुत्वा दृष्ट्वा उक्त्वापि एनमात्मानं वेद न चैव कश्चित् । अथवा योऽयमात्मानं पश्यति स आश्चर्यतुल्यः, यो वदति यश्च शृणोति सः अनेकसहस्रेषु कश्चिदेव भवति । अतो दुर्बोध आत्मा इत्यभिप्रायः ॥ २९ ॥
३०30
देही नित्यमवध्योऽयं देहे सर्वस्य भारत ।
तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि ॥ ३० ॥
dehī nityamavadhyo'yaṃ dehe sarvasya bhārata |
tasmātsarvāṇi bhūtāni na tvaṃ śocitumarhasi || 30 ||
देही शरीरी नित्यं सर्वदा सर्वावस्थासु अवध्यः निरवयवत्वान्नित्यत्वाच्च तत्र अवध्योऽयं देहे शरीरे सर्वस्य सर्वगतत्वात्स्थावरादिषु स्थितोऽपि सर्वस्य प्राणिजातस्य देहे वध्यमानेऽपि अयं देही न वध्यः यस्मात् , तस्मात् भीष्मादीनि सर्वाणि भूतानि उद्दिश्य न त्वं शोचितुमर्हसि ॥ ३० ॥
३१31
स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि ।
धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्त्रियस्य न विद्यते ॥ ३१ ॥
svadharmamapi cāvekṣya na vikampitumarhasi |
dharmyāddhi yuddhācchreyo'nyatkṣattriyasya na vidyate || 31 ||
स्वधर्ममपि स्वो धर्मः क्षत्रियस्य युद्धं तमपि अवेक्ष्य त्वं न विकम्पितुं प्रचलितुम् नार्हसि क्षत्रियस्य स्वाभाविकाद्धर्मात् आत्मस्वाभाव्यादित्यभिप्रायः । तच्च युद्धं पृथिवीजयद्वारेण धर्मार्थं प्रजारक्षणार्थं चेति धर्मादनपेतं परं धर्म्यम् । तस्मात् धर्म्यात् युद्धात् श्रेयः अन्यत् क्षत्रियस्य न विद्यते हि यस्मात् ॥ ३१ ॥
३२32
यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम् ।
सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम् ॥ ३२ ॥
yadṛcchayā copapannaṃ svargadvāramapāvṛtam |
sukhinaḥ kṣatriyāḥ pārtha labhante yuddhamīdṛśam || 32 ||
यदृच्छया च अप्रार्थिततया उपपन्नम् आगतं स्वर्गद्वारम् अपावृतम् उद्धाटितं ये एतत् ईदृशं युद्धं लभन्ते क्षत्रियाः हे पार्थ, किं न सुखिनः ते ? ॥ ३२ ॥
३३33
अथ चेत्त्वमिमं धर्म्यं सङ्ग्रामं न करिष्यसि ।
ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि ॥ ३३ ॥
atha cettvamimaṃ dharmyaṃ saṅgrāmaṃ na kariṣyasi |
tataḥ svadharmaṃ kīrtiṃ ca hitvā pāpamavāpsyasi || 33 ||
अथ चेत् त्वम् इमं धर्म्यं धर्मादनपेतं विहितं सङ्ग्रामं युद्धं न करिष्यसि चेत् , ततः तदकरणात् स्वधर्मं कीर्तिं च महादेवादिसमागमनिमित्तां हित्वा केवलं पापम् अवाप्स्यसि ॥ ३३ ॥
३४34
अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम् ।
सम्भावितस्य चाकीर्तिर्मरणादतिरिच्यते ॥ ३४ ॥
akīrtiṃ cāpi bhūtāni kathayiṣyanti te'vyayām |
sambhāvitasya cākīrtirmaraṇādatiricyate || 34 ||
अकीर्तिं चापि युद्धे भूतानि कथयिष्यन्ति ते तव अव्ययां दीर्घकालाम् । धर्मात्मा शूर इत्येवमादिभिः गुणैः सम्भावितस्य च अकीर्तिः मरणात् अतिरिच्यते, सम्भावितस्य च
अकीर्तेः वरं मरणमित्यर्थः ॥ ३४ ॥
३५35
भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः ।
येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम् ॥ ३५ ॥
bhayādraṇāduparataṃ maṃsyante tvāṃ mahārathāḥ |
yeṣāṃ ca tvaṃ bahumato bhūtvā yāsyasi lāghavam || 35 ||
भयात् कर्णादिभ्यः रणात् युद्धात् उपरतं निवृत्तं मंस्यन्ते चिन्तयिष्यन्ति न कृपयेति त्वां महारथाः दुर्योधनप्रभृतयः । येषां च त्वं दुर्योधनादीनां बहुमतो बहुभिः गुणैः युक्तः इत्येवं मतः बहुमतः भूत्वा पुनः यास्यसि लाघवं लघुभावम् ॥ ३५ ॥
३६36
अवाच्यवादांश्च बहून्वदिष्यन्ति तवाहिताः ।
निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम् ॥ ३६ ॥
avācyavādāṃśca bahūnvadiṣyanti tavāhitāḥ |
nindantastava sāmarthyaṃ tato duḥkhataraṃ nu kim || 36 ||
अवाच्यवादान् अवक्तव्यवादांश्च बहून् अनेकप्रकारान् वदिष्यन्ति तव अहिताः शत्रवः निन्दन्तः कुत्सयन्तः तव त्वदीयं सामर्थ्यं निवातकवचादियुद्धनिमित्तम् । ततः तस्मात् निन्दाप्राप्तेर्दुःखात् दुःखतरं नु किम् , ततः कष्टतरं दुःखं नास्तीत्यर्थः ॥ ३६ ॥
३७37
हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् ।
तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः ॥ ३७ ॥
hato vā prāpsyasi svargaṃ jitvā vā bhokṣyase mahīm |
tasmāduttiṣṭha kaunteya yuddhāya kṛtaniścayaḥ || 37 ||
हतो वा प्राप्स्यसि स्वर्गम् , हतः सन् स्वर्गं प्राप्स्यसि । जित्वा वा कर्णादीन् शूरान् भोक्ष्यसे महीम् । उभयथापि तव लाभ एवेत्यभिप्रायः । यत एवं तस्मात् उत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः ‘जेष्यामि शत्रून् , मरिष्यामि वा’ इति निश्चयं कृत्वेत्यर्थः ॥ ३७ ॥
३८38
सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ ।
ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि ॥ ३८ ॥
sukhaduḥkhe same kṛtvā lābhālābhau jayājayau |
tato yuddhāya yujyasva naivaṃ pāpamavāpsyasi || 38 ||
सुखदुःखे समे तुल्ये कृत्वा, रागद्वेषावप्यकृत्वेत्येतत् । तथा लाभालाभौ जयाजयौ च समौ कृत्वा ततो युद्धाय युज्यस्व घटस्व । न एवं युद्धं कुर्वन् पापम् अवाप्स्यसि । इत्येष उपदेशः प्रासङ्गिकः ॥ ३८ ॥
३९39
एषा तेऽभिहिता साङ्ख्ये बुद्धिर्योगे त्विमां शृणु ।
बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि ॥ ३९ ॥
eṣā te'bhihitā sāṅkhye buddhiryoge tvimāṃ śṛṇu |
buddhyā yukto yayā pārtha karmabandhaṃ prahāsyasi || 39 ||
एषा ते तुभ्यम् अभिहिता उक्ता साङ्ख्ये परमार्थवस्तुविवेकविषये बुद्धिः ज्ञानं साक्षात् शोकमोहादिसंसारहेतुदोषनिवृत्तिकारणम् । योगे तु तत्प्राप्त्युपाये निःसङ्गतया द्वन्द्वप्रहाणपूर्वकम् ईश्वराराधनार्थे कर्मयोगे कर्मानुष्ठाने समाधियोगे च इमाम् अनन्तरमेवोच्यमानां बुद्धिं शृणु । तां च बुद्धिं स्तौति प्ररोचनार्थम् — बुद्ध्या यया योगविषयया युक्तः हे पार्थ, कर्मबन्धं कर्मैव धर्माधर्माख्यो बन्धः कर्मबन्धः तं प्रहास्यसि ईश्वरप्रसादनिमित्तज्ञानप्राप्त्यैव इत्यभिप्रायः ॥ ३९ ॥
४०40
नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते ।
स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ॥ ४० ॥
nehābhikramanāśo'sti pratyavāyo na vidyate |
svalpamapyasya dharmasya trāyate mahato bhayāt || 40 ||
न इह मोक्षमार्गे कर्मयोगे अभिक्रमनाशः अभिक्रमणमभिक्रमः प्रारम्भः तस्य नाशः नास्ति यथा कृष्यादेः । योगविषये प्रारम्भस्य न अनैकान्तिकफलत्वमित्यर्थः । किञ्च — नापि चिकित्सावत् प्रत्यवायः विद्यते भवति । किं तु स्वल्पमपि अस्य धर्मस्य योगधर्मस्य अनुष्ठितं त्रायते रक्षति महतः भयात् संसारभयात् जन्ममरणादिलक्षणात् ॥ ४० ॥
४१41
व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन ।
बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम् ॥ ४१ ॥
vyavasāyātmikā buddhirekeha kurunandana |
bahuśākhā hyanantāśca buddhayo'vyavasāyinām || 41 ||
व्यवसायात्मिका निश्चयस्वभावा एका एव बुद्धिः इतरविपरीतबुद्धिशाखाभेदस्य बाधिका, सम्यक्प्रमाणजनितत्वात् , इह श्रेयोमार्गे हे कुरुनन्दन । याः पुनः इतरा विपरीतबुद्धयः, यासां शाखाभेदप्रचारवशात् अनन्तः अपारः अनुपरतः संसारो नित्यप्रततो विस्तीर्णो भवति, प्रमाणजनितविवेकबुद्धिनिमित्तवशाच्च उपरतास्वनन्तभेदबुद्धिषु संसारोऽप्युपरमते ता बुद्धयः बहुशाखाः बह्वयः शाखाः यासां ताः बहुशाखाः, बहुभेदा इत्येतत् । प्रतिशाखाभेदेन हि अनन्ताश्च बुद्धयः । केषाम् ? अव्यवसायिनां प्रमाणजनितविवेकबुद्धिरहितानामित्यर्थः ॥ ४१ ॥
४२42
यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः ।
वेदवादरताः पार्थ नान्यदस्तीति वादिनः ॥ ४२ ॥
yāmimāṃ puṣpitāṃ vācaṃ pravadantyavipaścitaḥ |
vedavādaratāḥ pārtha nānyadastīti vādinaḥ || 42 ||
याम् इमां वक्ष्यमाणां पुष्पितां पुष्पित इव वृक्षः शोभमानां श्रूयमाणरमणीयां वाचं वाक्यलक्षणां प्रवदन्ति । के ? अविपश्चितः अमेधसः अविवेकिन इत्यर्थः । वेदवादरताः बह्वर्थवादफलसाधनप्रकाशकेषु वेदवाक्येषु रताः हे पार्थ, न अन्यत् स्वर्गपश्वादिफलसाधनेभ्यः कर्मभ्यः अस्ति इति एवं वादिनः वदनशीलाः ॥ ४२ ॥
४३43
कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम् ।
