षष्ठोऽध्यायः
अतीतानन्तराध्यायान्ते ध्यानयोगस्य सम्यग्दर्शनं प्रति अन्तरङ्गस्य सूत्रभूताः श्लोकाः ‘स्पर्शान् कृत्वा बहिः’ (भ. गी. ५ । २७) इत्यादयः उपदिष्टाः । तेषां वृत्तिस्थानीयः अयं षष्ठोऽध्यायः आरभ्यते । तत्र ध्यानयोगस्य बहिरङ्गं कर्म इति, यावत् ध्यानयोगारोहणसमर्थः तावत् गृहस्थेन अधिकृतेन कर्तव्यं कर्म इत्यतः तत् स्तौति — अनाश्रित इति ॥
ननु किमर्थं ध्यानयोगारोहणसीमाकरणम् , यावता अनुष्ठेयमेव विहितं कर्म यावज्जीवम् । न, ‘आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते’ (भ. गी. ६ । ३) इति विशेषणात् , आरूढस्य च शमेनैव सम्बन्धकरणात् । आरुरुक्षोः आरूढस्य च शमः कर्म च उभयं कर्तव्यत्वेन अभिप्रेतं चेत्स्यात् , तदा ‘आरुरुक्षोः’ ‘आरूढस्य च’ इति शमकर्मविषयभेदेन विशेषणं विभागकरणं च अनर्थकं स्यात् ॥
तत्र आश्रमिणां कश्चित् योगमारुरुक्षुः भवति, आरूढश्च कश्चित् , अन्ये न आरुरुक्षवः न च आरूढाः ; तानपेक्ष्य ‘आरुरुक्षोः’ ‘आरूढस्य च’ इति विशेषणं विभागकरणं च उपपद्यत एवेति चेत् , न ; ‘तस्यैव’ इति वचनात् , पुनः योगग्रहणाच्च ‘योगारूढस्य’ इति ; य आसीत् पूर्वं योगमारुरुक्षुः, तस्यैव आरूढस्य शम एव कर्तव्यः कारणं योगफलं प्रति उच्यते इति । अतो न यावज्जीवं कर्तव्यत्वप्राप्तिः कस्यचिदपि कर्मणः । योगविभ्रष्टवचनाच्च — गृहस्थस्य चेत् कर्मिणो योगो विहितः षष्ठे अध्याये, सः योगविभ्रष्टोऽपि कर्मगतिं कर्मफलं प्राप्नोति इति तस्य नाशाशङ्का अनुपपन्ना स्यात् । अवश्यं हि कृतं कर्म काम्यं नित्यं वा — मोक्षस्य नित्यत्वात् अनारभ्यत्वे — स्वं फलं आरभत एव । नित्यस्य च कर्मणः वेदप्रमाणावबुद्धत्वात् फलेन भवितव्यम् इति अवोचाम, अन्यथा वेदस्य आनर्थक्यप्रसङ्गात् इति । न च कर्मणि सति उभयविभ्रष्टवचनम् , अर्थवत् कर्मणो विभ्रंशकारणानुपपत्तेः ॥
कर्म कृतम् ईश्वरे सन्न्यस्य इत्यतः कर्तुः कर्म फलं नारभत इति चेत् , न ; ईश्वरे सन्न्यासस्य अधिकतरफलहेतुत्वोपपत्तेः ॥
मोक्षायैव इति चेत् , स्वकर्मणां कृतानां ईश्वरे सन्न्यासो मोक्षायैव, न फलान्तराय योगसहितः ; योगाच्च विभ्रष्टः ; इत्यतः तं प्रति नाशाशङ्का युक्तैव इति चेत् , न ; ‘एकाकी यतचित्तात्मा निराशीरपरिग्रहः’ (भ. गी. ६ । १०) ‘ब्रह्मचारिव्रते स्थितः’ (भ. गी. ६ । १४) इति कर्मसन्न्यासविधानात् । न च अत्र ध्यानकाले स्त्रीसहायत्वाशङ्का, येन एकाकित्वं विधीयते । न च गृहस्थस्य ‘निराशीरपरिग्रहः’ इत्यादिवचनम् अनुकूलम् । उभयविभ्रष्टप्रश्नानुपपत्तेश्च ॥
अनाश्रित इत्यनेन कर्मिण एव सन्न्यासित्वं योगित्वं च उक्तम् , प्रतिषिद्धं च निरग्नेः अक्रियस्य च सन्न्यासित्वं योगित्वं चेति चेत् , न ; ध्यानयोगं प्रति बहिरङ्गस्य यतः कर्मणः फलाकाङ्क्षासन्न्यासस्तुतिपरत्वात् । न केवलं निरग्निः अक्रियः एव सन्न्यासी योगी च । किं तर्हि ? कर्म्यपि, कर्मफलासङ्गं सन्न्यस्य कर्मयोगम् अनुतिष्ठन् सत्त्वशुद्ध्यर्थम् , ‘स सन्न्यासी च योगी च भवति’ इति स्तूयते । न च एकेन वाक्येन कर्मफलासङ्गसन्न्यासस्तुतिः चतुर्थाश्रमप्रतिषेधश्च उपपद्यते । न च प्रसिद्धं निरग्नेः अक्रियस्य परमार्थसन्न्यासिनः श्रुतिस्मृतिपुराणेतिहासयोगशास्त्रेषु विहितं सन्न्यासित्वं योगित्वं च प्रतिषेधति भगवान् । स्ववचनविरोधाच्च — ‘सर्वकर्माणि मनसा सन्न्सस्य . . . नैव कुर्वन्न कारयन् आस्ते’ (भ. गी. ५ । १३) ‘मौनी सन्तुष्टो येन केनचित् अनिकेतः स्थिरमतिः’ (भ. गी. १२ । १९) ‘विहाय कामान्यः सर्वान् पुमांश्चरति निःस्पृहः’ (भ. गी. २ । ७१) ‘सर्वारम्भपरित्यागी’ (भ. गी. १२ । १६) इति च तत्र तत्र भगवता स्ववचनानि दर्शितानि ; तैः विरुध्येत चतुर्थाश्रमप्रतिषेधः । तस्मात् मुनेः योगम् आरुरुक्षोः प्रतिपन्नगार्हस्थ्यस्य अग्निहोत्रादिकर्म फलनिरपेक्षम् अनुष्ठीयमानं ध्यानयोगारोहणसाधनत्वं सत्त्वशुद्धिद्वारेण प्रतिपद्यते इति ‘स सन्न्यासी च योगी च’ इति स्तूयते ॥
१1
श्रीभगवानुवाच —
अनाश्रितः कर्मफलं कार्यं कर्म करोति यः ।
स सन्न्यासी च योगी च न निरग्निर्न चाक्रियः ॥ १ ॥
śrībhagavānuvāca —
anāśritaḥ karmaphalaṃ kāryaṃ karma karoti yaḥ |
sa sannyāsī ca yogī ca na niragnirna cākriyaḥ || 1 ||
अनाश्रितः न आश्रितः अनाश्रितः । किम् ? कर्मफलं कर्मणां फलं कर्मफलं यत् तदनाश्रितः, कर्मफलतृष्णारहित इत्यर्थः । यो हि कर्मफले तृष्णावान् सः कर्मफलमाश्रितो भवति, अयं तु तद्विपरीतः, अतः अनाश्रितः कर्मफलम् । एवम्भूतः सन् कार्यं कर्तव्यं नित्यं काम्यविपरीतम् अग्निहोत्रादिकं कर्म करोति निर्वर्तयति यः कश्चित् ईदृशः कर्मी स कर्म्यन्तरेभ्यो विशिष्यते इत्येवमर्थमाह — ‘स सन्न्यासी च योगी च’ इति । सन्न्यासः परित्यागः स यस्यास्ति स सन्न्यासी च, योगी च योगः चित्तसमाधानं स यस्यास्ति स योगी च इति एवङ्गुणसम्पन्नः अयं मन्तव्यः’ न केवलं निरग्निः अक्रिय एव सन्न्यासी योगी च इति मन्तव्यः । निर्गताः अग्नयः कर्माङ्गभूताः यस्मात् स निरग्निः, अक्रियश्च अनग्निसाधना अपि अविद्यमानाः क्रियाः तपोदानादिकाः यस्य असौ अक्रियः ॥ १ ॥
