प्रथमोऽध्यायः
१1
धृतराष्ट्र उवाच —
धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः ।
मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय ॥ १ ॥
dhṛtarāṣṭra uvāca —
dharmakṣetre kurukṣetre samavetā yuyutsavaḥ |
māmakāḥ pāṇḍavāścaiva kimakurvata sañjaya || 1 ||
तत्र धृतराष्ट्र उवाचेति वैशम्पायनवाक्यं जन्मेजयं प्रति । पाण्डवानां जयकारणं बहुविधं पूर्वमाकर्ण्य
स्वपुत्रराज्यभ्रंशाद्भितो धृतराष्ट्र: पप्रच्छ स्वपुत्रजयकारणमाशंसन्— युयुत्सवो योद्धुमिच्छवोऽपि सन्तः
कुरुक्षेत्रे समवेताः संगता मामका मदीया दुर्योधनादयः पाण्डवाश्च युधिष्तिरादयः किमकुर्वत
कि कृतवन्तः ? किं पूर्वोद्धूतयुयुत्सानुसारेण युद्धमेव कृतवन्त उत केनचित्रिमित्तेन युयुत्सानिवृत्याऽन्यदेव
किंचित्कृतवन्त: ?
भीष्मार्जुनादिवीरपुरुषनिमित्त दृष्टभयं युयुत्सानिवृत्तिकारणं प्रसिद्धमेव । अदृष्टभयमपि दर्शयितुमाह—
धर्मक्षेत्र इति । धर्मस्य पूर्वमविद्यमानस्योत्पत्तेर्विद्यमानस्य च वृद्धेर्निमित्तं सस्यस्येव क्षेत्र
यत्कुरुक्षेत्रं सर्वश्रुतिस्मृतिप्रसिद्धम् । बृहस्पतिरुवाच याज्ञवल्क्यं “यदनुकुरुक्षेत्रं देवानां देवयजनं सर्वेषां
भूतानां ब्रह्मसदनम्” इति जाबालश्रुतेः, “कुरुक्षेत्र वै देववजनम्” इति शतपथश्रुतेश्च । तस्मिन्गता:
पाण्डवा: पूर्वमेव धार्मिका यदि पक्षद्वयहिंसानिमित्तादधर्माद्भिता निवर्तेरंस्ततः प्राप्तराज्या एव
मत्पुत्रा: । अथवा धर्मक्षेत्रमाहात्म्येन पापानामपि मत्पुत्राणां कदाचिच्चित्तप्रसादः स्यात्तदा च
तेऽनुतप्ता: कपटोपात्तं राज्यं पाण्डवेभ्यो यदि दद्युस्तर्हि विनाऽपि युद्धं हता एवेति स्वपुत्रराज्यलाभे
पाण्डवराज्यालाभे च दृढ़तरमुपायमपश्यतो महानुद्वेग एव प्रश्नवीजम् । सञ्जयेति च संबोधन
रागद्वेषादिदोषान्सम्यग्जितवानसीति कृत्वा निर्व्याजमेव कथनीय॑ त्वयेति सूचनार्थम् । मामकाः
किमकुर्वतेत्येतावतैव प्रश्ननिर्वाहे पाण्डवाश्चेति पृथङ्निर्दिश्य पाण्डवेषु ममकाराभावप्रदर्शनेन
तद्द्रोहमभिव्यनक्ति ॥ १ ॥
एवं कृपालोकव्यवहारनेत्राभ्यामपि हीनतया महतोऽन्धस्य पुत्रस्नेहमात्राभिनिविष्टस्य धृतराष्ट्रस्य प्रश्ने विदिताभिप्रायस्य सञ्जयस्यातिधार्मिकस्य प्रतिवचमवतारयति वैशम्पायनः—
२2
सञ्जय उवाच —
दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा ।
आचार्यमुपसङ्गम्य राजा वचनमब्रवीत् ॥ २ ॥
sañjaya uvāca —
dṛṣṭvā tu pāṇḍavānīkaṃ vyūḍhaṃ duryodhanastadā |
ācāryamupasaṅgamya rājā vacanamabravīt || 2 ||
तत्र पाण्डवानां दृष्टभयसंभावनाऽपि नास्ति अदृष्टभयं तु भ्रान्त्याऽर्जुनस्योत्पन्नं भगवतोपशमितमिति
पाण्डवानामुत्कर्षः तु शब्देन द्योत्यते । स्वपुत्रकृतराज्यप्रत्यर्पणशङ्कया तु मा ग्लासीरिति राजानं
तोषयितुं दुर्योधनदौष्ट्यमेव प्रथमतो वर्णयति— दृष्ट्वेति ।
पाण्डुसुतानां अनीकं सैन्यं व्यूढं व्यूहरचनया धृष्टयुम्नादिभि: स्थापितं दृष्ट्वा
चाक्षुषज्ञानविषयीकृत्य तदा सङ्ग्रामोद्यमकाल आचार्यं द्रोणनामानं धनुर्विद्यासंप्रदायप्रवर्तयितारं
उपसंगम्य स्वयमेव तत्समीपं गत्वा न तु स्वसमीपे तमाहूय । एतेन पाण्डवसैन्यदर्शनजनितं भयं सूच्यते । भयेन
स्वरक्षार्थं तत्समीपगमनेऽपि आचार्यगौरवव्याजेन भयसंगोपनं राजनीतिकुशलत्वादित्याह— राजेति ।
आचार्यं दुर्योधनोऽब्रवीदित्येतावतैव निर्वाहे वचनपदं संक्षिप्तबह्वर्थत्वादिबहुगुणविशिष्टे वाक्यविशेषे
संक्रमितुं, वचनमात्रमेवाब्रवीन्न तु कंचिदर्थमिति वा ॥ २ ॥
तदेव वाक्यविशेषरूपं वचनमुदाहरति— पश्यैताम्(@BG, 1.3) इत्यादिना तस्य संजनयन् हर्षम्(@BG, 1.12) इत्यत: प्राक्तनेन । पाण्डवेषु प्रियशिष्येष्वतिस्निग्धहृदयत्वादाचार्यो युद्धं न करिष्यतीति संभाव्य तस्मिन्परेषामवज्ञां विज्ञापयंस्तस्य क्रोधातिशयमुत्पादयितुमाह—
३3
पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् ।
व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ॥ ३ ॥
paśyaitāṃ pāṇḍuputrāṇāmācārya mahatīṃ camūm |
vyūḍhāṃ drupadaputreṇa tava śiṣyeṇa dhīmatā || 3 ||
एतामत्यासन्नत्वेन भवद्विधानपि महानुभावानवगणय्य भयशून्यत्वेन स्थितां पाण्डुपुत्राणां चमूं महतीं
अनेकाक्षौहिणीसहितत्वेन दुर्निवारां पश्य अपरोक्षीकुरु । प्रार्थनायां लोट् । अहं
शिष्यत्वात्त्वामाचार्यं प्रार्थय इत्याह— आचार्येति । दृष्ट्वा च तत्कृतामवज्ञां स्वयमेव ज्ञास्यसीति
भाव: ।
ननु तदीयावज्ञा सोढव्यैवास्माभि: प्रतिकर्तुमशक्यत्वादित्याशङ्क्य तन्निरसनं तव सुकरमेवेत्याह—
व्यूढां तव शिष्येणेति । शिष्यापेक्षया गुरोराधिक्यं सर्वसिद्धमेव । व्यूढां तु धृष्टद्युम्नेनेत्यनुक्त्वा
द्रुपदपुत्रेण इतिकथनं द्रुपदपूर्ववैरसूचनेन क्रोधोद्दीपनार्थम् । धीमतेति पदमनुपेक्षणीयत्वसूचनार्थम् ।
व्यासङ्गान्तरनिराकरणेन त्वरातिशयार्थं पश्येति प्रार्थनम् ।
अन्यच्च हे पाण्डुपुत्राणामाचार्य न तु मम तेषु स्नेहातिशयात् । द्रुपदपुत्रेण तव शिष्येणेति
त्वद्वधार्थमुत्पन्नोऽपि त्वयाऽध्यापित इति तव मौढ्यमेव ममानर्थकारणमिति सूचयति । शत्रोस्तव
सकाशात्त्वद्वधोपायभूता विद्या गृहीतेति तस्य धीमत्त्वम् । अत एव तच्चमूदर्शनेनाऽऽनन्दस्तवैव