क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति ॥ ४३ ॥
kāmātmānaḥ svargaparā janmakarmaphalapradām |
kriyāviśeṣabahulāṃ bhogaiśvaryagatiṃ prati || 43 ||
कामात्मानः कामस्वभावाः, कामपरा इत्यर्थः । स्वर्गपराः स्वर्गः परः पुरुषार्थः येषां ते स्वर्गपराः स्वर्गप्रधानाः । जन्मकर्मफलप्रदां कर्मणः फलं कर्मफलं जन्मैव कर्मफलं जन्मकर्मफलं तत् प्रददातीति जन्मकर्मफलप्रदा, तां वाचम् । प्रवदन्ति इत्यनुषज्यते । क्रियाविशेषबहुलां क्रियाणां विशेषाः क्रियाविशेषाः ते बहुला यस्यां वाचि तां स्वर्गपशुपुत्राद्यर्थाः यया वाचा बाहुल्येन प्रकाश्यन्ते । भोगैश्वर्यगतिं प्रति भोगश्च ऐश्वर्यं च भोगैश्वर्ये, तयोर्गतिः प्राप्तिः भोगैश्वर्यगतिः, तां प्रति साधनभूताः ये क्रियाविशेषाः तद्बहुलां तां वाचं प्रवदन्तः मूढाः संसारे परिवर्तन्ते इत्यभिप्रायः ॥ ४३ ॥
४४44
भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम् ।
व्यवसायात्मिका बुद्धिः समाधौ न विधीयते ॥ ४४ ॥
bhogaiśvaryaprasaktānāṃ tayāpahṛtacetasām |
vyavasāyātmikā buddhiḥ samādhau na vidhīyate || 44 ||
भोगैश्वर्यप्रसक्तानां भोगः कर्तव्यः ऐश्वर्यं च इति भोगैश्वर्ययोरेव प्रणयवतां तदात्मभूतानाम् । तया क्रियाविशेषबहुलया वाचा अपहृतचेतसाम् आच्छादितविवेकप्रज्ञानां व्यवसायात्मिका साङ्ख्ये योगे वा बुद्धिः समाधौ समाधीयते अस्मिन् पुरुषोपभोगाय सर्वमिति समाधिः अन्तःकरणं बुद्धिः तस्मिन् समाधौ, न विधीयते न भवति इत्यर्थः ॥ ४४ ॥
४५45
त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन ।
निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् ॥ ४५ ॥
traiguṇyaviṣayā vedā nistraiguṇyo bhavārjuna |
nirdvandvo nityasattvastho niryogakṣema ātmavān || 45 ||
त्रैगुण्यविषयाः त्रैगुण्यं संसारो विषयः प्रकाशयितव्यः येषां ते वेदाः त्रैगुण्यविषयाः । त्वं तु निस्त्रैगुण्यो भव अर्जुन, निष्कामो भव इत्यर्थः । निर्द्वन्द्वः सुखदुःखहेतू सप्रतिपक्षौ पदार्थौ द्वन्द्वशब्दवाच्यौ, ततः निर्गतः निर्द्वन्द्वो भव । नित्यसत्त्वस्थः सदा सत्त्वगुणाश्रितो भव । तथा निर्योगक्षेमः अनुपात्तस्य उपादानं योगः, उपात्तस्य रक्षणं क्षेमः, योगक्षेमप्रधानस्य श्रेयसि प्रवृत्तिर्दुष्करा इत्यतः निर्योगक्षेमो भव । आत्मवान् अप्रमत्तश्च भव । एष तव उपदेशः स्वधर्ममनुतिष्ठतः ॥ ४५ ॥
४६46
यावानर्थ उदपाने सर्वतःसम्प्लुतोदके ।
तावान् सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ॥ ४६ ॥
yāvānartha udapāne sarvataḥsamplutodake |
tāvān sarveṣu vedeṣu brāhmaṇasya vijānataḥ || 46 ||
यथा लोके कूपतडागाद्यनेकस्मिन् उदपाने परिच्छिन्नोदके यावान् यावत्परिमाणः स्नानपानादिः अर्थः फलं प्रयोजनं स सर्वः अर्थः सर्वतः सम्प्लुतोदकेऽपि यः अर्थः तावानेव सम्पद्यते, तत्र अन्तर्भवतीत्यर्थः । एवं तावान् तावत्परिमाण एव सम्पद्यते सर्वेषु वेदेषु वेदोक्तेषु कर्मसु यः अर्थः यत्कर्मफलं सः अर्थः ब्राह्मणस्य सन्न्यासिनः परमार्थतत्त्वं विजानतः यः अर्थः यत् विज्ञानफलं सर्वतःसम्प्लुतोदकस्थानीयं तस्मिन् तावानेव सम्पद्यते तत्रैवान्तर्भवतीत्यर्थः । ‘यथा कृताय विजितायाधरेयाः संयन्त्येवमेनं सर्वं तदभिसमेति यत् किञ्चित् प्रजाः साधु कुर्वन्ति यस्तद्वेद यत्स वेद’ (छा. उ. ४ । १ । ४) इति श्रुतेः । ‘सर्वं कर्माखिलम्’ (भ. गी. ४ । ३३) इति च वक्ष्यति । तस्मात् प्राक् ज्ञाननिष्ठाधिकारप्राप्तेः कर्मण्यधिकृतेन कूपतडागाद्यर्थस्थानीयमपि कर्म कर्तव्यम् ॥ ४६ ॥
४७47
कर्मण्येवाधिकारस्ते मा फलेषु कदाचन ।
मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि ॥ ४७ ॥
karmaṇyevādhikāraste mā phaleṣu kadācana |
mā karmaphalaheturbhūrmā te saṅgo'stvakarmaṇi || 47 ||
कर्मण्येव अधिकारः न ज्ञाननिष्ठायां ते तव । तत्र च कर्म कुर्वतः मा फलेषु अधिकारः अस्तु, कर्मफलतृष्णा मा भूत् कदाचन कस्याञ्चिदप्यवस्थायामित्यर्थः । यदा कर्मफले तृष्णा ते स्यात् तदा कर्मफलप्राप्तेः हेतुः स्याः, एवं मा कर्मफलहेतुः भूः । यदा हि कर्मफलतृष्णाप्रयुक्तः कर्मणि प्रवर्तते तदा कर्मफलस्यैव जन्मनो हेतुर्भवेत् । यदि कर्मफलं नेष्यते, किं कर्मणा दुःखरूपेण ? इति मा ते तव सङ्गः अस्तु अकर्मणि अकरणे प्रीतिर्मा भूत् ॥ ४७ ॥