२2
यं सन्न्यासमिति प्राहुर्योगं तं विद्धि पाण्डव ।
न ह्यसन्न्यस्तसङ्कल्पो योगी भवति कश्चन ॥ २ ॥
yaṃ sannyāsamiti prāhuryogaṃ taṃ viddhi pāṇḍava |
na hyasannyastasaṅkalpo yogī bhavati kaścana || 2 ||
यं सर्वकर्मतत्फलपरित्यागलक्षणं परमार्थसन्न्यासं सन्न्यासम् इति प्राहुः श्रुतिस्मृतिविदः, योगं कर्मानुष्ठानलक्षणं तं परमार्थसन्न्यासं विद्धि जानीहि हे पाण्डव । कर्मयोगस्य प्रवृत्तिलक्षणस्य तद्विपरीतेन निवृत्तिलक्षणेन परमार्थसन्न्यासेन कीदृशं सामान्यमङ्गीकृत्य तद्भाव उच्यते इत्यपेक्षायाम् इदमुच्यते — अस्ति हि परमार्थसन्न्यासेन सादृश्यं कर्तृद्वारकं कर्मयोगस्य । यो हि परमार्थसन्न्यासी स त्यक्तसर्वकर्मसाधनतया सर्वकर्मतत्फलविषयं सङ्कल्पं प्रवृत्तिहेतुकामकारणं सन्न्यस्यति । अयमपि कर्मयोगी कर्म कुर्वाण एव फलविषयं सङ्कल्पं सन्न्यस्यति इत्येतमर्थं दर्शयिष्यन् आह — न हि यस्मात् असन्न्यस्तसङ्कल्पः असन्न्यस्तः अपरित्यक्तः फलविषयः सङ्कल्पः अभिसन्धिः येन सः असन्न्यस्तसङ्कल्पः कश्चन कश्चिदपि कर्मी योगी समाधानवान् भवति न सम्भवतीत्यर्थः, फलसङ्कल्पस्य चित्तविक्षेपहेतुत्वात् । तस्मात् यः कश्चन कर्मी सन्न्यस्तफलसङ्कल्पो भवेत् स योगी समाधानवान् अविक्षिप्तचित्तो भवेत् , चित्तविक्षेपहेतोः फलसङ्कल्पस्य सन्न्यस्तत्वादित्यभिप्रायः ॥ २ ॥
३3
आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते ।
योगारूढस्य तस्यैव शमः कारणमुच्यते ॥ ३ ॥
ārurukṣormuneryogaṃ karma kāraṇamucyate |
yogārūḍhasya tasyaiva śamaḥ kāraṇamucyate || 3 ||
आरुरुक्षोः आरोढुमिच्छतः, अनारूढस्य, ध्यानयोगे अवस्थातुमशक्तस्यैवेत्यर्थः । कस्य तस्य आरुरुक्षोः ? मुनेः, कर्मफलसन्न्यासिन इत्यर्थः । किमारुरुक्षोः ? योगम् । कर्म कारणं साधनम् उच्यते । योगारूढस्य पुनः तस्यैव शमः उपशमः सर्वकर्मभ्यो निवृत्तिः कारणं योगारूढस्य साधनम् उच्यते इत्यर्थः । यावद्यावत् कर्मभ्यः उपरमते, तावत्तावत् निरायासस्य जितेन्द्रियस्य चित्तं समाधीयते । तथा सति स झटिति योगारूढो भवति । तथा चोक्तं व्यासेन — ‘नैतादृशं ब्राह्मणस्यास्ति वित्तं यथैकता समता सत्यता च । शीलं स्थितिर्दण्डनिधानमार्जवं ततस्ततश्चोपरमः क्रियाभ्यः’ (मो. ध. १७५ । ३७) इति ॥ ३ ॥
४4
यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्जते ।
सर्वसङ्कल्पसन्न्यासी योगारूढस्तदोच्यते ॥ ४ ॥
yadā hi nendriyārtheṣu na karmasvanuṣajjate |
sarvasaṅkalpasannyāsī yogārūḍhastadocyate || 4 ||
यदा समाधीयमानचित्तो योगी हि इन्द्रियार्थेषु इन्द्रियाणामर्थाः शब्दादयः तेषु इन्द्रियार्थेषु कर्मसु च नित्यनैमित्तिककाम्यप्रतिषिद्धेषु प्रयोजनाभावबुद्ध्या न अनुषज्जते अनुषङ्गं कर्तव्यताबुद्धिं न करोतीत्यर्थः । सर्वसङ्कल्पसन्न्यासी सर्वान् सङ्कल्पान् इहामुत्रार्थकामहेतून् सन्न्यसितुं शीलम् अस्य इति सर्वसङ्कल्पसन्न्यासी, योगारूढः प्राप्तयोग इत्येतत् , तदा तस्मिन् काले उच्यते । ‘सर्वसङ्कल्पसन्न्यासी’ इति वचनात् सर्वांश्च कामान् सर्वाणि च कर्माणि सन्न्यस्येदित्यर्थः । सङ्कल्पमूला हि सर्वे कामाः — ‘सङ्कल्पमूलः कामो वै यज्ञाः सङ्कल्पसम्भवाः । ’ (मनु. २ । ३) ‘काम जानामि ते मूलं सङ्कल्पात्किल जायसे । न त्वां सङ्कल्पयिष्यामि तेन मे न भविष्यसि’ (मो. ध. १७७ । २५) इत्यादिस्मृतेः । सर्वकामपरित्यागे च सर्वकर्मसन्न्यासः सिद्धो भवति, ‘स यथाकामो भवति तत्क्रतुर्भवति यत्क्रतुर्भवति तत्कर्म कुरुते’ (बृ. उ. ४ । ४ । ५) इत्यादिश्रुतिभ्यः ; ‘यद्यद्धि कुरुते जन्तुः तत्तत् कामस्य चेष्टितम्’ (मनु. २ । ४) इत्यादिस्मृतिभ्यश्च ; न्यायाच्च — न हि सर्वसङ्कल्पसन्न्यासे कश्चित् स्पन्दितुमपि शक्तः । तस्मात् ‘सर्वसङ्कल्पसन्न्यासी’ इति वचनात् सर्वान् कामान् सर्वाणि कर्माणि च त्याजयति भगवान् ॥ ४ ॥
५5
उद्धरेदात्मनात्मानं नात्मानमवसादयेत् ।
आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ॥ ५ ॥
uddharedātmanātmānaṃ nātmānamavasādayet |
ātmaiva hyātmano bandhurātmaiva ripurātmanaḥ || 5 ||