भविष्यति भ्रान्तत्वात्, नान्यस्य कस्यचिदपि यं प्रतीयं प्रदर्शनीयेति त्वमेवैतां पश्येत्याचार्यं प्रति
तत्सैन्यं प्रदर्शयन्निगूढं द्वेषं द्योतयति । एवं च यस्य धर्मक्षेत्रं प्राप्याऽऽचार्येऽपीदृशी दुष्टबुद्धिस्तस्य
काऽनुतापशङ्का सर्वाभिशङ्कित्वेनातिदुष्टाशयत्वादिति भावः ॥ ३ ॥
नन्वेकेन द्रुपदपुत्रेणाप्रसिद्वेनाधिष्ठितां चमूमेतामस्मदीयो यः कश्चिदपि जेष्यति किमिति
त्वमुत्ताम्यसीत्यत आह— अत्र शूरा इत्यादिभिस्त्रिभिः ।
४4
अत्र शूरा महेष्वासा भीमार्जुनसमा युधि ।
युयुधानो विराटश्च द्रुपदश्च महारथः ॥ ४ ॥
atra śūrā maheṣvāsā bhīmārjunasamā yudhi |
yuyudhāno virāṭaśca drupadaśca mahārathaḥ || 4 ||
न केवलमत्र धृष्टद्युम्न एव शूरो येनोपेक्षणीयता स्यात्किं तु अस्यां चम्वामन्येऽपि बहवः शूरा:
सन्तीत्यवश्यमेव तज्जये यतनीयमित्यभिप्रायः । शूरानेव विशिनष्टि— महेष्वासा इति । महान्तो
अन्यैरप्रधृष्या इष्वासा धनूंषि येषां ते तथा दूरत एव परसैन्यविद्रावणकुशला इति भावः ।
महाधनुरादिमत्त्वेऽपि युद्धकौशलाभावमाशङ्क्याऽऽह— युधि युद्धे भीमार्जुनाभ्यां
सर्वसंप्रतिपन्नपराक्रमाभ्यां समाः तुल्याः । तानेवाऽऽह- युयुधान इत्यादिना महारथा इत्यन्तेन ।
युयुधानः सात्यकि: । द्रपदश्च महारथ इत्येक: । अथवा युयुधानविराटद्रुपदानां विशेषणं महारथ इति
॥ ४ ॥
५5
धृष्टकेतुश्चेकितानः काशीराजश्च वीर्यवान् ।
पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः ॥ ५ ॥
dhṛṣṭaketuścekitānaḥ kāśīrājaśca vīryavān |
purujitkuntibhojaśca śaibyaśca narapuṅgavaḥ || 5 ||
धृष्टकेतुचेकितानकाशिराजानां विशेषणं वीर्यवानिति । पुरुजित्कुन्तिभोजशैव्यानां विशेषणं नरपुङ्गव इति
॥ ५ ॥
६6
युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् ।
सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ॥ ६ ॥
yudhāmanyuśca vikrānta uttamaujāśca vīryavān |
saubhadro draupadeyāśca sarva eva mahārathāḥ || 6 ||
विक्रान्तो युधामन्युवीर्यवांश्चोत्तमौजा इति द्वौ । अथवा सर्वाणि विशेषणानि समुच्चित्य सर्वत्र
योजनीयानि । सौभद्रो अभिमन्यु: । द्रौपदेयाः च द्रौपदीपुत्रा: प्रतिविन्ध्यादय: पञ्च ।
चकाराद् अन्येऽपि पाण्ड्यराजघटोत्कचप्रभृतयः । पञ्च पाण्डवास्त्वतिप्रसिद्धा एवेति न गणिता: ।
ये गणिता: सप्तदशान्येऽपि तदीया: सर्व एव महारथा: सर्वेऽपि महारथा एवं नैकोऽपि रथोऽर्धरथो वा
। महारथा इत्यतिरथत्वस्याप्युपलक्षणम् । तल्लक्षणं च—
“एको दश सहस्राणि योधयेद्यस्तु धन्विनाम् । शस्त्रशास्त्रप्रवीणश्च महारथ इति स्मृतः ॥
अमितान्योधयेद्यस्तु संप्रोक्तोऽतिरथस्तु सः । रथस्त्वेकेन यो योद्धा तन्न्यूनोऽर्धरथः स्मृत:” इति ॥ ६ ॥
यद्येवं परबलमतिप्रभूतं दृष्ट्वा भीतोऽसि हन्त तर्हि सन्धिरेव परैरिष्यतां किं विग्रहाग्रहेणेत्याचार्याभिप्रायमाशङ्क्याऽऽह—
७7
अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम ।
नायका मम सैन्यस्य सञ्ज्ञार्थं तान्ब्रवीमि ते ॥ ७ ॥
asmākaṃ tu viśiṣṭā ye tānnibodha dvijottama |
nāyakā mama sainyasya sañjñārthaṃ tānbravīmi te || 7 ||
तु शब्देनान्तरुत्पन्नमपि भय तिरोदधानो धृष्टतामात्मनो द्योतयति । अस्माकं सर्वेषां मध्ये ये
विशिष्टा: सर्वेभ्यः समुत्कर्षजुषः तान् मयोच्यमानान् निबोध निश्चयेन मदचनादवधारयेति
भौवादिकस्य परस्मैपदिनो बुधे रूपम् । ये च मम सैन्यस्य नायका मुख्या नेतारस्तान् संज्ञार्थं असंख्येषु
तेषु मध्ये कतिचिन्नामभिर्गृहीत्वा परिशिष्टानुपलक्षयितुं ते तुभ्यं ब्रवीमि न त्वज्ञातं किंचिदपि तव
ज्ञापयामीति द्विजोत्तमेति विशेषणेनाऽऽचार्यं स्तुवन्स्वकार्ये तदाभिमुख्यं संपादयति । दौष्ट्यपक्षे
द्विजोत्तमेति ब्राह्मणत्वात्तावद्युद्धाकुशलस्त्वं तेन त्वयि विमुखेऽपि भीष्मप्रभृतीनां क्षत्रियप्रवराणां
सत्त्वान्नास्माकं महती क्षतिरित्यर्थः । संज्ञार्थमिति प्रियशिष्याणां पाण्डवानां चमूं दृष्टवा हर्षेण
व्याकुलमनसस्तव स्वीयवीरविस्मृतिर्मा भूदिति ममेयमुक्तिरिति भावः ॥ ७ ॥
तत्र विशिष्टान्गणयति—
८8
भवान्भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः ।
अश्वत्थामा विकर्णश्च सौमदत्तिर्जयद्रथः ॥ ८ ॥
bhavānbhīṣmaśca karṇaśca kṛpaśca samitiñjayaḥ |
aśvatthāmā vikarṇaśca saumadattirjayadrathaḥ || 8 ||
भवान् द्रोणो भीष्म: कर्ण: कृपश्च । समिति सङ्ग्रामं जयतीति समितिंजय इति कृपविशेषणं
कर्णादनन्तरं गण्यमानत्वेन तस्य कोपमाशङ्क्य तन्निरासार्थम् । एते चत्वार: सर्वतो विशिष्टा: ।
नायकान्गणयति— अश्वत्थामा द्रोणपुत्रः । भीष्मापेक्षयाऽऽचार्यस्य प्रथमगणनवद्विकर्णाद्यपेक्षया
तत्युत्रस्य प्रथमगणनमाचार्यपरितोषार्थम् । विकर्ण: स्वभ्राता कनीयान् । सौमदत्तिः सोमदत्तस्य
पुत्र: श्रेष्ठत्वाद्भूरिश्रवा: । जयद्रथ: सिन्धुराजस्तथैव चेति कचित्पाठ: ॥ ८ ॥
किमेतावन्त एवं नायका नेत्याह—
९9
अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः ।
नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ॥ ९ ॥
anye ca bahavaḥ śūrā madarthe tyaktajīvitāḥ |