४८48
योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय ।
सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते ॥ ४८ ॥
yogasthaḥ kuru karmāṇi saṅgaṃ tyaktvā dhanañjaya |
siddhyasiddhyoḥ samo bhūtvā samatvaṃ yoga ucyate || 48 ||
योगस्थः सन् कुरु कर्माणि केवलमीश्वरार्थम् ; तत्रापि ‘ईश्वरो मे तुष्यतु’ इति सङ्गं त्यक्त्वा धनञ्जय । फलतृष्णाशून्येन क्रियमाणे कर्मणि सत्त्वशुद्धिजा ज्ञानप्राप्तिलक्षणा सिद्धिः, तद्विपर्ययजा असिद्धिः, तयोः सिद्ध्यसिद्ध्योः अपि समः तुल्यः भूत्वा कुरु कर्माणि । कोऽसौ योगः यत्रस्थः कुरु इति उक्तम् ? इदमेव तत् — सिद्ध्यसिद्ध्योः समत्वं योगः उच्यते ॥ ४८ ॥
४९49
दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जय ।
बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः ॥ ४९ ॥
dūreṇa hyavaraṃ karma buddhiyogāddhanañjaya |
buddhau śaraṇamanviccha kṛpaṇāḥ phalahetavaḥ || 49 ||
दूरेण अतिविप्रकर्षेण अत्यन्तमेव हि अवरम् अधमं निकृष्टं कर्म फलार्थिना क्रियमाणं बुद्धियोगात् समत्वबुद्धियुक्तात् कर्मणः, जन्ममरणादिहेतुत्वात् । हे धनञ्जय, यत एवं ततः योगविषयायां बुद्धौ तत्परिपाकजायां वा साङ्ख्यबुद्धौ शरणम् आश्रयमभयप्राप्तिकारणम् अन्विच्छ प्रार्थयस्व, परमार्थज्ञानशरणो भवेत्यर्थः । यतः अवरं कर्म कुर्वाणाः कृपणाः दीनाः फलहेतवः फलतृष्णाप्रयुक्ताः सन्तः, ‘यो वा एतदक्षरं गार्ग्यविदित्वास्माल्लोकात्प्रैति स कृपणः’ (बृ. उ. ३ । ८ । १०) इति श्रुतेः ॥ ४९ ॥
५०50
बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते ।
तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम् ॥ ५० ॥
buddhiyukto jahātīha ubhe sukṛtaduṣkṛte |
tasmādyogāya yujyasva yogaḥ karmasu kauśalam || 50 ||
बुद्धियुक्तः कर्मसमत्वविषयया बुद्ध्या युक्तः बुद्धियुक्तः सः जहाति परित्यजति इह अस्मिन् लोके उभे सुकृतदुष्कृते पुण्यपापे सत्त्वशुद्धिज्ञानप्राप्तिद्वारेण यतः, तस्मात् समत्वबुद्धियोगाय युज्यस्व घटस्व । योगो हि कर्मसु कौशलम् , स्वधर्माख्येषु कर्मसु वर्तमानस्य या सिद्ध्यासिद्ध्योः समत्वबुद्धिः ईश्वरार्पितचेतस्तया तत् कौशलं कुशलभावः । तद्धि कौशलं यत् बन्धनस्वभावान्यपि कर्माणि समत्वबुद्ध्या स्वभावात् निवर्तन्ते । तस्मात्समत्वबुद्धियुक्तो भव त्वम् ॥ ५० ॥
५१51
कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः ।
जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम् ॥ ५१ ॥
karmajaṃ buddhiyuktā hi phalaṃ tyaktvā manīṣiṇaḥ |
janmabandhavinirmuktāḥ padaṃ gacchantyanāmayam || 51 ||
कर्मजं फलं त्यक्त्वा इति व्यवहितेन सम्बन्धः । इष्टानिष्टदेहप्राप्तिः कर्मजं फलं कर्मभ्यो जातं बुद्धियुक्ताः समत्वबुद्धियुक्ताः सन्तः हि यस्मात् फलं त्यक्त्वा परित्यज्य मनीषिणः ज्ञानिनो भूत्वा, जन्मबन्धविनिर्मुक्ताः जन्मैव बन्धः जन्मबन्धः तेन विनिर्मुक्ताः जीवन्त एव जन्मबन्धात् विनिर्मुक्ताः सन्तः, पदं परमं विष्णोः मोक्षाख्यं गच्छन्ति अनामयं सर्वोपद्रवरहितमित्यर्थः । अथवा ‘बुद्धियोगाद्धनञ्जय’ (भ. गी. २ । ४९) इत्यारभ्य परमार्थदर्शनलक्षणैव सर्वतःसम्प्लुतोदकस्थानीया कर्मयोगजसत्त्वशुद्धिजनिता बुद्धिर्दर्शिता, साक्षात्सुकृतदुष्कृतप्रहाणादिहेतुत्वश्रवणात् ॥ ५१ ॥
५२52
यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति ।
तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ॥ ५२ ॥
yadā te mohakalilaṃ buddhirvyatitariṣyati |
tadā gantāsi nirvedaṃ śrotavyasya śrutasya ca || 52 ||
यदा यस्मिन्काले ते तव मोहकलिलं मोहात्मकमविवेकरूपं कालुष्यं येन आत्मानात्मविवेकबोधं कलुषीकृत्य विषयं प्रत्यन्तःकरणं प्रवर्तते, तत् तव बुद्धिः व्यतितरिष्यति व्यतिक्रमिष्यति, अतिशुद्धभावमापत्स्यते इत्यर्थः । तदा तस्मिन् काले गन्तासि प्राप्स्यसि निर्वेदं वैराग्यं श्रोतव्यस्य श्रुतस्य च, तदा श्रोतव्यं श्रुतं च ते निष्फलं प्रतिभातीत्यभिप्रायः ॥ ५२ ॥