उद्धरेत् संसारसागरे निमग्नम् आत्मना आत्मानं ततः उत् ऊर्ध्वं हरेत् उद्धरेत् , योगारूढतामापादयेदित्यर्थः । न आत्मानम् अवसादयेत् न अधः नयेत् , न अधः गमयेत् । आत्मैव हि यस्मात् आत्मनः बन्धुः । न हि अन्यः कश्चित् बन्धुः, यः संसारमुक्तये भवति । बन्धुरपि तावत् मोक्षं प्रति प्रतिकूल एव, स्नेहादिबन्धनायतनत्वात् । तस्मात् युक्तमवधारणम् ‘आत्मैव ह्यात्मनो बन्धुः’ इति । आत्मैव रिपुः शत्रुः । यः अन्यः अपकारी बाह्यः शत्रुः सोऽपि आत्मप्रयुक्त एवेति युक्तमेव अवधारणम् ‘आत्मैव रिपुरात्मनः’ इति ॥ ५ ॥
६6
बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जितः ।
अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् ॥ ६ ॥
bandhurātmātmanastasya yenātmaivātmanā jitaḥ |
anātmanastu śatrutve vartetātmaiva śatruvat || 6 ||
बन्धुः आत्मा आत्मनः तस्य, तस्य आत्मनः स आत्मा बन्धुः येन आत्मना आत्मैव जितः, आत्मा कार्यकरणसङ्घातो येन वशीकृतः, जितेन्द्रिय इत्यर्थः । अनात्मनस्तु अजितात्मनस्तु शत्रुत्वे शत्रुभावे वर्तेत आत्मैव शत्रुवत् , यथा अनात्मा शत्रुः आत्मनः अपकारी, तथा आत्मा आत्मन अपकारे वर्तेत इत्यर्थः ॥ ६ ॥
७7
जितात्मनः प्रशान्तस्य परमात्मा समाहितः ।
शीतोष्णसुखदुःखेषु तथा मानापमानयोः ॥ ७ ॥
jitātmanaḥ praśāntasya paramātmā samāhitaḥ |
śītoṣṇasukhaduḥkheṣu tathā mānāpamānayoḥ || 7 ||
जितात्मनः कार्यकरणसङ्घात आत्मा जितो येन सः जितात्मा तस्य जितात्मनः, प्रशान्तस्य प्रसन्नान्तःकरणस्य सतः सन्न्यासिनः परमात्मा समाहितः साक्षादात्मभावेन वर्तते इत्यर्थः । किञ्च शीतोष्णसुखदुःखेषु तथा माने अपमाने च मानापमानयोः पूजापरिभवयोः समः स्यात् ॥ ७ ॥
८8
ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः ।
युक्त इत्युच्यते योगी समलोष्टाश्मकाञ्चनः ॥ ८ ॥
jñānavijñānatṛptātmā kūṭastho vijitendriyaḥ |
yukta ityucyate yogī samaloṣṭāśmakāñcanaḥ || 8 ||
ज्ञानविज्ञानतृप्तात्मा ज्ञानं शास्त्रोक्तपदार्थानां परिज्ञानम् , विज्ञानं तु शास्त्रतो ज्ञातानां तथैव स्वानुभवकरणम् , ताभ्यां ज्ञानविज्ञानाभ्यां तृप्तः सञ्जातालम्प्रत्ययः आत्मा अन्तःकरणं यस्य सः ज्ञानविज्ञानतृप्तात्मा, कूटस्थः अप्रकम्प्यः, भवति इत्यर्थः ; विजितेन्द्रियश्च । य ईदृशः, युक्तः समाहितः इति स उच्यते कथ्यते । स योगी समलोष्टाश्मकाञ्चनः लोष्टाश्मकाञ्चनानि समानि यस्य सः समलोष्टाश्मकाञ्चनः ॥ ८ ॥
९9
सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु ।
साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते ॥ ९ ॥
suhṛnmitrāryudāsīnamadhyasthadveṣyabandhuṣu |
sādhuṣvapi ca pāpeṣu samabuddhirviśiṣyate || 9 ||
‘सुहृत्’ इत्यादिश्लोकार्धम् एकं पदम् । सुहृत् इति प्रत्युपकारमनपेक्ष्य उपकर्ता, मित्रं स्नेहवान् , अरिः शत्रुः, उदासीनः न कस्यचित् पक्षं भजते, मध्यस्थः यो विरुद्धयोः उभयोः हितैषी, द्वेष्यः आत्मनः अप्रियः, बन्धुः सम्बन्धी इत्येतेषु साधुषु शास्त्रानुवर्तिषु अपि च पापेषु प्रतिषिद्धकारिषु सर्वेषु एतेषु समबुद्धिः ‘कः किङ्कर्मा’ इत्यव्यापृतबुद्धिरित्यर्थः । विशिष्यते, ‘विमुच्यते’ इति वा पाठान्तरम् । योगारूढानां सर्वेषाम् अयम् उत्तम इत्यर्थः ॥ ९ ॥
१०10
योगी युञ्जीत सततमात्मानं रहसि स्थितः ।
एकाकी यतचित्तात्मा निराशीरपरिग्रहः ॥ १० ॥
yogī yuñjīta satatamātmānaṃ rahasi sthitaḥ |
ekākī yatacittātmā nirāśīraparigrahaḥ || 10 ||
योगी ध्यायी युञ्जीत समादध्यात् सततं सर्वदा आत्मानम् अन्तःकरणं रहसि एकान्ते गिरिगुहादौ स्थितः सन् एकाकी असहायः । ‘रहसि स्थितः एकाकी च’ इति विशेषणात् सन्न्यासं कृत्वा इत्यर्थः । यतचित्तात्मा चित्तम् अन्तःकरणम् आत्मा देहश्च संयतौ यस्य सः यतचित्तात्मा, निराशीः वीततृष्णः अपरिग्रहः परिग्रहरहितश्चेत्यर्थः । सन्न्यासित्वेऽपि त्यक्तसर्वपरिग्रहः सन् युञ्जीत इत्यर्थः ॥ १० ॥
११11
शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः ।
नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् ॥ ११ ॥
śucau deśe pratiṣṭhāpya sthiramāsanamātmanaḥ |
nātyucchritaṃ nātinīcaṃ cailājinakuśottaram || 11 ||
शुचौ शुद्धे विविक्ते स्वभावतः संस्कारतो वा, देशे स्थाने प्रतिष्ठाप्य स्थिरम् अचलम् आत्मनः आसनं नात्युच्छ्रितं नातीव उच्छ्रितं न अपि अतिनीचम् , तच्च चैलाजिनकुशोत्तरं चैलम् अजिनं कुशाश्च उत्तरे यस्मिन् आसने तत् आसनं चैलाजिनकुशोत्तरम् । पाठक्रमाद्विपरीतः अत्र क्रमः चैलादीनाम् ॥ ११ ॥
१२12
तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः ।
उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये ॥ १२ ॥
tatraikāgraṃ manaḥ kṛtvā yatacittendriyakriyaḥ |
upaviśyāsane yuñjyādyogamātmaviśuddhaye || 12 ||