nānāśastrapraharaṇāḥ sarve yuddhaviśāradāḥ || 9 ||
अन्ये च शल्यकृतवर्मप्रभूतयो मदर्थे मत्प्रयोजनाय जीवितमपि त्यक्तुमध्यवसिता इत्यर्थेन
त्यक्तजीविता इत्यनेन स्वस्मिन्ननुरागातिशयस्तेषां कथ्यते । एवं स्वसैन्यबाहुल्यं तस्य स्वस्मिन्भक्ति:
शौर्यं युद्धोयोगो युद्धकोशल च दर्शितं शूरा इत्यादिविशेषणैः ॥ ९ ॥
राजा पुनरपि सैन्यद्वयसाम्यमाशङ्क्य स्वसैन्याधिक्यमावेदयति—
१०10
अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् ।
पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ॥ १० ॥
aparyāptaṃ tadasmākaṃ balaṃ bhīṣmābhirakṣitam |
paryāptaṃ tvidameteṣāṃ balaṃ bhīmābhirakṣitam || 10 ||
अपर्याप्तं अनन्तमेकादशाक्षौहिणीपरिमितं भीष्मेण च प्रथितमहिम्ना सूक्ष्मबुद्धिनाऽभितः सर्वतो
रक्षितं तत्तादृशगुणवत्पुरुषाधिषठितमस्माकं बलम् । एतेषां पाण्डवानां बलं तु पर्याप्तं परिमितं
सप्ताक्षौहिणीमात्रात्मकत्वान्न्यूनं भीमेन चातिचपलबुद्धिना रक्षितं तस्मादस्माकमेव विजयो
भविष्यतीत्यमिप्राय: ।
अथवा तत्पाण्डवानां बलमपर्याप्तं नालमस्माकमस्मभ्यम् । कीदृशं तद्भिष्मोऽभिरक्षितोऽस्माभिर्यस्मै यन्निवृत्त्यर्थमित्यर्थ: । तत्पाण्डवबलं भीष्माभिरक्षितम् । इदं पुनरस्मदीयं बलमेतेषां पाण्डवानां पर्याप्तं परिभवे समर्थम् । भीमोऽतिदुर्बलहृदयोऽभिरक्षितो यस्मै तदस्माकं बलं भीमाभिरक्षितम् । यस्माद्धीमोऽत्ययोग्य एवैतन्निवृत्त्यर्थं तै रक्षितस्तस्मादस्माकं न किंचिदपि भयकारणमस्तीत्यभिप्रायः ॥ १० ॥
एवं चेन्निर्भयोऽसि तर्हि किमिति बहु जल्पसीत्यत आह—
११11
अयनेषु तु सर्वेषु यथाभागमवस्थिताः ।
भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ॥ ११ ॥
ayaneṣu tu sarveṣu yathābhāgamavasthitāḥ |
bhīṣmamevābhirakṣantu bhavantaḥ sarva eva hi || 11 ||
(सम्पादकस्य टिप्पणी - अत्र तु शब्दस्य पाठभेदः च अस्ति)
कर्तव्यविशेषद्योती तु शब्दः । समरसमारम्भसमये योधानां यथाप्रधानं युद्धभूमौ
पूर्वापरादिदिग्विभागेनावस्थितिस्थानानि यानि नियम्यन्ते तान्यत्र अयनानि उच्यन्ते । सेनापतिश्च
सर्वसैन्यमधिष्ठाय मध्ये तिष्ठति । तत्रैवं सति यथाभागं विभक्तां स्वां स्वां रणभूमिमपरित्यज्य
अवस्थिताः सन्तो भवन्तः सर्वेपि युद्धाभिनिवेशात्पुरत: पृष्ठतः पार्श्वतश्चानिरीक्षमाणं भीष्मं
सेनापतिमेव रक्षन्तु । भीष्मे हि सेनापतौ रक्षिते तत्प्रसादादेव सर्वं सुरक्षितं भविष्यतीत्यभिप्रायः ॥
११ ॥
स्तौतु वा निन्दतु वा एतदर्थे देह: पतिष्यत्येवेत्याशयेन तं हर्षयन्नेव सिहनादं शङ्खवाद्यं च कारितवानित्याह—
१२12
तस्य सञ्जनयन्हर्षं कुरुवृद्धः पितामहः ।
सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ॥ १२ ॥
tasya sañjanayanharṣaṃ kuruvṛddhaḥ pitāmahaḥ |
siṃhanādaṃ vinadyoccaiḥ śaṅkhaṃ dadhmau pratāpavān || 12 ||
एवं पाण्डवसैन्यदर्शनादतिभीतस्य भयनिवृत्त्यर्थमाचार्यं कपटेन शरणं गतस्येदानीमप्पयं मां
प्रतारयतीत्यसंतोषवशादाचार्येण वाङ्मात्रेणाप्यानादृतस्याऽऽचार्योपेक्षां बुद्ध्वाऽयनेष्वित्वादिना
भीष्ममेव स्तुवतस्तस्य राज्ञो भयनिवर्तकं हर्षं बुद्धिगतमुल्लासविशेषं स्वविजयसूचक जनयन् उच्चैः महान्तं
सिहनादं विनद्य कृत्वा, यद्वा सिंहनादमिति णमुलन्तम् । अतोरैपौषं पुष्यतीतिवत्तस्यैव धातोः पुनः
प्रयोग: । शङ्खं दध्मौ वादितवान् ।
कुरुवृद्धत्वात् आचार्यदुर्योधनयोरभिप्रायपरिज्ञानं, पितामहत्वात् अनुपेक्षणं न त्वाचार्यवदुपेक्षणं,
प्रतापवत्त्वात् उच्चैः सिहनादपूर्वकशद्ववादनं परेषां भयोत्पादनाय ।
अत्र सिंहनादशङ्खवाद्ययोर्हर्षजनकत्वेन पूर्वापरकालत्वेऽप्यभिचरन्यजेतेतिवज्जनयन्निति शताऽवश्यंभावित्वरूपवर्तमानत्वे व्याख्यातव्य: ॥ १२ ॥
१३13
ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः ।
सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ॥ १३ ॥
tataḥ śaṅkhāśca bheryaśca paṇavānakagomukhāḥ |
sahasaivābhyahanyanta sa śabdastumulo'bhavat || 13 ||
ततो भीष्मस्य सेनापते: प्रवृत्यनन्तरं पणवा आनका गोमुखाश्च वाद्यविशेषा: सहसा तत्क्षणम्
एवाभ्यहन्यन्त वादिता: । कर्मकर्तरि प्रयोग: । स शब्दस्तुमुलो महानासीत्तथाऽपि न पाण्डवानां
क्षोभो जात इत्यभिप्राय: ॥ १३ ॥
१४14
ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ ।
माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः ॥ १४ ॥
tataḥ śvetairhayairyukte mahati syandane sthitau |
mādhavaḥ pāṇḍavaścaiva divyau śaṅkhau pradadhmatuḥ || 14 ||
अन्येषामपि रथस्थत्वे स्थित एवासाधारण्येन रथोत्कर्षकथनार्थं ततः श्वेतैहयैर्युक्त इत्यादिना
रथस्थत्वकथनं, तेनाग्निदत्ते दुष्प्रधृष्ये रथे स्थितौ सर्वथा जेतुमशक्यावित्यर्थ: ॥ १४ ॥
१५15
पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः ।
पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः ॥ १५ ॥
pāñcajanyaṃ hṛṣīkeśo devadattaṃ dhanañjayaḥ |
pauṇḍraṃ dadhmau mahāśaṅkhaṃ bhīmakarmā vṛkodaraḥ || 15 ||
पाञ्चजन्यो देवदत्त: पौण्ड्रोऽनन्तविजयः सुधोषो मणिपुष्पकश्चेति शङ्खनामकथनं परसैन्ये स्वस्वनामभि:
प्रसिद्धा एतावन्तः शङ्खा भवत्सैन्ये तु नैकोऽपि स्वनामप्रसिद्ध: शङ्खोऽस्तीति
परेषामुत्कर्षातिशयकंथनार्थम् । सर्वेन्द्रियप्रेरकत्वेन सर्वान्तर्यामी सहाय: पाण्डवानामिति कथयितुं
हृषीकेशपदम् । दिग्विजये स्वान् राज्ञो जित्वा धनमाहतवानिति सर्वथैवायमजेय इति कथयितुं
धनञ्जयपदम् । भीमं हिडिम्बवधादिरूपं कर्म यस्य तादृशो । वृकोदरत्वेन बह्वन्नपाकादतिबलिष्ठो
भीमसेन इति कथितम् ॥ १५ ॥
१६16
अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः ।
नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ॥ १६ ॥
anantavijayaṃ rājā kuntīputro yudhiṣṭhiraḥ |
nakulaḥ sahadevaśca sughoṣamaṇipuṣpakau || 16 ||
कुन्तीपुत्र इति कुन्त्या महता तपसा धर्ममाराध्य लब्ध: । स्वयं च राजसूययाजित्वेन मुख्यो राजा ।
युधि चायमेव जयभागित्वेन स्थिरो नत्वेतद्विपक्षा: स्थिरा भविष्यन्तीति युधिष्टिरपदेन सूचितम् ।
नकुलः सुधोषं सहदेवो मणिपुष्पक दध्मावित्यनुषज्यते ॥ १६ ॥
१७17
काश्यश्च परमेष्वासः शिखण्डी च महारथः ।
धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः ॥ १७ ॥
kāśyaśca parameṣvāsaḥ śikhaṇḍī ca mahārathaḥ |
dhṛṣṭadyumno virāṭaśca sātyakiścāparājitaḥ || 17 ||
परमेष्वासः काश्यः महाधनुधरः काशञीराजः । न पराजितः पारिजातहरणवाणयुद्धादिमहासंग्रामेषु
एतादृशः सात्याकिः ॥ १७ ॥
१८18
द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते ।
सौभद्रश्च महाबाहुः शङ्खान्दध्मुः पृथक्पृथक् ॥ १८ ॥
drupado draupadeyāśca sarvaśaḥ pṛthivīpate |
saubhadraśca mahābāhuḥ śaṅkhāndadhmuḥ pṛthakpṛthak || 18 ||
हे पृथिवीपते घूृतराष्ट्र ! स्थिरो भूत्वा शृण्वित्यभिप्रायः । सुगममन्यत् ॥ १८ ॥
१९19
स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् ।
नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन् ॥ १९ ॥
sa ghoṣo dhārtarāṣṭrāṇāṃ hṛdayāni vyadārayat |
nabhaśca pṛthivīṃ caiva tumulo vyanunādayan || 19 ||
धार्तराष्ट्राणां सैन्ये शङ्खादिध्वनिरतितुमुलोपि न पाण्डवानां क्षोभकोऽभूत् । पाण्डवानां सैन्ये जातस्तु
स शङ्खघोषो धार्तराष्ट्राणां धृतराष्टस्य तव सम्बधिनां सर्वेषां भीष्मद्रोणादीनामपि
हृदयानि व्यदारयत् । हृदयविदारणतुल्यां व्यथां जनितवानित्यर्थः । यतस्तुमुलस्तीव्रः
नभश्च पृथिवीं च प्रतिध्वनिभिरापूरयन् ॥ १९ ॥
धार्तराष्ट्राणां भयप्राप्तिं प्रदर्श्य पाण्डवानां तद्वैपरीत्यमुदाहरति- अथेत्यादिनाः ।
२०20
अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान्कपिध्वजः ।
प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः ॥ २० ॥
atha vyavasthitāndṛṣṭvā dhārtarāṣṭrānkapidhvajaḥ |
pravṛtte śastrasampāte dhanurudyamya pāṇḍavaḥ || 20 ||
भीतिप्रत्युपस्थितेरनन्तरं पलायने प्राप्तेऽपि तद्विरुद्धतया युद्धोद्योगेनावस्थितानेव परान्
प्रत्यक्षेणोपलभ्य तदा शस्त्रसम्पाते प्रवर्तमाने सति वर्तमाने क्तः । कपिध्वजः पाण्डवः हनूमता
महावीरेण ध्वजरूपतयाऽनुगृहीतोऽर्जुनः ॥ २० ॥
२१21
हृषीकेशं तदा वाक्यमिदमाह महीपते ।
अर्जुन उवाच —
सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत ॥ २१ ॥
hṛṣīkeśaṃ tadā vākyamidamāha mahīpate |
arjuna uvāca —
senayorubhayormadhye rathaṃ sthāpaya me'cyuta || 21 ||
सर्वथा भयशुन्यत्वेन युद्धाय गाण्डीवं धनुरुद्यम्य हृषिकेशं इन्द्रियप्रवर्तकत्वेन सर्वान्तःकरणवृत्तिज्ञं
श्रीकृष्णं इदं वक्ष्यमाणं वाक्यमाह उक्तवान् नत्वविमृश्यकारितया स्वयमेव यत्किंचित्कृतवानिति ।
परेषां विमृश्यकारित्वेन नीतिधर्मयोः कौशलं वदन्नविमृश्यकारितया परेषां राज्यं गृहीतवानसीति
नीतिधर्मयोरभावात्तव जयो नास्तीति महीपते इति सम्बोधनेन सूचयति ।
तदेवार्जुनवाक्यमवतारयति- सेनयोरुभयोः स्वपक्षप्रतिपक्षभूतयोः सन्निहितयोः मध्ये मम
रथं स्थापय स्थिरीकुर्विति सर्वेश्वरो नियुज्यतेऽर्जुनेन । अनेन किं हि भक्तानामशक्यं यद्भगवानपि
तन्नियोगमनुतिष्ठतीति ध्रुवो जयः पाण्डवानामिति ।
नन्वेवं रथं स्थापयन्तं मामेते शत्रवो रथात् च्यावयिष्यन्तीति भगवदाशङ्कामाशङ्क्याऽऽह- अच्युतेति ।
देशकालवस्तुष्वच्युतं त्वां को वा च्यावयितुमर्हतीति भावः । एतेन सर्वदा निर्विकारत्वेन नियोगनिमित्तः
कोपोऽपि परिहृत्तः ॥ २१ ॥
मध्ये रथस्थापनप्रयोजनमाह-
२२22
यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान् ।
कैर्मया सह योद्धव्यमस्मिन्रणसमुद्यमे ॥ २२ ॥
yāvadetānnirīkṣe'haṃ yoddhukāmānavasthitān |
kairmayā saha yoddhavyamasminraṇasamudyame || 22 ||
योद्धुकामान्न त्वस्माभि: सह सन्धिकामानवस्थितान्न तु भयात्प्रचलितान्, एतान्
भीष्मद्रोणादीन्यावद्गत्वाऽहं निरीक्षितुं क्षम: स्यां तावत्प्रदेशे रथं स्थापयेत्यर्थ: । यावदिति कालपरं
वा ।
ननु त्वं योद्धा न तु युद्धप्रेक्षक: अतस्तव किमेषां दर्शनेनेत्यत्राऽऽह- कैरिति । अस्मिन्रणसमुद्यमे
बन्धूनामेव परस्परं युद्धोद्योगे मया कै: सह योद्धव्यं मत्कर्तृकयुद्धप्रतियोगिन: के कैर्मया सह योद्धव्यं