५३53
श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला ।
समाधावचला बुद्धिस्तदा योगमवाप्स्यसि ॥ ५३ ॥
śrutivipratipannā te yadā sthāsyati niścalā |
samādhāvacalā buddhistadā yogamavāpsyasi || 53 ||
श्रुतिविप्रतिपन्ना अनेकसाध्यसाधनसम्बन्धप्रकाशनश्रुतिभिः श्रवणैः प्रवृत्तिनिवृत्तिलक्षणैः विप्रतिपन्ना नानाप्रतिपन्ना विक्षिप्ता सती ते तव बुद्धिः यदि यस्मिन् काले स्थास्यति स्थिरीभूता भविष्यति निश्चला विक्षेपचलनवर्जिता सती समाधौ, समाधीयते चित्तमस्मिन्निति समाधिः आत्मा, तस्मिन् आत्मनि इत्येतत् । अचला तत्रापि विकल्पवर्जिता इत्येतत् । बुद्धिः अन्तःकरणम् । तदा तस्मिन्काले योगम् अवाप्स्यसि विवेकप्रज्ञां समाधिं प्राप्स्यसि ॥ ५३ ॥
५४54
अर्जुन उवाच —
स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव ।
स्थितधीः किं पृभाषेत किमासीत व्रजेत किम् ॥ ५४ ॥
arjuna uvāca —
sthitaprajñasya kā bhāṣā samādhisthasya keśava |
sthitadhīḥ kiṃ pṛbhāṣeta kimāsīta vrajeta kim || 54 ||
स्थिता प्रतिष्ठिता ‘अहमस्मि परं ब्रह्म’ इति प्रज्ञा यस्य सः स्थितप्रज्ञः तस्य स्थितप्रज्ञस्य का भाषा किं भाषणं वचनं कथमसौ परैर्भाष्यते समाधिस्थस्य समाधौ स्थितस्य हे केशव । स्थितधीः स्थितप्रज्ञः स्वयं वा किं प्रभाषेत । किम् आसीत व्रजेत किम् आसनं व्रजनं वा तस्य कथमित्यर्थः । स्थितप्रज्ञस्य लक्षणमनेन श्लोकेन पृच्छ्यते ॥ ५४ ॥
५५55
श्रीभगवानुवाच —
प्रजहाति यदा कामान्सर्वान्पार्थ मनोगतान् ।
आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते ॥ ५५ ॥
śrībhagavānuvāca —
prajahāti yadā kāmānsarvānpārtha manogatān |
ātmanyevātmanā tuṣṭaḥ sthitaprajñastadocyate || 55 ||
प्रजहाति प्रकर्षेण जहाति परित्यजति यदा यस्मिन्काले सर्वान् समस्तान् कामान् इच्छाभेदान् हे पार्थ, मनोगतान् मनसि प्रविष्टान् हृदि प्रविष्टान् । सर्वकामपरित्यागे तुष्टिकारणाभावात् शरीरधारणनिमित्तशेषे च सति उन्मत्तप्रमत्तस्येव प्रवृत्तिः प्राप्ता, इत्यत उच्यते — आत्मन्येव प्रत्यगात्मस्वरूपे एव आत्मना स्वेनैव बाह्यलाभनिरपेक्षः तुष्टः परमार्थदर्शनामृतरसलाभेन अन्यस्मादलम्प्रत्ययवान् स्थितप्रज्ञः स्थिता प्रतिष्ठिता आत्मानात्मविवेकजा प्रज्ञा यस्य सः स्थितप्रज्ञः विद्वान् तदा उच्यते । त्यक्तपुत्रवित्तलोकैषणः सन्न्यासी आत्माराम आत्मक्रीडः स्थितप्रज्ञ इत्यर्थः ॥ ५५ ॥
५६56
दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः ।
वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते ॥ ५६ ॥
duḥkheṣvanudvignamanāḥ sukheṣu vigataspṛhaḥ |
vītarāgabhayakrodhaḥ sthitadhīrmunirucyate || 56 ||
दुःखेषु आध्यात्मिकादिषु प्राप्तेषु न उद्विग्नं न प्रक्षुभितं दुःखप्राप्तौ मनो यस्य सोऽयम् अनुद्विग्नमनाः । तथा सुखेषु प्राप्तेषु विगता स्पृहा तृष्णा यस्य, न अग्निरिव इन्धनाद्याधाने सुखान्यनु विवर्धते स विगतस्पृहः । वीतरागभयक्रोधः रागश्च भयं च क्रोधश्च वीता विगता यस्मात् स वीतरागभयक्रोधः । स्थितधीः स्थितप्रज्ञो मुनिः सन्न्यासी तदा उच्यते ॥ ५६ ॥
५७57
यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम् ।
नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥ ५७ ॥
yaḥ sarvatrānabhisnehastattatprāpya śubhāśubham |
nābhinandati na dveṣṭi tasya prajñā pratiṣṭhitā || 57 ||
यः मुनिः सर्वत्र देहजीवितादिष्वपि अनभिस्नेहः अभिस्नेहवर्जितः तत्तत् प्राप्य शुभाशुभं तत्तत् शुभं अशुभं वा लब्ध्वा न अभिनन्दति न द्वेष्टि शुभं प्राप्य न तुष्यति न हृष्यति, अशुभं च प्राप्य न द्वेष्टि इत्यर्थः । तस्य एवं हर्षविषादवर्जितस्य विवेकजा प्रज्ञा प्रतिष्ठिता भवति ॥ ५७ ॥
५८58
यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः ।
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥ ५८ ॥