तत्र तस्मिन् आसने उपविश्य योगं युञ्ज्यात् । कथम् ? सर्वविषयेभ्यः उपसंहृत्य एकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः चित्तं च इन्द्रियाणि च चित्तेन्द्रियाणि तेषां क्रियाः संयता यस्य सः यतचित्तेन्द्रियक्रियः । स किमर्थं योगं युञ्ज्यात् इत्याह — आत्मविशुद्धये अन्तःकरणस्य विशुद्ध्यर्थमित्येतत् ॥ १२ ॥
१३13
समं कायशिरोग्रीवं धारयन्नचलं स्थिरः ।
सम्प्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् ॥ १३ ॥
samaṃ kāyaśirogrīvaṃ dhārayannacalaṃ sthiraḥ |
samprekṣya nāsikāgraṃ svaṃ diśaścānavalokayan || 13 ||
समं कायशिरोग्रीवं कायश्च शिरश्च ग्रीवा च कायशिरोग्रीवं तत् समं धारयन् अचलं च । समं धारयतः चलनं सम्भवति ; अतः विशिनष्टि — अचलमिति । स्थिरः स्थिरो भूत्वा इत्यर्थः । स्वं नासिकाग्रं सम्प्रेक्ष्य सम्यक् प्रेक्षणं दर्शनं कृत्वेव इति । इवशब्दो लुप्तो द्रष्टव्यः । न हि स्वनासिकाग्रसम्प्रेक्षणमिह विधित्सितम् । किं तर्हि ? चक्षुषो दृष्टिसन्निपातः । स च अन्तःकरणसमाधानापेक्षो विवक्षितः । स्वनासिकाग्रसम्प्रेक्षणमेव चेत् विवक्षितम् , मनः तत्रैव समाधीयेत, नात्मनि । आत्मनि हि मनसः समाधानं वक्ष्यति ‘आत्मसंस्थं मनः कृत्वा’ (भ. गी. ६ । २५) इति । तस्मात् इवशब्दलोपेन अक्ष्णोः दृष्टिसन्निपात एव ‘सम्प्रेक्ष्य’ इत्युच्यते । दिशश्च अनवलोकयन् दिशां च अवलोकनमन्तराकुर्वन् इत्येतत् ॥ १३ ॥
१४14
प्रशान्तात्मा विगतभीर्ब्रह्मचारिव्रते स्थितः ।
मनः संयम्य मच्चित्तो युक्त आसीत मत्परः ॥ १४ ॥
praśāntātmā vigatabhīrbrahmacārivrate sthitaḥ |
manaḥ saṃyamya maccitto yukta āsīta matparaḥ || 14 ||
प्रशान्तात्मा प्रकर्षेण शान्तः आत्मा अन्तःकरणं यस्य सोऽयं प्रशान्तात्मा, विगतभीः विगतभयः, ब्रह्मचारिव्रते स्थितः ब्रह्मचारिणो व्रतं ब्रह्मचर्यं गुरुशुश्रूषाभिक्षान्नभुक्त्यादि तस्मिन् स्थितः, तदनुष्ठाता भवेदित्यर्थः । किञ्च, मनः संयम्य मनसः वृत्तीः उपसंहृत्य इत्येतत् , मच्चित्तः मयि परमेश्वरे चित्तं यस्य सोऽयं मच्चित्तः, युक्तः समाहितः सन् आसीत उपविशेत् । मत्परः अहं परो यस्य सोऽयं मत्परो भवति । कश्चित् रागी स्त्रीचित्तः, न तु स्त्रियमेव परत्वेन गृह्णाति ; किं तर्हि ? राजानं महादेवं वा । अयं तु मच्चित्तो मत्परश्च ॥ १४ ॥
१५15
युञ्जन्नेवं सदात्मानं योगी नियतमानसः ।
शान्तिं निर्वाणपरमां मत्संस्थामधिगच्छति ॥ १५ ॥
yuñjannevaṃ sadātmānaṃ yogī niyatamānasaḥ |
śāntiṃ nirvāṇaparamāṃ matsaṃsthāmadhigacchati || 15 ||
युञ्जन् समाधानं कुर्वन् एवं यतोक्तेन विधानेन सदा आत्मानं सर्वदा योगी नियतमानसः नियतं संयतं मानसं मनो यस्य सोऽयं नियतमानसः, शान्तिम् उपरतिं निर्वाणपरमां निर्वाणं मोक्षः तत् परमा निष्ठा यस्याः शान्तेः सा निर्वाणपरमा तां निर्वाणपरमाम् , मत्संस्थां मदधीनाम् अधिगच्छति प्राप्नोति ॥ १५ ॥
१६16
नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नतः ।
न चातिस्वप्नशीलस्य जाग्रतो नैव चार्जुन ॥ १६ ॥
nātyaśnatastu yogo'sti na caikāntamanaśnataḥ |
na cātisvapnaśīlasya jāgrato naiva cārjuna || 16 ||
न अत्यश्नतः आत्मसम्मितमन्नपरिमाणमतीत्याश्नतः अत्यश्नतः न योगः अस्ति । न च एकान्तम् अनश्नतः योगः अस्ति । ‘यदु ह वा आत्मसम्मितमन्नं तदवति तन्न हिनस्ति यद्भूयो हिनस्ति तद्यत् कनीयोऽन्नं न तदवति’ (श. ब्रा. ? ) इति श्रुतेः । तस्मात् योगी न आत्मसम्मितात् अन्नात् अधिकं न्यूनं वा अश्नीयात् । अथवा, योगिनः योगशास्त्रे परिपठीतात् अन्नपरिमाणात् अतिमात्रमश्नतः योगो नास्ति । उक्तं हि — ‘अर्धं सव्यञ्जनान्नस्य तृतीयमुदकस्य च । वायोः सञ्चरणार्थं तु चतुर्थमवशेषयेत्’ ( ? ) इत्यादिपरिमाणम् । तथा — न च अतिस्वप्नशीलस्य योगो भवति नैव च अतिमात्रं जाग्रतो भवति च अर्जुन ॥ १६ ॥
१७17
युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु ।
युक्तस्वप्नावबोधस्य योगो भवति दुःखहा ॥ १७ ॥
yuktāhāravihārasya yuktaceṣṭasya karmasu |
yuktasvapnāvabodhasya yogo bhavati duḥkhahā || 17 ||
युक्ताहारविहारस्य आह्रियते इति आहारः अन्नम् , विहरणं विहारः पादक्रमः, तौ युक्तौ नियतपरिमाणौ यस्य सः युक्ताहारविहारः तस्य, तथा युक्तचेष्टस्य युक्ता नियता चेष्टा यस्य कर्मसु तस्य, तथा युक्तस्वप्नावबोधस्य युक्तौ स्वप्नश्च अवबोधश्च तौ नियतकालौ यस्य तस्य, युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु युक्तस्वप्नावबोधस्य योगिनो योगो भवति दुःखहा दुःखानि सर्वाणि हन्तीति दुःखहा, सर्वसंसारदुःखक्षयकृत् योगः भवतीत्यर्थः ॥ १७ ॥
१८18
यदा विनियतं चित्तमात्मन्येवावतिष्ठते ।