किंकर्तृकयुद्धप्रतियोग्यहमिति च महदिदं कौतुकमेतज्ज्ञानमेव मध्ये रथस्थापनप्रयोजनमित्यर्थ: ॥ २२ ॥
ननु बन्धव एते परस्परं सन्धिं कारयिष्यन्तीति कुतो युद्धमित्याशङ्क्याह-
२३23
योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः ।
धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः ॥ २३ ॥
yotsyamānānavekṣe'haṃ ya ete'tra samāgatāḥ |
dhārtarāṣṭrasya durbuddheryuddhe priyacikīrṣavaḥ || 23 ||
य एते भीष्मद्रोणादयो धार्तराष्ट्रस्य दुर्योधनस्य दुर्बुद्धेः स्वरक्षणोपायमजानतः
प्रियचिकीर्षवो युद्धे न तु दुर्बुद्धयपनयनादौ तान् योत्स्यमानानहमवेक्षे उपलभे न तु सन्धिकामान् ।
अतो युद्धाय तत्प्रतियोग्यवलोकनमुचितमेवेति भाव: ॥ २३ ॥
एवमर्जुनेन प्रेरितो भगवानहिंसारूपं धर्ममाश्रित्य प्रायशो युद्धान्तं व्यावर्तयिष्यतीति धृतराष्ट्राभिप्रायमाशङ्क्य तं निराचिकीर्षु: संजयो धृतराष्ट्रं प्रत्युक्ततानित्याह वैशम्पायनः —
२४24
सञ्जय उवाच —
एवमुक्तो हृषीकेशो गुडाकेशेन भारत ।
सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् ॥ २४ ॥
sañjaya uvāca —
evamukto hṛṣīkeśo guḍākeśena bhārata |
senayorubhayormadhye sthāpayitvā rathottamam || 24 ||
हे भारत धृतराष्ट्र भरतवंशमर्यादामनुसंधायापि द्रोहं परित्यज ज्ञातीनामिति संबोधनाभिप्राय: ।
गुडाकाया निद्राया ईशेन जितनिद्रतया सर्वत्र सावधानेनार्जुनेन एवमुक्तो भगवानयं मद्भृत्योऽपि
सारथ्ये मां नियोजयतीति दोषमासज्य नाकुप्यत्, न वा तं युद्धान्न्यवर्तयत्किंतु सेनयोरुभयोर्मध्ये
भीष्मद्रोणप्रमुखतस्तयो: प्रमुखे संमुखे सर्वेषां महीक्षितां च संमुखे, आद्यादित्वात्सार्वविभक्तिकस्तसि:
। चकारेण समासनिविष्टोऽपि प्रमुखतः शब्द आकृष्यते । भीष्मद्रोणयो:
पृथक्कीर्तनमतिप्राधान्यसूचनाय । रथोत्तमम् अग्निना दत्तं दिव्यं रथं भगवता स्वयमेव
सारथ्येनाधिष्ठिततया च सर्वोत्तमं स्थापयित्वा हृषीकेश: सर्वेषां निगूढाभिप्रायज्ञो भगवानर्जुनस्य
शोकमोहावुपस्थिताविति विज्ञाय सोपहासमर्जुनमुवाच ॥ २४ ॥
२५25
भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् ।
उवाच पार्थ पश्यैतान्समवेतान्कुरूनिति ॥ २५ ॥
bhīṣmadroṇapramukhataḥ sarveṣāṃ ca mahīkṣitām |
uvāca pārtha paśyaitānsamavetānkurūniti || 25 ||
हे पार्थ पृथाया: स्रीस्वभावेन शोकमोहपग्रस्ततया तत्संबन्धिनस्तवापि तद्धत्ता समुपस्थितेति सूचयन्
हृषीकेशत्वमात्मनो दर्शयति । पृथा मम पितु: स्वसा तस्या: पुत्रोऽसीति सम्बन्धोल्लेखेन चाऽऽश्वासयति
मम सारथ्ये निश्चितो भूत्वा सर्वानपि समवेतान्कुरुन् युयुत्सून् पश्य नि:शङ्कतयेति दर्शनविध्यभिप्रायः
। अहं सारथ्येऽतिसावधान: त्वं तु साम्प्रतमेव रथित्वं त्यक्ष्यसीति किं तव परसेनादर्शनेत्यर्जुनस्य
धैर्यमापादयितुं पश्येत्येतावत्पर्यन्तं भगवतो वाक्यम् । अन्यथा रथ सेनयोर्मध्ये स्थापयामासेत्येतावन्मात्र
ब्रूयात् ॥ २५ ॥
२६26
तत्रापश्यत्स्थितान्पार्थः पितॄनथ पितामहान् ।
आचार्यान्मातुलान्भ्रातॄन्पुत्रान्पौत्रान्सखींस्तथा ॥ २६ ॥
tatrāpaśyatsthitānpārthaḥ pitṝnatha pitāmahān |
ācāryānmātulānbhrātṝnputrānpautrānsakhīṃstathā || 26 ||
तत्र समरसमारम्भार्थं सैन्यदर्शने भगवताऽभ्यनुज्ञाते सति सेनयोरुभयोरपि स्थितान् पार्थो अपश्यत्
इत्यन्वयः । अथ शब्दस्तथाशब्दपर्याय: । परसेनायां पितॄन् पितृव्यान्भूरिश्रवःप्रभृतीन् पितामहान्
भीष्मसोमदत्तप्रभृतीन् आचार्यान् द्रोणकृपप्रभृतीन् मातुलान् शल्यशकुनिप्रभृतीन् भ्रातॄन्
दुर्योधनप्रभृतीन् पुत्रान् लक्ष्मणप्रभृतीन् पौत्रान् लक्ष्मणादिपुत्रान् सखीन्
अश्वत्थामजयद्रथप्रभृतीन्वयस्यान् ॥ २६ ॥
२७27
श्वशुरान्सुहृदश्चैवसेनयोरुभयोरपि ।
तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान् ॥ २७ ॥
śvaśurānsuhṛdaścaivasenayorubhayorapi |
tānsamīkṣya sa kaunteyaḥ sarvānbandhūnavasthitān || 27 ||
श्वशुरान् भार्याणां जनयितृन्, सुहृदो मित्राणि कृतवर्मभगदत्तप्रभुतीन् । सुहृद इत्यनेन यावन्तः
कृतोपकारा मातामहादयश्च ते द्रष्टव्या: । एवं स्वसेनायामप्युपलक्षणीयम् ।
एवं स्थिते महानधर्मो हिंसेति विपरीतबुद्धया मोहाख्यया शास्त्रविहितत्वेन धर्मत्वमिति ज्ञानप्रतिवन्धकेन च ममकारनिबन्धनेन चित्तवैक्लव्येन शोकमोहाख्येनाभिभूतविवेकस्यार्जुनस्य पूर्वमारब्धाद्युद्धाख्यात्स्वधर्मादुपरिरंसा महानर्थपर्यवसायिनी प्रवृत्तेति दर्शयति —
२८28
कृपया परयाविष्टो विषीदन्निदमब्रवीत् ।
अर्जुन उवाच —
दृष्ट्वेमान्स्वजनान्कृष्ण युयुत्सून्समुपस्थितान् ॥ २८ ॥
kṛpayā parayāviṣṭo viṣīdannidamabravīt |
arjuna uvāca —
dṛṣṭvemānsvajanānkṛṣṇa yuyutsūnsamupasthitān || 28 ||
कौन्तेयइति स्त्रीप्रभवत्वकीर्तन पार्थवत्तात्विकमूढतामपेक्ष्य कृपया कर्त्र्या स्वव्यापारेणैव आविष्टो
व्याप्तो न तु कृपां केनचिद्व्यापारेणाऽऽविष्ट इति स्वतः सिद्धैवास्य कृपेति सूच्यते । एतत्प्रकटीकरणाय
परयेति विशेषणम् । अपरयेति वा छेद: । स्वसैन्ये पुराऽपि कृपाऽभूदेव तस्मिन्समये तु कोरवसैन्येऽप्यपरा
कृपाऽभूदित्यर्थः । विषीदन् विषादमुपतापं प्राप्नुवन्नब्रवीदित्युक्तिविषादयो: समकालतां