yadā saṃharate cāyaṃ kūrmo'ṅgānīva sarvaśaḥ |
indriyāṇīndriyārthebhyastasya prajñā pratiṣṭhitā || 58 ||
यदा संहरते सम्यगुपसंहरते च अयं ज्ञाननिष्ठायां प्रवृत्तो यतिः कूर्मः अङ्गानि इव यथा कूर्मः भयात् स्वान्यङ्गानि उपसंहरति सर्वशः सर्वतः, एवं ज्ञाननिष्ठः इन्द्रियाणि इन्द्रियार्थेभ्यः सर्वविषयेभ्यः उपसंहरते । तस्य प्रज्ञा प्रतिष्ठिता इत्युक्तार्थं वाक्यम् ॥ ५८ ॥
५९59
विषया विनिवर्तन्ते निराहारस्य देहिनः ।
रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते ॥ ५९ ॥
viṣayā vinivartante nirāhārasya dehinaḥ |
rasavarjaṃ raso'pyasya paraṃ dṛṣṭvā nivartate || 59 ||
यद्यपि विषयाः विषयोपलक्षितानि विषयशब्दवाच्यानि इन्द्रियाणि निराहारस्य अनाह्रियमाणविषयस्य कष्टे तपसि स्थितस्य मूर्खस्यापि विनिवर्तन्ते देहिनो देहवतः रसवर्जं रसो रागो विषयेषु यः तं वर्जयित्वा । रसशब्दो रागे प्रसिद्धः, स्वरसेन प्रवृत्तः रसिकः रसज्ञः, इत्यादिदर्शनात् । सोऽपि रसो रञ्जनारूपः सूक्ष्मः अस्य यतेः परं परमार्थतत्त्वं ब्रह्म दृष्ट्वा उपलभ्य ‘अहमेव तत्’ इति वर्तमानस्य निवर्तते निर्बीजं विषयविज्ञानं सम्पद्यते इत्यर्थः । न असति सम्यग्दर्शने रसस्य उच्छेदः । तस्मात् सम्यग्दर्शनात्मिकायाः प्रज्ञायाः स्थैर्यं कर्तव्यमित्यभिप्रायः ॥ ५९ ॥
६०60
यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः ।
इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ॥ ६० ॥
yatato hyapi kaunteya puruṣasya vipaścitaḥ |
indriyāṇi pramāthīni haranti prasabhaṃ manaḥ || 60 ||
यततः प्रयत्नं कुर्वतः हि यस्मात् कौन्तेय पुरुषस्य विपश्चितः मेधाविनः अपि इति व्यवहितेन सम्बन्धः । इन्द्रियाणि प्रमाथीनि प्रमथनशीलानि विषयाभिमुखं हि पुरुषं विक्षोभयन्ति आकुलीकुर्वन्ति, आकुलीकृत्य च हरन्ति प्रसभं प्रसह्य प्रकाशमेव पश्यतो विवेकविज्ञानयुक्तं मनः ॥ ६० ॥
६१61
तानि सर्वाणि संयम्य युक्त आसीत मत्परः ।
वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ॥ ६१ ॥
tāni sarvāṇi saṃyamya yukta āsīta matparaḥ |
vaśe hi yasyendriyāṇi tasya prajñā pratiṣṭhitā || 61 ||
तानि सर्वाणि संयम्य संयमनं वशीकरणं कृत्वा युक्तः समाहितः सन् आसीत मत्परः अहं वासुदेवः सर्वप्रत्यगात्मा परो यस्य सः मत्परः, ‘न अन्योऽहं तस्मात्’ इति आसीत इत्यर्थः । एवमासीनस्य यतेः वशे हि यस्य इन्द्रियाणि वर्तन्ते अभ्यासबलात् तस्य प्रज्ञा प्रतिष्ठिता ॥ ६१ ॥
६२62
ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते ।
सङ्गात्सञ्जायते कामः कामात्क्रोधोऽभिजायते ॥ ६२ ॥
dhyāyato viṣayānpuṃsaḥ saṅgasteṣūpajāyate |
saṅgātsañjāyate kāmaḥ kāmātkrodho'bhijāyate || 62 ||
ध्यायतः चिन्तयतः विषयान् शब्दादीन् विषयविशेषान् आलोचयतः पुंसः पुरुषस्य सङ्गः आसक्तिः प्रीतिः तेषु विषयेषु उपजायते उत्पद्यते । सङ्गात् प्रीतेः सञ्जायते समुत्पद्यते कामः तृष्णा । कामात् कुतश्चित् प्रतिहतात् क्रोधः अभिजायते ॥ ६२ ॥
६३63
क्रोधाद्भवति सम्मोहः सम्मोहात्स्मृतिविभ्रमः ।
स्मृतिभ्रंशाद्बुद्धिनाशो बुद्धिनाशात्प्रणश्यति ॥ ६३ ॥
krodhādbhavati sammohaḥ sammohātsmṛtivibhramaḥ |
smṛtibhraṃśādbuddhināśo buddhināśātpraṇaśyati || 63 ||
क्रोधात् भवति सम्मोहः अविवेकः कार्याकार्यविषयः । क्रुद्धो हि सम्मूढः सन् गुरुमप्याक्रोशति । सम्मोहात् स्मृतिविभ्रमः शास्त्राचार्योपदेशाहितसंस्कारजनितायाः स्मृतेः स्यात् विभ्रमो भ्रंशः स्मृत्युत्पत्तिनिमित्तप्राप्तौ अनुत्पत्तिः । ततः स्मृतिभ्रंशात् बुद्धिनाशः बुद्धेर्नाशः । कार्याकार्यविषयविवेकायोग्यता अन्तःकरणस्य बुद्धेर्नाश उच्यते । बुद्धिनाशात् प्रणश्यति । तावदेव हि पुरुषः यावदन्तःकरणं तदीयं कार्याकार्यविषयविवेकयोग्यम् । तदयोग्यत्वे नष्ट एव पुरुषो भवति । अतः तस्यान्तःकरणस्य बुद्धेर्नाशात् प्रणश्यति पुरुषार्थायोग्यो भवतीत्यर्थः ॥ ६३ ॥
६४64
रागद्वेषवियुक्तैस्तु विषयानिन्द्रियैश्चरन् ।
आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति ॥ ६४ ॥
rāgadveṣaviyuktaistu viṣayānindriyaiścaran |