निःस्पृहः सर्वकामेभ्यो युक्त इत्युच्यते तदा ॥ १८ ॥
yadā viniyataṃ cittamātmanyevāvatiṣṭhate |
niḥspṛhaḥ sarvakāmebhyo yukta ityucyate tadā || 18 ||
यदा विनियतं विशेषेण नियतं संयतम् एकाग्रतामापन्नं चित्तं हित्वा बाह्यार्थचिन्ताम् आत्मन्येव केवले अवतिष्ठते, स्वात्मनि स्थितिं लभते इत्यर्थः । निःस्पृहः सर्वकामेभ्यः निर्गता दृष्टादृष्टविषयेभ्यः स्पृहा तृष्णा यस्य योगिनः सः युक्तः समाहितः इत्युच्यते तदा तस्मिन्काले ॥ १८ ॥
१९19
यदा दीपो निवातस्थो नेङ्गते सोपमा स्मृता ।
योगिनो यतचित्तस्य युञ्जतो योगमात्मनः ॥ १९ ॥
yadā dīpo nivātastho neṅgate sopamā smṛtā |
yogino yatacittasya yuñjato yogamātmanaḥ || 19 ||
यथा दीपः प्रदीपः निवातस्थः निवाते वातवर्जिते देशे स्थितः न इङ्गते न चलति, सा उपमा उपमीयते अनया इत्युपमा योगज्ञैः चित्तप्रचारदर्शिभिः स्मृता चिन्तिता योगिनो यतचित्तस्य संयतान्तःकरणस्य युञ्जतो योगम् अनुतिष्ठतः आत्मनः समाधिमनुतिष्ठत इत्यर्थः ॥ १९ ॥
२०20
यत्रोपरमते चित्तं निरुद्धं योगसेवया ।
यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति ॥ २० ॥
yatroparamate cittaṃ niruddhaṃ yogasevayā |
yatra caivātmanātmānaṃ paśyannātmani tuṣyati || 20 ||
यत्र यस्मिन् काले उपरमते चित्तम् उपरतिं गच्छति निरुद्धं सर्वतो निवारितप्रचारं योगसेवया योगानुष्ठानेन, यत्र चैव यस्मिंश्च काले आत्मना समाधिपरिशुद्धेन अन्तःकरणेन आत्मानं परं चैतन्यं ज्योतिःस्वरूपं पश्यन् उपलभमानः स्वे एव आत्मनि तुष्यति तुष्टिं भजते ॥ २० ॥
२१21
सुखमात्यन्तिकं यत्तद्बुद्धिग्राह्यमतीन्द्रियम् ।
वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः ॥ २१ ॥
sukhamātyantikaṃ yattadbuddhigrāhyamatīndriyam |
vetti yatra na caivāyaṃ sthitaścalati tattvataḥ || 21 ||
सुखम् आत्यन्तिकं अत्यन्तमेव भवति इत्यात्यन्तिकम् अनन्तमित्यर्थः, यत् तत् बुद्धिग्राह्यं बुद्ध्यैव इन्द्रियनिरपेक्षया गृह्यते इति बुद्धिग्राह्यम् अतीन्द्रियम् इन्द्रियगोचरातीतम् अविषयजनितमित्यर्थः, वेत्ति तत् ईदृशं सुखमनुभवति यत्र यस्मिन् काले, न च एव अयं विद्वान् आत्मस्वरूपे स्थितः तस्मात् नैव चलति तत्त्वतः तत्त्वस्वरूपात् न प्रच्यवते इत्यर्थः ॥ २१ ॥
२२22
यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः ।
यस्मिन्स्थितो न दुःखेन गुरुणापि विचाल्यते ॥ २२ ॥
yaṃ labdhvā cāparaṃ lābhaṃ manyate nādhikaṃ tataḥ |
yasminsthito na duḥkhena guruṇāpi vicālyate || 22 ||
यं लब्ध्वा यम् आत्मलाभं लब्ध्वा प्राप्य च अपरम् अन्यत् लाभं लाभान्तरं ततः अधिकम् अस्तीति न मन्यते न चिन्तयति । किञ्च, यस्मिन् आत्मतत्त्वे स्थितः दुःखेन शस्त्रनिपातादिलक्षणेन गुरुणा महता अपि न विचाल्यते ॥ २२ ॥
२३23
तं विद्याद्दुःखसंयोगवियोगं योगसञ्ज्ञितम् ।
स निश्चयेन योक्तव्यो योगोऽनिर्विण्णचेतसा ॥ २३ ॥
taṃ vidyādduḥkhasaṃyogaviyogaṃ yogasañjñitam |
sa niścayena yoktavyo yogo'nirviṇṇacetasā || 23 ||
तं विद्यात् विजानीयात् दुःखसंयोगवियोगं दुःखैः संयोगः दुःखसंयोगः, तेन वियोगः दुःखसंयोगवियोगः, तं दुःखसंयोगवियोगं योग इत्येव सञ्ज्ञितं विपरीतलक्षणेन विद्यात् विजानीयादित्यर्थः । योगफलमुपसंहृत्य पुनरन्वारम्भेण योगस्य कर्तव्यता उच्यते निश्चयानिर्वेदयोः योगसाधनत्वविधानार्थम् । स यथोक्तफलो योगः निश्चयेन अध्यवसायेन योक्तव्यः अनिर्विण्णचेतसा न निर्विण्णम् अनिर्विण्णम् । किं तत् ? चेतः तेन निर्वेदरहितेन चेतसा चित्तेनेत्यर्थः ॥ २३ ॥
२४24
सङ्कल्पप्रभवान्कामांस्त्यक्त्वा सर्वानशेषतः ।
मनसैवेन्द्रियग्रामं विनियम्य समन्ततः ॥ २४ ॥
saṅkalpaprabhavānkāmāṃstyaktvā sarvānaśeṣataḥ |
manasaivendriyagrāmaṃ viniyamya samantataḥ || 24 ||
सङ्कल्पप्रभवान् सङ्कल्पः प्रभवः येषां कामानां ते सङ्कल्पप्रभवाः कामाः तान् त्यक्त्वा परित्यज्य सर्वान् अशेषतः निर्लेपेन । किञ्च, मनसैव विवेकयुक्तेन इन्द्रियग्रामम् इन्द्रियसमुदायं विनियम्य नियमनं कृत्वा समन्ततः समन्तात् ॥ २४ ॥
२५25
शनैः शनैरुपरमेद्बुद्ध्या धृतिगृहीतया ।
आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत् ॥ २५ ॥
śanaiḥ śanairuparamedbuddhyā dhṛtigṛhītayā |
ātmasaṃsthaṃ manaḥ kṛtvā na kiñcidapi cintayet || 25 ||
शनैः शनैः न सहसा उपरमेत् उपरतिं कुर्यात् । कया ? बुद्ध्या । किंविशिष्टया ? धृतिगृहीतया धृत्या धैर्येण गृहीतया धृतिगृहीतया धैर्येण युक्तया इत्यर्थः । आत्मसंस्थम् आत्मनि संस्थितम् ‘आत्मैव सर्वं न ततोऽन्यत् किञ्चिदस्ति’ इत्येवमात्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत् । एष योगस्य परमो विधिः ॥ २५ ॥