वदन्सगद्गदकण्ठताश्रुपातादि विषादकार्यमुक्तिकाले द्योतयति ।
तदेव भगवन्तं प्रत्यर्जुनवाक्यमवतारयति संजय: अर्जुन उवाचेति इत्यादिना एवमुक्त्वाऽर्जुनः संख्ये
इत्यतः प्राक्तनेन ग्रन्थेन । तत्र स्वधर्मप्रवृत्तिकारणीभूततत्त्वज्ञानप्रतिबन्धकः स्वपरदेह
आत्मात्मीयाभिमानवतोऽनात्मविदोऽर्जुनस्य युद्धेन स्वपरदेहविनाशप्रसङ्गदर्शिनः शोको महानासीदिति
तल्लिङ्गकथनेन दर्शयति त्रिभिः श्लोकैः ।
इमं स्वजनम् आत्मीयं बन्धुवर्ग युद्धेच्छु युद्भभूमौ चोपस्थितं दृष्ट्वा स्थितस्य मम पश्यतो ममेत्यर्थः ॥
२८ ॥
२९29
सीदन्ति मम गात्राणि मुखं च परिशुष्यति ।
वेपथुश्च शरीरे मे रोमहर्षश्च जायते ॥ २९ ॥
sīdanti mama gātrāṇi mukhaṃ ca pariśuṣyati |
vepathuśca śarīre me romaharṣaśca jāyate || 29 ||
अङ्गानि व्यथन्ते मुखं च परिशुष्यति इति श्रमादिनिमित्तशोषापेक्षयाऽतिशयकथनाय
सर्वतोऽभाववाचिपरिशब्दप्रयोग: । वेपथु: कम्पः रोमहर्ष: पुलकितत्वम् ॥ २९ ॥
३०30
गाण्डीवं स्रंसते हस्तात्त्वक्चैव परिदह्यते ।
न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः ॥ ३० ॥
gāṇḍīvaṃ sraṃsate hastāttvakcaiva paridahyate |
na ca śaknomyavasthātuṃ bhramatīva ca me manaḥ || 30 ||
गाण्डीव भ्रंशेनाधैर्यलक्षणं दौर्बल्यं त्वक् परिदाहेन चान्तः संतापो दर्शितः । अवस्थातुं शरीरं
धारयितुं च न शक्नोमि इत्यनेन मूर्च्छा सूच्यते । तत्र हेतुः मम मनो भ्रमतीव इति ।
भ्रमणकर्तुसादृश्यं नाम मनस: कश्चिद्विकारविशेषो मूर्च्छाया: पूर्वावस्था । च हेतौ । यतएव मनो
नावस्थातुं शक्नोमीत्यर्थ: ॥ ३० ॥
पुनरप्यवस्थानासामर्थ्ये कारणमाह —
३१31
निमित्तानि च पश्यामि विपरीतानि केशव ।
न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे ॥ ३१ ॥
nimittāni ca paśyāmi viparītāni keśava |
na ca śreyo'nupaśyāmi hatvā svajanamāhave || 31 ||
निमित्तानि च सूचकतयाऽऽसन्नदुःखस्य विपरीतानि वामनेत्रस्फुरणादीनि पश्यामि अनुभवामि
अतोऽपि भावस्थातुं शक्नोमीत्यर्थ: । अहमनात्मवित्त्वेन दुःखित्वाच्छोकनिबन्धनं क्लेशमनुभवामि । त्वं तु
सदानन्दरूपत्वाच्छोकासंसर्गीति कृष्णपदेन सूचितम् । अतः स्वजनदर्शने तुल्येऽपि
शोकासंसर्गित्वलक्षणाद्विशेषात्त्वं मामशोकं कुर्विति भाव: ।
केशव पदेन च तत्करणसामर्थ्यं को ब्रह्मा सृष्टिकर्ता ईशो रुद्र: संहर्ता तौ वात्यनुकम्प्यतया गच्छतीति
तद्व्युत्पत्ते: । भक्तदुःखकर्षित्वं वा कृष्णपदेनोक्त केशवपदेन च केश्यादिदुष्टदैत्यनिबर्हणेन सर्वदा
भक्तान्पालयसीत्यतो मामपि शोकनिवारणेन पालयिष्यसीति सूचितम् ।
एवं लिङ्गद्वारेण समीचीनप्रवृत्तिहेतुभूततत्त्वज्ञानप्रतिबन्धकीभूतं शोकमुक्त्वा संप्रति तत्कारितां
विपरीतप्रवृत्तिहेतुभूतां विपरीतबुद्धिं दर्शयति - श्रेय: पुरुषार्थं दृष्टमदृष्टं वा बहुविचारणात् अनु
पश्चादपि न पश्यामि अस्वजनमपि युद्धे हत्वा श्रेयो न पश्यामि ।
“द्वाविमौ पुरुषौ लोके सूर्यमण्डलभेदिनो । परिव्राड्योगयुक्तश्च रणे चाभिमुखो हतः” ॥
इत्यादिना हतस्यैव श्रेयोविशेषाभिधानात् । हन्तुस्तु न किंचित्सुकृतम् । एवमस्वजनवधेऽपि श्रेयसोऽभावे
स्वजनवधे सुतरां तदभाव इति ज्ञापयितुं स्वजनम् इत्युक्तम् । एवमनाहव वधे श्रेयो
नास्तीतिसिद्धसाधनवारणायाः आहव इत्युक्तम् ॥ ३१ ॥
ननु मा भूददृष्टं प्रयोजनं दृष्टप्रयोजनानि तु विजयो राज्यं सुखानि च निर्विवादानीत्यत आह —
३२32
न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च ।
किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा ॥ ३२ ॥
na kāṅkṣe vijayaṃ kṛṣṇa na ca rājyaṃ sukhāni ca |
kiṃ no rājyena govinda kiṃ bhogairjīvitena vā || 32 ||
फलाकाङ्क्षा ह्युपायप्रवृत्तो कारणम् । अतस्तदाकाङ्क्षाया अभावात्तदुपाये युद्धे भोजनेच्छाविरहिण इव पाकादौ मम प्रवृत्तिरनुपपन्नेत्यर्थ: ।
कुतः पुनरितरपुरुषैरिष्यमाणेषु तेषु तवानिच्छेत्तत आह — किं न इति । भोगै: सुखैः जीवितेन
जीवितसाधनेन विजयेनेत्यर्थ: । विना राज्यं भोगान्कौरवविजयं च वने निवसतामस्माकं तेनैव जगति
श्लाघनीयजीवितानां किमेभिराकाङ्क्षितैरिति भाव: । गोशब्दवाच्यानीन्द्रियाण्यधिष्ठानतया नित्यं
प्राप्तस्त्वमेव ममैहिकफलविराग जानासीति सूचयन्संबोधयति — गोविन्देति ॥ ३२ ॥
राज्यादीनामाक्षेपे हेतुमाह —
३३33
येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च ।
त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च ॥ ३३ ॥
yeṣāmarthe kāṅkṣitaṃ no rājyaṃ bhogāḥ sukhāni ca |
ta ime'vasthitā yuddhe prāṇāṃstyaktvā dhanāni ca || 33 ||
एतेन स्वस्य वैराग्येऽपि स्वीयानामर्थे यतनीयमित्यपास्तम् । एकाकिनो हि राज्यायनपेक्षितमेव । येषां
तु बन्धूनां अर्थे तदपेक्षितं त एत प्राणान् प्राणाशां धनानि धनाशां च त्यक्त्वा युद्धेः
अवस्थिता इति न स्वार्थ: स्वीयार्थो वाऽयं प्रयत्न इति भाव: । भोग शब्द: पूर्वत्र सुखपरतया
निर्दिष्टोऽप्यत्र पृथक्सुखग्रहणात्सुखसाधनविषयपर: । प्राणधनशब्दौ तु तदाशालक्षकौ । स्वप्राणत्यागेऽपि
स्वबन्धूनामुप भोगाय धनाशा संभवेदिति तद्वारणाय पृथग्धनग्रहणम् ॥ ३३ ॥