ātmavaśyairvidheyātmā prasādamadhigacchati || 64 ||
रागद्वेषवियुक्तैः रागश्च द्वेषश्च रागद्वेषौ, तत्पुरःसरा हि इन्द्रियाणां प्रवृत्तिः स्वाभाविकी, तत्र यो मुमुक्षुः भवति सः ताभ्यां वियुक्तैः श्रोत्रादिभिः इन्द्रियैः विषयान् अवर्जनीयान् चरन् उपलभमानः आत्मवश्यैः आत्मनः वश्यानि वशीभूतानि इन्द्रियाणि तैः आत्मवश्यैः विधेयात्मा इच्छातः विधेयः आत्मा अन्तःकरणं यस्य सः अयं प्रसादम् अधिगच्छति । प्रसादः प्रसन्नता स्वास्थ्यम् ॥ ६४ ॥
६५65
प्रसादे सर्वदुःखानां हानिरस्योपजायते ।
प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते ॥ ६५ ॥
prasāde sarvaduḥkhānāṃ hānirasyopajāyate |
prasannacetaso hyāśu buddhiḥ paryavatiṣṭhate || 65 ||
प्रसादे सर्वदुःखानाम् आध्यात्मिकादीनां हानिः विनाशः अस्य यतेः उपजायते । किञ्च — प्रसन्नचेतसः स्वस्थान्तःकरणस्य हि यस्मात् आशु शीघ्रं बुद्धिः पर्यवतिष्ठते आकाशमिव परि समन्तात् अवतिष्ठते, आत्मस्वरूपेणैव निश्चलीभवतीत्यर्थः ॥
एवं प्रसन्नचेतसः अवस्थितबुद्धेः कृतकृत्यता यतः, तस्मात् रागद्वेषवियुक्तैः इन्द्रियैः शास्त्राविरुद्धेषु अवर्जनीयेषु युक्तः समाचरेत् इति वाक्यार्थः ॥ ६५ ॥
६६66
नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना ।
न चाभावयतः शान्तिरशान्तस्य कुतः सुखम् ॥ ६६ ॥
nāsti buddhirayuktasya na cāyuktasya bhāvanā |
na cābhāvayataḥ śāntiraśāntasya kutaḥ sukham || 66 ||
नास्ति न विद्यते न भवतीत्यर्थः, बुद्धिः आत्मस्वरूपविषया अयुक्तस्य असमाहितान्तःकरणस्य । न च अस्ति अयुक्तस्य भावना आत्मज्ञानाभिनिवेशः । तथा — न च अस्ति अभावयतः आत्मज्ञानाभिनिवेशमकुर्वतः शान्तिः उपशमः । अशान्तस्य कुतः सुखम् ? इन्द्रियाणां हि विषयसेवातृष्णातः निवृत्तिर्या तत्सुखम् , न विषयविषया तृष्णा । दुःखमेव हि सा । न तृष्णायां सत्यां सुखस्य गन्धमात्रमप्युपपद्यते इत्यर्थः ॥ ६६ ॥
६७67
इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते ।
तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि ॥ ६७ ॥
indriyāṇāṃ hi caratāṃ yanmano'nuvidhīyate |
tadasya harati prajñāṃ vāyurnāvamivāmbhasi || 67 ||
इन्द्रियाणां हि यस्मात् चरतां स्वस्वविषयेषु प्रवर्तमानानां यत् मनः अनुविधीयते अनुप्रवर्तते तत् इन्द्रियविषयविकल्पनेन प्रवृत्तं मनः अस्य यतेः हरति प्रज्ञाम् आत्मानात्मविवेकजां नाशयति । कथम् ? वायुः नावमिव अम्भसि उदके जिगमिषतां मार्गादुद्धृत्य उन्मार्गे यथा वायुः नावं प्रवर्तयति, एवमात्मविषयां प्रज्ञां हृत्वा मनो विषयविषयां करोति ॥ ६७ ॥
६८68
तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः ।
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥ ६८ ॥
tasmādyasya mahābāho nigṛhītāni sarvaśaḥ |
indriyāṇīndriyārthebhyastasya prajñā pratiṣṭhitā || 68 ||
इन्द्रियाणां प्रवृत्तौ दोष उपपादितो यस्मात् , तस्मात् यस्य यतेः हे महाबाहो, निगृहीतानि सर्वशः सर्वप्रकारैः मानसादिभेदैः इन्द्रियाणि इन्द्रियार्थेभ्यः शब्दादिभ्यः तस्य प्रज्ञा प्रतिष्ठिता ॥ ६८ ॥
६९69
या निशा सर्वभूतानां तस्यां जागर्ति संयमी ।
यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥ ६९ ॥
yā niśā sarvabhūtānāṃ tasyāṃ jāgarti saṃyamī |
yasyāṃ jāgrati bhūtāni sā niśā paśyato muneḥ || 69 ||
या निशा रात्रिः सर्वपदार्थानामविवेककरी तमःस्वभावत्वात् सर्वभूतानां सर्वेषां भूतानाम् । किं तत् परमार्थतत्त्वं स्थितप्रज्ञस्य विषयः । यथा नक्तञ्चराणाम् अहरेव सदन्येषां निशा भवति, तद्वत् नक्तञ्चरस्थानीयानामज्ञानां सर्वभूतानां निशेव निशा परमार्थतत्त्वम् , अगोचरत्वादतद्बुद्धीनाम् । तस्यां परमार्थतत्त्वलक्षणायामज्ञाननिद्रायाः प्रबुद्धो जागर्ति संयमी संयमवान् , जितेन्द्रियो योगीत्यर्थः । यस्यां ग्राह्यग्राहकभेदलक्षणायामविद्यानिशायां प्रसुप्तान्येव भूतानि जाग्रति इति उच्यन्ते, यस्यां निशायां प्रसुप्ता इव स्वप्नदृशः, सा निशा अविद्यारूपत्वात् परमार्थतत्त्वं पश्यतो मुनेः ॥