२६26
यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् ।
ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् ॥ २६ ॥
yato yato niścarati manaścañcalamasthiram |
tatastato niyamyaitadātmanyeva vaśaṃ nayet || 26 ||
यतो यतः यस्माद्यस्मात् निमित्तात् शब्दादेः निश्चरति निर्गच्छति स्वभावदोषात् मनः चञ्चलम् अत्यर्थं चलम् , अत एव अस्थिरम् , ततस्ततः तस्मात्तस्मात् शब्दादेः निमित्तात् नियम्य तत्तन्निमित्तं याथात्म्यनिरूपणेन आभासीकृत्य वैराग्यभावनया च एतत् मनः आत्मन्येव वशं नयेत् आत्मवश्यतामापादयेत् । एवं योगाभ्यासबलात् योगिनः आत्मन्येव प्रशाम्यति मनः ॥ २६ ॥
२७27
प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम् ।
उपैति शान्तरजसं ब्रह्मभूतमकल्मषम् ॥ २७ ॥
praśāntamanasaṃ hyenaṃ yoginaṃ sukhamuttamam |
upaiti śāntarajasaṃ brahmabhūtamakalmaṣam || 27 ||
प्रशान्तमनसं प्रकर्षेण शान्तं मनः यस्य सः प्रशान्तमनाः तं प्रशान्तमनसं हि एनं योगिनं सुखम् उत्तमं निरतिशयम् उपैति उपगच्छति शान्तरजसं प्रक्षीणमोहादिक्लेशरजसमित्यर्थः, ब्रह्मभूतं जीवन्मुक्तम् , ‘ब्रह्मैव सर्वम्’ इत्येवं निश्चयवन्तं ब्रह्मभूतम् अकल्मषं धर्माधर्मादिवर्जितम् ॥ २७ ॥
२८28
युञ्जन्नेवं सदात्मानं योगी विगतकल्मषः ।
सुखेन ब्रह्मसंस्पर्शमत्यन्तं सुखमश्नुते ॥ २८ ॥
yuñjannevaṃ sadātmānaṃ yogī vigatakalmaṣaḥ |
sukhena brahmasaṃsparśamatyantaṃ sukhamaśnute || 28 ||
युञ्जन् एवं यथोक्तेन क्रमेण योगी योगान्तरायवर्जितः सदा सर्वदा आत्मानं विगतकल्मषः विगतपापः, सुखेन अनायासेन ब्रह्मसंस्पर्शं ब्रह्मणा परेण संस्पर्शो यस्य तत् ब्रह्मसंस्पर्शं सुखम् अत्यन्तम् अन्तमतीत्य वर्तत इत्यत्यन्तम् उत्कृष्टं निरतिशयम् अश्नुते व्याप्नोति ॥ २८ ॥
२९29
सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि ।
ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः ॥ २९ ॥
sarvabhūtasthamātmānaṃ sarvabhūtāni cātmani |
īkṣate yogayuktātmā sarvatra samadarśanaḥ || 29 ||
सर्वभूतस्थं सर्वेषु भूतेषु स्थितं स्वम् आत्मानं सर्वभूतानि च आत्मनि ब्रह्मादीनि स्तम्बपर्यन्तानि च सर्वभूतानि आत्मनि एकतां गतानि ईक्षते पश्यति योगयुक्तात्मा समाहितान्तःकरणः सर्वत्र समदर्शनः सर्वेषु ब्रह्मादिस्थावरान्तेषु विषमेषु सर्वभूतेषु समं निर्विशेषं ब्रह्मात्मैकत्वविषयं दर्शनं ज्ञानं यस्य स सर्वत्र समदर्शनः ॥ २९ ॥
३०30
यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति ।
तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥ ३० ॥
yo māṃ paśyati sarvatra sarvaṃ ca mayi paśyati |
tasyāhaṃ na praṇaśyāmi sa ca me na praṇaśyati || 30 ||
यो मां पश्यति वासुदेवं सर्वस्य आत्मानं सर्वत्र सर्वेषु भूतेषु सर्वं च ब्रह्मादिभूतजातं मयि सर्वात्मनि पश्यति, तस्य एवं आत्मैकत्वदर्शिनः अहम् ईश्वरो न प्रणश्यामि न परोक्षतां गमिष्यामि । स च मे न प्रणश्यति स च विद्वान् मम वासुदेवस्य न प्रणश्यति न परोक्षो भवति, तस्य च मम च एकात्मकत्वात् ; स्वात्मा हि नाम आत्मनः प्रिय एव भवति, यस्माच्च अहमेव सर्वात्मैकत्वदर्शी ॥ ३० ॥
३१31
सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः ।
सर्वथा वर्तमानोऽपि स योगी मयि वर्तते ॥ ३१ ॥
sarvabhūtasthitaṃ yo māṃ bhajatyekatvamāsthitaḥ |
sarvathā vartamāno'pi sa yogī mayi vartate || 31 ||
सर्वथा सर्वप्रकारैः वर्तमानोऽपि सम्यग्दर्शी योगी मयि वैष्णवे परमे पदे वर्तते, नित्यमुक्त एव सः, न मोक्षं प्रति केनचित् प्रतिबध्यते इत्यर्थः ॥ ३१ ॥
३२32
आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन ।
शुखं वा यदि वा दुःखं स योगी परमो मतः ॥ ३२ ॥
ātmaupamyena sarvatra samaṃ paśyati yo'rjuna |
śukhaṃ vā yadi vā duḥkhaṃ sa yogī paramo mataḥ || 32 ||
आत्मौपम्येन आत्मा स्वयमेव उपमीयते अनया इत्युपमा तस्या उपमाया भावः औपम्यं तेन आत्मौपम्येन, सर्वत्र सर्वभूतेषु समं तुल्यं पश्यति यः अर्जुन, स च किं समं पश्यति इत्युच्यते — यथा मम सुखम् इष्टं तथा सर्वप्राणिनां सुखम् अनुकूलम् । वाशब्दः चार्थे । यदि वा यच्च दुःखं मम प्रतिकूलम् अनिष्टं यथा तथा सर्वप्राणिनां दुःखम् अनिष्टं प्रतिकूलं इत्येवम् आत्मौपम्येन सुखदुःखे अनुकूलप्रतिकूले तुल्यतया सर्वभूतेषु समं पश्यति, न कस्यचित् प्रतिकूलमाचरति, अहिंसक इत्यर्थः । यः एवमहिंसकः सम्यग्दर्शननिष्ठः स योगी परमः उत्कृष्टः मतः अभिप्रेतः सर्वयोगिनां मध्ये ॥ ३२ ॥
३३33
अर्जुन उवाच —
योऽयं योगस्त्वया प्रोक्तः