येषामर्थे राज्यायपेक्षितं तेऽत्र नाऽऽगता इत्याशङ्क्य तान्विशिनष्टि —
३४34
आचार्याः पितरः पुत्रास्तथैव च पितामहाः ।
मातुलाः श्वशुराः पौत्राः स्यालाः सम्बन्धिनस्तथा ॥ ३४ ॥
ācāryāḥ pitaraḥ putrāstathaiva ca pitāmahāḥ |
mātulāḥ śvaśurāḥ pautrāḥ syālāḥ sambandhinastathā || 34 ||
स्पष्टम् ॥ ३४ ॥
ननु यदि कृपया त्वमेतान्न हंसि तर्हि त्वामेते राज्यलोभेन हनिष्यन्त्येवातस्त्वमेवैतान् हत्वा राज्यं भुङ्क्ष्वेत्यत आह —
३५35
एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन ।
अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते ॥ ३५ ॥
etānna hantumicchāmi ghnato'pi madhusūdana |
api trailokyarājyasya hetoḥ kiṃ nu mahīkṛte || 35 ||
त्रैलोक्यराज्यस्यापि हेतोः तत्प्राप्त्यर्थमपि अस्मान् घ्नतोऽपि एतान्न हन्तुमिच्छामि इच्छामपि न
कुर्यामहं कि पुनर्हन्यां महीमात्रप्राप्तने तु न हन्यामिति किमु वक्तव्यमित्यर्थ: । मधुसूदनेति
संबोधयन्वैदिकमार्गप्रवर्तकत्वं भगवतः सूचयति ॥ ३५ ॥
नन्वन्यान्विहाय धार्तराष्ट्रा एव हन्तव्यास्तेषामत्यन्तक्रूरतरतत्तद्दुःखदातृणां वधे प्रीतिसंभवादित्यत आह —
३६36
निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन ।
पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः ॥ ३६ ॥
nihatya dhārtarāṣṭrānnaḥ kā prītiḥ syājjanārdana |
pāpamevāśrayedasmānhatvaitānātatāyinaḥ || 36 ||
धार्तराष्ट्रान् दुर्योधनादीन्भ्रातृन् निहत्य स्थितानामस्माकं का प्रीति: स्यात् न काऽपीत्यर्थ:
। नहि मूढजनोचितक्षणमात्रवर्तिसुखाभासलोभेन चिरतरनरकयातनाहेतुर्बन्धुवधोऽस्माकं युक्त इति भाव: ।
जनार्दनेति संबोधनेन यदि वध्या एते तर्हि त्वमेवैताञ्जहि प्रलये सर्वजनहिंसकत्वेऽपि
सर्वपापासंसर्गित्वादिति सूचयति । ननु —
“अग्निदो गरदश्चेव शस्त्रपाणिर्धनापह: । क्षेत्रदारापहारी च षडेते आततायिनः” ॥
इति स्मृतेरेतेषां च सर्वप्रकारैराततायित्वा
“आततायिनमायान्तं हन्यादेवाविचारयन् । नाऽऽततायिवधे दोषो हन्तुर्भवति कश्चन” ॥
इति वचनेन दोषाभावप्रतीतेर्हन्तव्या एव दुर्योधनादय आततायिन इत्याशङ्क्याऽऽह — पापमेवेति ।
एतानाततायिनः अपि हत्वा स्थितानस्मान्पापमाश्रयेदेवेति संबन्ध: । अथवा पापमेवाऽऽश्रयेत् न
किंचिदन्यद्दृष्टमदृष्टं वा प्रयोजनमित्यर्थ: । “न हिंस्यात्” इति धर्मशास्रादाततायिनं
हन्यादित्यर्थशास्त्रस्य दुर्बलत्वात् । तदुक्तं याज्ञवल्क्येन —
“स्मृत्योर्विरोधे न्यायस्तु बलवान्व्यवहारतः । अर्थशास्त्रात्तु बलवद्धर्मशास्रमिति स्थिति:” इति ॥
अपरा व्याख्या — ननु धार्तराष्ट्रान्ध्नतां भवतां प्रीत्यभावेऽपि युष्मान् ध्नतां थार्तराष्ट्राणां
प्रीतिरस्त्येवातस्ते युष्मान्हन्युरित्यत आह — पापमेवेति । अस्मान्हत्वा स्थितानेतानाततायिनो
धार्तराष्ट्रान्पूर्वमपि पापिन: सांप्रतमपि पापमेवाऽऽश्रयेन्नान्यत्किंचित्सुखमित्यर्थ: । तथा
चायुध्यतोऽस्मान्हत्वैत एव पापिनो भविष्यन्ति नास्माकं काऽपि क्षति: पापासंबन्धादित्यभिप्रायः ॥ ३६
॥
फलाभावादनर्थसंभवाच्च परहिंसा न कर्तव्येति न च श्रैयोऽनुपश्यामि इत्यारभ्योक्तं तदुपसंहरति —
३७37
तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्सबान्धवान् ।
स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ॥ ३७ ॥
tasmānnārhā vayaṃ hantuṃ dhārtarāṣṭrānsabāndhavān |
svajanaṃ hi kathaṃ hatvā sukhinaḥ syāma mādhava || 37 ||
अदृष्टफलाभावोऽनर्थसंभवश्च तच्छब्देन परामृश्यते । दृष्टसुखाभावमाह — स्वजनं हि इति । माधवेति
लक्ष्मीपतित्वान्नालक्ष्मीके कर्मणि प्रवर्तयितुमर्हसीति भावः ॥ ३७ ॥
कथं तर्हि परेषां कुलक्षये स्वजनहिंसायां च प्रवृत्तिस्तत्राऽऽह —
३८38
यद्यप्येते न पश्यन्ति लोभोपहतचेतसः ।
कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् ॥ ३८ ॥
yadyapyete na paśyanti lobhopahatacetasaḥ |
kulakṣayakṛtaṃ doṣaṃ mitradrohe ca pātakam || 38 ||
लोभोपहत बुद्धित्वात्तेषां कुलक्षयादिनिमित्तदोषप्रतिसन्धानाभावात्प्रवृत्तिः सम्भवतीत्यर्थः । अत
एव भीष्मादीनां शिष्टानां बन्धुवधे प्रवृत्तत्वाच्छिष्टाचारत्वेन वेदमूलत्वादितरेषामपि
तत्प्रवृत्तिरूचितेत्यपास्तं । “हेतुदर्शनाच्च” इतिन्यायात् । तत्र हि लोभादिहेतुदर्शने वेदमूलत्वं न कल्प्यत
इति स्थापितम् । यद्यप्येते न पश्यन्ति तथाऽपि कथमस्माभिर्न ज्ञेयमित्युत्तरश्लोकेन संबन्ध: ॥ ३८ ॥
ननु यद्यप्येते लोभात्प्रवृत्तास्तथाऽपि “आहूतो न निवर्तेत द्युतादपि रणादपि” इति “विजितं क्षत्रियस्य” इत्यादिभिः क्षत्रियस्य युद्धं धर्मो युद्वार्जितं च धर्म्यं धनमिति धर्मशास्रे निश्चयाद्भवतां च तैराहूतत्वाद्युद्धे प्रवृत्तिरुचितैवेति शङ्क्याऽऽह —
३९39
कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम् ।
कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन ॥ ३९ ॥
kathaṃ na jñeyamasmābhiḥ pāpādasmānnivartitum |
kulakṣayakṛtaṃ doṣaṃ prapaśyadbhirjanārdana || 39 ||
अस्मात्पापात् बन्धुवधफलकयुद्धरूपात् । अयमर्थः श्रेयः साधनताज्ञानं हि प्रवर्तकं श्रेयश्च
