तृतीयः खण्डः

1

तेषां खल्वेषां भूतानां त्रीण्येव बीजानि भवन्त्याण्डजं जीवजमुद्भिज्जमिति
॥ १ ॥
teṣāṃ khalveṣāṃ bhūtānāṃ trīṇyeva bījāni bhavantyāṇḍajaṃ jīvajamudbhijjamiti
|| 1 ||

2

सेयं देवतैक्षत हन्ताहमिमास्तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य
नामरूपे व्याकरवाणीति ॥ २ ॥
seyaṃ devataikṣata hantāhamimāstisro devatā anena jīvenātmanānupraviśya
nāmarūpe vyākaravāṇīti || 2 ||

3

तासां त्रिवृतं त्रिवृतमेकैकां करवाणीति सेयं देवतेमास्तिस्रो देवता अनेनैव
जीवेनात्मनानुप्रविश्य नामरूपे व्याकरोत् ॥ ३ ॥
tāsāṃ trivṛtaṃ trivṛtamekaikāṃ karavāṇīti seyaṃ devatemāstisro devatā anenaiva
jīvenātmanānupraviśya nāmarūpe vyākarot || 3 ||

4

तासां त्रिवृतं त्रिवृतमेकैकामकरोद्यथा तु खलु सोम्येमास्तिस्रो
देवतास्त्रिवृत्त्रिवृदेकैका भवति तन्मे विजानीहीति
॥ ४ ॥
tāsāṃ trivṛtaṃ trivṛtamekaikāmakarodyathā tu khalu somyemāstisro
devatāstrivṛttrivṛdekaikā bhavati tanme vijānīhīti
|| 4 ||

इति तृतीयखण्डभाष्यम् ॥
iti tṛtīyakhaṇḍabhāṣyam ||