साम्येन मधुसूदन ।
एतस्याहं न पश्यामि
चञ्चलत्वात्स्थितिं स्थिराम् ॥ ३३ ॥
arjuna uvāca —
yo'yaṃ yogastvayā proktaḥ
sāmyena madhusūdana |
etasyāhaṃ na paśyāmi
cañcalatvātsthitiṃ sthirām || 33 ||
यः अयं योगः त्वया प्रोक्तः साम्येन समत्वेन हे मधुसूदन एतस्य योगस्य अहं न पश्यामि नोपलभे, चञ्चलत्वात् मनसः । किम् ? स्थिराम् अचलां स्थितिम् ॥ ३३ ॥
३४34
चञ्चलं हि मनः कृष्ण प्रमाथि बलवद्दृढम् ।
तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् ॥ ३४ ॥
cañcalaṃ hi manaḥ kṛṣṇa pramāthi balavaddṛḍham |
tasyāhaṃ nigrahaṃ manye vāyoriva suduṣkaram || 34 ||
चञ्चलं हि मनः । कृष्ण इति कृषतेः विलेखनार्थस्य रूपम् । भक्तजनपापादिदोषाकर्षणात् कृष्णः, तस्य सम्बुद्धिः हे कृष्ण । हि यस्मात् मनः चञ्चलं न केवलमत्यर्थं चञ्चलम् , प्रमाथि च प्रमथनशीलम् , प्रमथ्नाति शरीरम् इन्द्रियाणि च विक्षिपत् सत् परवशीकरोति । किञ्च — बलवत् प्रबलम् , न केनचित् नियन्तुं शक्यम् , दुर्निवारत्वात् । किञ्च — दृढं तन्तुनागवत् अच्छेद्यम् । तस्य एवम्भूतस्य मनसः अहं निग्रहं निरोधं मन्ये वायोरिव यथा वायोः दुष्करो निग्रहः ततोऽपि दुष्करं मन्ये इत्यभिप्रायः ॥ ३४ ॥
३५35
श्रीभगवानुवाच —
असंशयं महाबाहो मनो दुर्निग्रहं चलम् ।
अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ॥ ३५ ॥
śrībhagavānuvāca —
asaṃśayaṃ mahābāho mano durnigrahaṃ calam |
abhyāsena tu kaunteya vairāgyeṇa ca gṛhyate || 35 ||
असंशयं नास्ति संशयः ‘मनो दुर्निग्रहं चलम्’ इत्यत्र हे महाबाहो । किन्तु अभ्यासेन तु अभ्यासो नाम चित्तभूमौ कस्याञ्चित् समानप्रत्ययावृत्तिः चित्तस्य । वैराग्येण वैराग्यं नाम दृष्टादृष्टेष्टभोगेषु दोषदर्शनाभ्यासात् वैतृष्ण्यम् । तेन च वैराग्येण गृह्यते विक्षेपरूपः प्रचारः चित्तस्य । एवं तत् मनः गृह्यते निगृह्यते निरुध्यते इत्यर्थः ॥ ३५ ॥
३६36
असंयतात्मना योगो दुष्प्राप इति मे मतिः ।
वश्यात्मना तु यतता शक्योऽवाप्तुमुपायतः ॥ ३६ ॥
asaṃyatātmanā yogo duṣprāpa iti me matiḥ |
vaśyātmanā tu yatatā śakyo'vāptumupāyataḥ || 36 ||
असंयतात्मना अभ्यासवैराग्याभ्यामसंयतः आत्मा अन्तःकरणं यस्य सोऽयम् असंयतात्मा तेन असंयतात्मना योगो दुष्प्रापः दुःखेन प्राप्यत इति मे मतिः । यस्तु पुनः वश्यात्मा अभ्यासवैराग्याभ्यां वश्यत्वमापादितः आत्मा मनः यस्य सोऽयं वश्यात्मा तेन वश्यात्मना तु यतता भूयोऽपि प्रयत्नं कुर्वता शक्यः अवाप्तुं योगः उपायतः यथोक्तादुपायात् ॥ ३६ ॥
३७37
अर्जुन उवाच —
अयतिः श्रद्धयोपेतो योगाच्चलितमानसः ।
अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति ॥ ३७ ॥
arjuna uvāca —
ayatiḥ śraddhayopeto yogāccalitamānasaḥ |
aprāpya yogasaṃsiddhiṃ kāṃ gatiṃ kṛṣṇa gacchati || 37 ||
अयतिः अप्रयत्नवान् योगमार्गे श्रद्धया आस्तिक्यबुद्ध्या च उपेतः योगात् अन्तकाले च चलितं मानसं मनो यस्य सः चलितमानसः भ्रष्टस्मृतिः सः अप्राप्य योगसंसिद्धिं योगफलं सम्यग्दर्शनं कां गतिं हे कृष्ण गच्छति ॥ ३७ ॥
३८38
कच्चिन्नोभयविभ्रष्टश्छिन्नाभ्रमिव नश्यति ।
अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि ॥ ३८ ॥
kaccinnobhayavibhraṣṭaśchinnābhramiva naśyati |
apratiṣṭho mahābāho vimūḍho brahmaṇaḥ pathi || 38 ||
कच्चित् किं न उभयविभ्रष्टः कर्ममार्गात् योगमार्गाच्च विभ्रष्टः सन् छिन्नाभ्रमिव नश्यति, किं वा न नश्यति अप्रतिष्ठो निराश्रयः हे महाबाहो विमूढः सन् ब्रह्मणः पथि ब्रह्मप्राप्तिमार्गे ॥ ३८ ॥
३९39
एतन्मे संशयं कृष्ण च्छेत्तुमर्हस्यशेषतः ।
त्वदन्यः संशयस्यास्य च्छेत्ता न ह्युपपद्यते ॥ ३९ ॥
etanme saṃśayaṃ kṛṣṇa cchettumarhasyaśeṣataḥ |
tvadanyaḥ saṃśayasyāsya cchettā na hyupapadyate || 39 ||
एतत् मे मम संशयं कृष्ण च्छेत्तुम् अपनेतुम् अर्हसि अशेषतः । त्वदन्यः त्वत्तः अन्यः ऋषिः देवो वा च्छेत्ता नाशयिता संशयस्य अस्य न हि यस्मात् उपपद्यते न सम्भवति । अतः त्वमेव च्छेत्तुमर्हसि इत्यर्थः ॥ ३९ ॥
४०40
श्रीभगवानुवाच —
पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते ।
न हि कल्याणकृत्कश्चिद्दुर्गतिं तात गच्छति ॥ ४० ॥
śrībhagavānuvāca —
pārtha naiveha nāmutra vināśastasya vidyate |
na hi kalyāṇakṛtkaściddurgatiṃ tāta gacchati || 40 ||
हे पार्थ नैव इह लोके नामुत्र परस्मिन् वा लोके विनाशः तस्य विद्यते नास्ति । नाशो नाम पूर्वस्मात् हीनजन्मप्राप्तिः स योगभ्रष्टस्य नास्ति । न हि यस्मात् कल्याणकृत् शुभकृत् कश्चित् दुर्गतिं कुत्सितां गतिं हे तात, तनोति आत्मानं पुत्ररूपेणेति पिता तात उच्यते । पितैव पुत्र इति पुत्रोऽपि तात उच्यते । शिष्योऽपि पुत्र उच्यते । यतो न गच्छति ॥ ४० ॥