तद्यदश्रेयोऽननुबन्धि अन्यथा श्येनादीनामपि धर्मत्वापत्तेः । तथा चोक्तं —
“फलतोऽपि च यत्कर्म नानर्थेनानुबध्यते । केवलप्रीतिहेतुत्वात्तद्धर्म इति कथ्यते” इति ॥
ततश्चाश्रेयोनुबन्धितया शास्त्रप्रतिपादितेऽपि श्येनादाविवास्मिन्युद्धेऽपि नास्माकं प्रवृत्तिरूचितेति ॥ ३९ ॥
एवं च विजयादीनामश्रेयस्त्वेनानाकाङ्क्षितत्वान्न तदर्थं प्रवर्तितव्यमिति द्रढयितुमनर्थानुवन्धित्वेनाश्रेयस्त्वमेव प्रपञ्चयन्नाह —
४०40
कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः ।
धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत ॥ ४० ॥
kulakṣaye praṇaśyanti kuladharmāḥ sanātanāḥ |
dharme naṣṭe kulaṃ kṛtsnamadharmo'bhibhavatyuta || 40 ||
सनातनाः परम्पराप्राप्ताः कुलधर्माः कुलोचिता धर्माः कुलक्षये प्रणश्यन्ति कर्तुरभावात् । उत अपि अग्निहोत्राद्यनुष्ठातृपुरुषनाशेन धर्मे नष्टे । जात्यभिप्रायमेकवचनम् । अवशिष्टं बालादिरूपं कृत्स्नमपि कुलधर्मोऽभिभवति स्वाधीनतया व्याप्नोति । उतशब्दः कृत्स्नपदेन संबध्यते ॥ ४० ॥
४१41
अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः ।
स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्करः ॥ ४१ ॥
adharmābhibhavātkṛṣṇa praduṣyanti kulastriyaḥ |
strīṣu duṣṭāsu vārṣṇeya jāyate varṇasaṅkaraḥ || 41 ||
अस्मदीयैः पतिभिर्धर्मतिक्रम्य कुलक्षयः कृतश्चेदस्माभिरपि व्यभिचारे कृते को दोषः स्यादित्येवं कुतर्कहताः कुलस्त्रियः प्रदुष्येयुरित्यर्थः । अथवा कुलक्षयकारिपतितपतिसंबन्धादेव स्त्रीणां दुष्टत्वम्आशुद्धेः संप्रतीक्ष्यो हि महापातकदूषितः इत्यादिस्मृतेः ॥ ४१ ॥
४२42
सङ्करो नरकायैव कुलघ्नानां कुलस्य च ।
पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः ॥ ४२ ॥
saṅkaro narakāyaiva kulaghnānāṃ kulasya ca |
patanti pitaro hyeṣāṃ luptapiṇḍodakakriyāḥ || 42 ||
कुलस्य संकरश्च कुलघ्नानां नरकायैव भवतीत्यन्वयः । न केवलं कुलघ्नानामेव नरकपातः किंतु तत्पितृ़णामपीत्याह पतन्तीति । हिशब्दोऽप्यर्थे हेतौ वा । पुत्रादीनां कर्तृ़णामभावाल्लुप्ता पिण्डस्योदकस्य च क्रिया येषां ते तथा कुलघ्नानां पितरः पतन्ति नरकायैवेत्यनुषङ्गः ॥ ४२ ॥
४३43
दोषैरेतैः कुलघ्नानां वर्णसङ्करकारकैः ।
उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः ॥ ४३ ॥
doṣairetaiḥ kulaghnānāṃ varṇasaṅkarakārakaiḥ |
utsādyante jātidharmāḥ kuladharmāśca śāśvatāḥ || 43 ||
जातिधर्माः क्षत्रियत्वादिनिबन्धनाः कुलधर्मा असाधारणाश्च एतैर्दोषैरुत्साद्यन्ते उत्सन्नाः क्रियन्ते । विनाश्यन्त इत्यर्थः ॥ ४३ ॥
४४44
उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन ।
नरके नियतं वासो भवतीत्यनुशुश्रुम ॥ ४४ ॥
utsannakuladharmāṇāṃ manuṣyāṇāṃ janārdana |
narake niyataṃ vāso bhavatītyanuśuśruma || 44 ||
ततश्च प्रेतत्वपरावृत्तिकारणाभावान्नरके एव केवलं निरन्तरं वासो भवति ध्रुवमित्यनुशुश्रुमेत्याचार्याणां मुखाद्वयं श्रुतवन्तो न स्वाभ्यूहेन कल्पयाम इति पूर्वोक्तस्यैव दृढीकरणम् ॥ ४४ ॥
४५45
अहो बत महत्पापं कर्तुं व्यवसिता वयम् ।
यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः ॥ ४५ ॥
aho bata mahatpāpaṃ kartuṃ vyavasitā vayam |
yadrājyasukhalobhena hantuṃ svajanamudyatāḥ || 45 ||
बन्धुवधपर्यवसायी युद्धाध्यवसायोऽपि सर्वथा पापिष्ठतरः किं पुनर्युद्धमिति वक्तुं तदध्यवसायेनात्मानं शोचन्नाह यदीदृशी ते बुद्धिः कुतस्तर्हि युद्धभिनिवेशेनागतोऽसीति न वक्तव्यम् । अविमृश्यकारितया मयौद्धत्यस्य कृतत्वादिति भावः ॥ ४५ ॥
४६46
यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः ।
धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् ॥ ४६ ॥
yadi māmapratīkāramaśastraṃ śastrapāṇayaḥ |
dhārtarāṣṭrā raṇe hanyustanme kṣemataraṃ bhavet || 46 ||
ननु तव वैराग्येऽपि भीमसेनादीनां युद्धोत्सुकत्वाद्बन्धुवधो भविष्यत्येव त्वया पुनः किं विधेयमित्यत आह प्राणादपि प्रकृष्टो धर्मः प्राणभृतामहिंसा पापानिष्पतेः तस्माज्जीवनापेक्षया मरणमेव मम क्षेमतरमत्यन्तं हितं भवेत् । प्रियतरम् इति पाठेऽपि सएवार्थः । अप्रतीकारं स्वप्राणत्राणाय व्यापारमकुर्वाणं बन्धुवधाध्यवसायमात्रेणापि प्रायश्चित्तान्तरहितं वा । तथाच प्राणान्तप्रायश्चित्तेनैव शुद्धिर्भविष्यतीत्यर्थः ॥ ४६ ॥
४७47
सञ्जय उवाच —
एवमुक्त्वार्जुनः सङ्ख्ये रथोपस्थ उपाविशत् ।
विसृज्य सशरं चापं शोकसंविग्नमानसः ॥ ४७ ॥
sañjaya uvāca —
evamuktvārjunaḥ saṅkhye rathopastha upāviśat |
visṛjya saśaraṃ cāpaṃ śokasaṃvignamānasaḥ || 47 ||
इति श्रीमहाभारते शतसाहस्र्यां संहितायां वैयासिक्यां भीष्मपर्वणि
श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे
श्रीकृष्णार्जुनसंवादे अर्जुनविषादयोगो नाम प्रथमोऽध्यायः ॥
iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyāṃ bhīṣmaparvaṇi
śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre
śrīkṛṣṇārjunasaṃvāde arjunaviṣādayogo nāma prathamo'dhyāyaḥ ||