अतः कर्माणि अविद्यावस्थायामेव चोद्यन्ते, न विद्यावस्थायाम् । विद्यायां हि सत्याम् उदिते सवितरि शार्वरमिव तमः प्रणाशमुपगच्छति अविद्या । प्राक् विद्योत्पत्तेः अविद्या प्रमाणबुद्ध्या गृह्यमाणा क्रियाकारकफलभेदरूपा सती सर्वकर्महेतुत्वं प्रतिपद्यते । न अप्रमाणबुद्ध्या गृह्यमाणायाः कर्महेतुत्वोपपत्तिः, ‘प्रमाणभूतेन वेदेन मम चोदितं कर्तव्यं कर्म’ इति हि कर्मणि कर्ता प्रवर्तते, न ‘अविद्यामात्रमिदं सर्वं निशेव’ इति । यस्य पुनः ‘निशेव अविद्यामात्रमिदं सर्वं भेदजातम्’ इति ज्ञानं तस्य आत्मज्ञस्य सर्वकर्मसन्न्यासे एव अधिकारो न प्रवृत्तौ । तथा च दर्शयिष्यति — ‘तद्बुद्धयस्तदात्मानः’ (भ. गी. ५ । १७) इत्यादिना ज्ञाननिष्ठायामेव तस्य अधिकारम् ॥
तत्रापि प्रवर्तकप्रमाणाभावे प्रवृत्त्यनुपपत्तिः इति चेत् , न ; स्वात्मविषयत्वादात्मविज्ञानस्य । न हि आत्मनः स्वात्मनि प्रवर्तकप्रमाणापेक्षता, आत्मत्वादेव । तदन्तत्वाच्च सर्वप्रमाणानां प्रमाणत्वस्य । न हि आत्मस्वरूपाधिगमे सति पुनः प्रमाणप्रमेयव्यवहारः सम्भवति । प्रमातृत्वं हि आत्मनः निवर्तयति अन्त्यं प्रमाणम् ; निवर्तयदेव च अप्रमाणीभवति, स्वप्नकालप्रमाणमिव प्रबोधे । लोके च वस्त्वधिगमे प्रवृत्तिहेतुत्त्वादर्शनात् प्रमाणस्य । तस्मात् न आत्मविदः कर्मण्यधिकार इति सिद्धम् ॥ ६९ ॥
७०70
आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत् ।
तद्वत्कामा यं प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामी ॥ ७० ॥
āpūryamāṇamacalapratiṣṭhaṃ samudramāpaḥ praviśanti yadvat |
tadvatkāmā yaṃ praviśanti sarve sa śāntimāpnoti na kāmakāmī || 70 ||
आपूर्यमाणम् अद्भिः अचलप्रतिष्ठम् अचलतया प्रतिष्ठा अवस्थितिः यस्य तम् अचलप्रतिष्ठं समुद्रम् आपः सर्वतो गताः प्रविशन्ति स्वात्मस्थमविक्रियमेव सन्तं यद्वत् , तद्वत् कामाः विषयसन्निधावपि सर्वतः इच्छाविशेषाः यं पुरुषम् — समुद्रमिव आपः — अविकुर्वन्तः प्रविशन्ति सर्वे आत्मन्येव प्रलीयन्ते न स्वात्मवशं कुर्वन्ति, सः शान्तिं मोक्षम् आप्नोति, न इतरः कामकामी, काम्यन्त इति कामाः विषयाः तान् कामयितुं शीलं यस्य सः कामकामी, नैव प्राप्नोति इत्यर्थः ॥ ७० ॥
७१71
विहाय कामान्यः सर्वान्पुमांश्चरति निःस्पृहः ।
निर्ममो निरहङ्कारः स शान्तिमधिगच्छति ॥ ७१ ॥
vihāya kāmānyaḥ sarvānpumāṃścarati niḥspṛhaḥ |
nirmamo nirahaṅkāraḥ sa śāntimadhigacchati || 71 ||
विहाय परित्यज्य कामान् यः सन्न्यासी पुमान् सर्वान् अशेषतः कार्त्स्न्येन चरति, जीवनमात्रचेष्टाशेषः पर्यटतीत्यर्थः । निःस्पृहः शरीरजीवनमात्रेऽपि निर्गता स्पृहा यस्य सः निःस्पृहः सन् , निर्ममः शरीरजीवनमात्राक्षिप्तपरिग्रहेऽपि ममेदम् इत्यपभिनिवेशवर्जितः, निरहङ्कारः विद्यावत्त्वादिनिमित्तात्मसम्भावनारहितः इत्येतत् । सः एवम्भूतः स्थितप्रज्ञः ब्रह्मवित् शान्तिं सर्वसंसारदुःखोपरमलक्षणां निर्वाणाख्याम् अधिगच्छति प्राप्नोति ब्रह्मभूतो भवति इत्यर्थः ॥ ७१ ॥
७२72
एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति ।
स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति ॥ ७२ ॥
eṣā brāhmī sthitiḥ pārtha naināṃ prāpya vimuhyati |
sthitvāsyāmantakāle'pi brahmanirvāṇamṛcchati || 72 ||
एषा यथोक्ता ब्राह्मी ब्रह्मणि भवा इयं स्थितिः सर्वं कर्म सन्न्यस्य ब्रह्मरूपेणैव अवस्थानम् इत्येतत् । हे पार्थ, न एनां स्थितिं प्राप्य लब्ध्वा न विमुह्यति न मोहं प्राप्नोति । स्थित्वा अस्यां स्थितौ ब्राह्म्यां यथोक्तायां अन्तकालेऽपि अन्त्ये वयस्यपि ब्रह्मनिर्वाणं ब्रह्मनिर्वृतिं मोक्षम् ऋच्छति गच्छति । किमु वक्तव्यं ब्रह्मचर्यादेव सन्न्यस्य यावज्जीवं यो ब्रह्मण्येव अवतिष्ठते स ब्रह्मनिर्वाणमृच्छति इति ॥ ७२ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छङ्करभगवतः कृतौ श्रीमत्भगवद्गीताभाष्ये द्वितीयोऽध्यायः ॥
iti śrīmatparamahaṃsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya
śrīmacchaṅkarabhagavataḥ kṛtau śrīmatbhagavadgītābhāṣye dvitīyo'dhyāyaḥ ||