४१41
प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वतीः समाः ।
शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते ॥ ४१ ॥
prāpya puṇyakṛtāṃ lokānuṣitvā śāśvatīḥ samāḥ |
śucīnāṃ śrīmatāṃ gehe yogabhraṣṭo'bhijāyate || 41 ||
योगमार्गे प्रवृत्तः सन्न्यासी सामर्थ्यात् प्राप्य गत्वा पुण्यकृताम् अश्वमेधादियाजिनां लोकान् , तत्र च उषित्वा वासमनुभूय शाश्वतीः नित्याः समाः संवत्सरान् , तद्भोगक्षये शुचीनां यथोक्तकारिणां श्रीमतां विभूतिमतां गेहे गृहे योगभ्रष्टः अभिजायते ॥ ४१ ॥
४२42
अथवा योगिनामेव कुले भवति धीमताम् ।
एतद्धि दुर्लभतरं लोके जन्म यदीदृशम् ॥ ४२ ॥
athavā yogināmeva kule bhavati dhīmatām |
etaddhi durlabhataraṃ loke janma yadīdṛśam || 42 ||
अथवा श्रीमतां कुलात् अन्यस्मिन् योगिनामेव दरिद्राणां कुले भवति जायते धीमतां बुद्धिमताम् । एतत् हि जन्म, यत् दरिद्राणां योगिनां कुले, दुर्लभतरं दुःखलभ्यतरं पूर्वमपेक्ष्य लोके जन्म यत् ईदृशं यथोक्तविशेषणे कुले ॥ ४२ ॥
४३43
तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम् ।
यतते च ततो भूयः संसिद्धौ कुरुनन्दन ॥ ४३ ॥
tatra taṃ buddhisaṃyogaṃ labhate paurvadehikam |
yatate ca tato bhūyaḥ saṃsiddhau kurunandana || 43 ||
तत्र योगिनां कुले तं बुद्धिसंयोगं बुद्ध्या संयोगं बुद्धिसंयोगं लभते पौर्वदेहिकं पूर्वस्मिन् देहे भवं पौर्वदेहिकम् । यतते च प्रयत्नं च करोति ततः तस्मात् पूर्वकृतात् संस्कारात् भूयः बहुतरं संसिद्धौ संसिद्धिनिमित्तं हे कुरुनन्दन ॥ ४३ ॥
४४44
पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि सः ।
जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते ॥ ४४ ॥
pūrvābhyāsena tenaiva hriyate hyavaśo'pi saḥ |
jijñāsurapi yogasya śabdabrahmātivartate || 44 ||
यः पूर्वजन्मनि कृतः अभ्यासः सः पूर्वाभ्यासः, तेनैव बलवता ह्रियते संसिद्धौ हि यस्मात् अवशोऽपि सः योगभ्रष्टः ; न कृतं चेत् योगाभ्यासजात् संस्कारात् बलवत्तरमधर्मादिलक्षणं कर्म, तदा योगाभ्यासजनितेन संस्कारेण ह्रियते ; अधर्मश्चेत् बलवत्तरः कृतः, तेन योगजोऽपि संस्कारः अभिभूयत एव, तत्क्षये तु योगजः संस्कारः स्वयमेव कार्यमारभते, न दीर्घकालस्थस्यापि विनाशः तस्य अस्ति इत्यर्थः । अतः जिज्ञासुरपि योगस्य स्वरूपं ज्ञातुमिच्छन् अपि योगमार्गे प्रवृत्तः सन्न्यासी योगभ्रष्टः, सामर्थ्यात् सोऽपि शब्दब्रह्म वेदोक्तकर्मानुष्ठानफलम् अतिवर्तते अतिक्रामति अपाकरिष्यति ; किमुत बुद्ध्वा यः योगं तन्निष्ठः अभ्यासं कुर्यात् ॥ ४४ ॥
४५45
प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्बिषः ।
अनेकजन्मसंसिद्धस्ततो याति परां गतिम् ॥ ४५ ॥
prayatnādyatamānastu yogī saṃśuddhakilbiṣaḥ |
anekajanmasaṃsiddhastato yāti parāṃ gatim || 45 ||
प्रयत्नात् यतमानः, अधिकं यतमान इत्यर्थः । तत्र योगी विद्वान् संशुद्धकिल्बिषः विशुद्धकिल्बिषः संशुद्धपापः अनेकजन्मसंसिद्धः अनेकेषु जन्मसु किञ्चित्किञ्चित् संस्कारजातम् उपचित्य तेन उपचितेन अनेकजन्मकृतेन संसिद्धः अनेकजन्मसंसिद्धः ततः लब्धसम्यग्दर्शनः सन् याति परां प्रकृष्टां गतिम् ॥ ४५ ॥
४६46
तपस्विभ्योऽधिको योगी
ज्ञानिभ्योऽपि मतोऽधिकः ।
कर्मिभ्यश्चाधिको योगी
तस्माद्योगी भवार्जुन ॥ ४६ ॥
tapasvibhyo'dhiko yogī
jñānibhyo'pi mato'dhikaḥ |
karmibhyaścādhiko yogī
tasmādyogī bhavārjuna || 46 ||
तपस्विभ्यः अधिकः योगी, ज्ञानिभ्योऽपि ज्ञानमत्र शास्त्रार्थपाण्डित्यम् , तद्वद्भ्योऽपि मतः ज्ञातः अधिकः श्रेष्ठः इति । कर्मिभ्यः, अग्निहोत्रादि कर्म, तद्वद्भ्यः अधिकः योगी विशिष्टः यस्मात् तस्मात् योगी भव अर्जुन ॥ ४६ ॥
४७47
योगिनामपि सर्वेषां मद्गतेनान्तरात्मना ।
श्रद्धावान्भजते यो मां स मे युक्ततमो मतः ॥ ४७ ॥
yogināmapi sarveṣāṃ madgatenāntarātmanā |
śraddhāvānbhajate yo māṃ sa me yuktatamo mataḥ || 47 ||
योगिनामपि सर्वेषां रुद्रादित्यादिध्यानपराणां मध्ये मद्गतेन मयि वासुदेवे समाहितेन अन्तरात्मना अन्तःकरणेन श्रद्धावान् श्रद्दधानः सन् भजते सेवते यो माम् , स मे मम युक्ततमः अतिशयेन युक्तः मतः अभिप्रेतः इति ॥ ४७ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छङ्करभगवतः कृतौ श्रीमद्भगवद्गीताभाष्ये षष्ठोऽध्यायः ॥
iti śrīmatparamahaṃsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya
śrīmacchaṅkarabhagavataḥ kṛtau śrīmadbhagavadgītābhāṣye ṣaṣṭho'dhyāyaḥ ||