सप्तमः खण्डः
१1
पुरुषो वाव गौतमाग्निस्तस्य वागेव समित्प्राणो धूमो
जिह्वार्चिश्चक्षुरङ्गाराः
श्रोत्रं विस्फुलिङ्गाः ॥ १ ॥
puruṣo vāva gautamāgnistasya vāgeva samitprāṇo dhūmo
jihvārciścakṣuraṅgārāḥ
śrotraṃ visphuliṅgāḥ || 1 ||
२2
तस्मिन्नेतस्मिन्नग्नौ देवा अन्नं जुह्वति तस्या आहुते रेतः सम्भवति ॥ २ ॥
tasminnetasminnagnau devā annaṃ juhvati tasyā āhute retaḥ sambhavati || 2 ||
इति सप्तमखण्डभाष्यम् ॥
iti saptamakhaṇḍabhāṣyam ||